स्कन्दप्रोक्ता हाटकेशाख्यलिङ्गमहिमा
(शिवरहस्यान्तर्गते भीमाख्ये)
तल्लिङ्गप्रभया सुदीपितमहो पाताललोकं सदा
नागानां विलसत्फणामणिगणज्योत्स्नोरुधारातताः ।
नो चन्द्रार्कसुविद्युदुज्ज्वलमहावह्निप्रभाभादिकाः
नोषा नो भगणाः सदैव न दिवारात्रं महेशाश्रयात् ॥ २५॥
वृन्दारवृन्दा अपि चन्द्रमौलि-
पादारविन्दभजनाय मुदा प्रयान्ति ।
नागैर्नगोपममहोरुशरीरशीर्षै-
र्नगारिवाहसहिताः परिपूज्य यान्ति ॥ २६॥
तत्पातालतलेऽपि हाटकमहालिङ्गं सदेवार्चयन्
नागैर्नागवराः स्वकीयसुमहाशुण्डोरुकाण्डोत्थितैः ।
धारासार सुपुष्करोद्धृतलसद्बिल्वीदलैः कोमलैः
ते चाष्टौ निवसन्ति भूधरवराः कैलाससानुप्रभाः ॥ २७॥
पाताले तालकेतु प्रभृतिबलिराः शत्रुवित्रासना ये
देवा अप्यमरावतीं परिविहायात्रैव सम्मोदिताः ।
विप्रेन्द्राः सुरसिद्धदैत्यनिकरा यूयं च नागोत्तमाः ।
शार्वं लिङ्गमुमातेः प्रियतमं श्रीहाटकेशाभिधम् ॥ २८॥
कष्टं वीक्ष्य त्रिविष्टपं श्रुतिशिरोनिष्ठां हि सम्प्राप्य ते
धन्यास्ते शिपिविष्ट निष्ठमनसा सम्पूज्यन्त्वादरात् ।
जूटाहिद्युतिकोटिकूटघटनोत्तुङ्गोत्तमाङ्गोल्लस-
च्चन्द्रांशुस्फुटदुत्पलारुणरजः स्वः सिन्धुमौलिं हरम् ॥ २९॥
लीलापाङ्गस्फुलिङ्गसङ्गतमहानङ्गाङ्गमातङ्ग हृ-
त्तल्लिङ्गोत्तममध्यसङ्गतमुमादेहार्धलिङ्गं हरम् ।
बालेन्दुद्युति जूटिताखिलजटत्कोटीरपाटीरकं
घोटीवेदवधूटिकार्धविलसद्गात्रं निटालेक्षणम् ॥ ३०॥
॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्ता हाटकेशाख्यलिङ्गमहिमा सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः २४ पाताले हाटकेशप्रभावः । २५-३०॥
- .. shrIshivarahasyam . bhImAkhyaH aShTamAMshaH . adhyAyaH 24 pAtAle hATakeshaprabhAvaH . 25-30..
Notes:
Skanda स्कन्द narrates the Glory of Hāṭakeśaliṅga हाटकेशलिङ्ग located in Pātāla Loka पाताललोक.
Proofread by Ruma Dewan