श्रीसिद्धेश्वरस्तोत्रम्
सिद्धेशो ममदैवतं चरगुरो सिद्धेश मां पालय
सिद्धेशेन सुरक्षिताश्चरवराः सिद्धेशमीशं भजे ।
सिद्धेशाय भवेन्मया विरचितं सिद्धशतोऽन्यं न हि
सिद्धेशस्य चरोऽस्मि भक्तिरचलासिद्धेश एवास्ति मे ॥ १॥
लिङ्गं नः कुलदैवतं पशुपते लिङ्ग, त्वदीयावयम्
लिङ्गं स्तौमि सुरासुरोरग गणालिङ्गेन सन्तारिताः ।
लिङ्गायास्तुमया विरचितं लिङ्गात्परं नो भजे
लिङ्गस्यानुचरोऽस्मि भक्तिरचला लिङ्गे परब्रह्मणि ॥ २॥
पगडदिन्नि बृहन्मठ पालको
बसवराजसुनामक पण्डितः ।
वरशिवागमबोधविशारदो
विविधशास्त्रविचक्षण धीरधीः ॥ ३॥
इति श्रीसिद्धेश्वरस्तोत्रं सम्पूर्णम् ।
Proofread by Vani V.