स्कन्दकृता शिवस्तुतिः ५
(शिवरहस्यान्तर्गते सदाशिवाख्ये)
स्कन्द उवाच ।
नमः शिवाय निर्गुणाय निष्कलाय त्रिशूलिने ॥ १६.२॥
नमः शिवाय शन्तमाय श्रुतिगोचराय शम्भवे ।
नमः शिवाय निष्क्रियाय निर्मलाय योगिने ॥ १७॥
नमःशिवाय सिद्धिमुक्ति हेतवे चिदात्मने ।
नमःशिवाय सोमाय(सोम)सूर्यवह्न्यतीततेजसे ॥ १८॥
नमः शिवाय वेदवागगोचराय वाङ्मयाय ।
नमः शिवाय सत्यकृत्यसाक्षिणे महात्मने ॥ १९॥
नमःशिवाय शङ्कराय शक्तिबीजहेतवे ।
नमः शिवाय चन्द्रशेखराय ते कपर्दिने ॥ २०॥
नमः शिवाय भूतिभूषणायभूति हेतवे ।
नमः शिवाय नित्यशुद्धतेजसे त्रिशूलिने ॥ २१॥
नमः शिवाय भक्तबन्धमोचकाय शम्भवे ।
नमः शिवाय बिन्दुवाच्यवाचकात्मने नमः ॥ २२॥
नमः शिवाय नित्यसान्द्रसौख्यसीमतेजसे ।
नमः शिवाय दिव्यबोधरूपिणे परात्मने ॥ २३॥
नमः शिवाय सत्यवागगोचराय बन्धवे ।
नमः शिवाय भक्तलोकवाञ्छितप्रदायिने ॥ २४॥
नमः शिवाय विष्णुवेधसाप्यदृश्यमौलये(मूर्तये) ।
(नमः शिवाय विष्णुधात्रदृश्यमौलिमूर्तये ।)
नमः शिवाय भुक्तिमुक्तिदायिने हराय ते ॥ २५॥
नमःशिवाय शक्तिहस्ततारकारिसूनवे ।
नमः शिवाय पर्वतेन्द्रजार्धदेहभागिने ॥ २६॥
नमः शिवाय सिन्धुरेन्द्रमुख्यवक्त्रसूनवे ।
सदा नमः शिवाय ते सदाशिवाय शम्भवे ॥ २७॥
॥ इति शिवरहस्यान्तर्गते स्कन्दकृता शिवस्तुतिः ५ सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । सदाशिवाख्यः नवमांशः । अध्यायः ४० । १६.२-२७॥
- .. shrIshivarahasyam . sadAshivAkhyaH navamAMshaH . adhyAyaH 40 . 16.2-27..
Proofread by Ruma Dewan