स्कन्दप्रोक्तं कैलासे शङ्करालयवर्णनम्
(शिवरहस्यान्तर्गते सदाशिवाख्ये)
- जैगीषव्यस्कन्दसंवादे -
सर्वलोकोपाकाराय कैलासे शङ्करालये ॥ १.२॥
मणिसौधसहस्राढ्ये रत्नप्राकारविस्तृते ।
मणिमण्डपसाहस्त्रैर्निचिते खचितोपले ॥ २॥
नवरत्नमणिज्योतिः प्रभाकीलितदिङ्मुखे ।
वैडूर्यसूत्रान्तरगकान्तिकाञ्चितदिक्तटे ॥ ३॥
हरिद्धरिमणीगर्भसच्छन्नामलभूतले ।
मणिगोपुरगोद्भासि कलशद्योतिताम्बरे ॥ ४॥
चलत्पताकानिवहसंवहोद्भूतवातके ।
सभाविभासिनटनकम्पिताखिलभूतले ॥ ५॥
मणिधारा महोदारा दूरीकृततमस्ततौ ।
(महोदारमणिज्योत्स्ना दूरीकृततमस्ततौ ।)
प्राकारगोपुरोत्तुङ्गगोपुङ्गव विराजिते ॥ ६॥
मणिगर्भशिवागारसंशोभिसुमनोहरे ।
कैलासेशमहालिङ्गतुङ्गधामोपशोभिते ॥ ७॥
पञ्चगङ्गातटोद्भासिलिङ्गपङ्क्ति विराजिते ।
तत्तीरसुमनोहारि रत्नसोपान संयुते ॥ ८॥
अम्बिकाशालयोद्दाम कुम्भदीधितिदीपिते ।
नन्दिकेशादिगणपकृततूर्यरवैर्युते ॥ ९॥
गणेशस्कन्दसदनसानन्दगिरिमस्तके ।
देवीश्वरमहाधामधगद्धगितदिक्तटे ॥ १०॥
महागिरिवरोत्तुङ्ग रत्नसौधविराजिते ।
माणिक्य खचितोदार तारहीरविराजिते ॥ ११॥
इन्द्रनीलमहाकान्तिनीलकालकिताम्बरे ।
नन्दनानन्दनशतसुचन्दनवनावृते ॥ १२॥
तमालसालविपिनमध्यप्रासादशोभिते ।
हरिन्मणिमहारम्भाचलत्पत्रशतावृते ॥ १३॥
रत्नतालीवनोद्दाम घर्घरातुलमारुते ।
महासरोवरोद्भासिफुल्लनीरजशोभिते ॥ १४॥
रत्नकल्हारकुमुदशत्रपत्रविराजिते ।
चम्पकाशोककादम्बबिल्वनागवनावृते ॥ १५॥
भ्रमद्भ्रमरतत्पुष्पगुच्छाच्छादितमस्तके ।
नानापक्षियुतापाररुतानन्दितकन्दरे ॥ १६॥
मृगमातङ्गशरभसारङ्गमहिषावृते ।
चमरी सृमरोद्दण्डकोलकूलैश्च शोभिते ॥ १७॥
मयूरशुकजारावपुंस्कोकिलविनादिते ।
सिह्मर्क्षवृकशार्दूलवनगोखड्गशोभिते ॥ १८॥
गणवक्त्रमहातूर्यदुन्दुभ्याधातनादिते ।
मृदङ्गशङ्खनिनद सुनादितदिगन्तरे ॥ १९॥
वीणावेणुस्वनाकीर्णे महाकैलासपर्वते ।
परिधाकारसंलग्नपादमूलकसागरे ॥ २०॥
सुधासागरजोत्तुङ्गतरङ्गोत्थितशेखरे ।
वातपोतसमानीतैः पुष्परेणुसमन्वितैः ॥ २१॥
तमालवनसंलग्नशीतवातमनोहरे ।
महानीपवनीजन्यतत्सुमोबुद्धमारुते ॥ २२॥
शरत्कौमोदकीफुल्ल कुमुदामोदबन्धुरे ।
फुल्लहल्लकसंल्लासिवातवातायनैर्युते ॥ २३॥
गलत्क्षौद्र महाधारादयार्द्रद्रोणिभूतले ।
केतकीधूलिकापाली पाटलामोदवायुभिः ॥ २४॥
उदग्रकुरवोद्दामपिप्पलीगन्धमेदुरे ।
महागोपुरमध्यस्थमणिसिह्मासने शिवौ ॥ २५॥
चिक्रीडतुस्ततस्तस्मिन्महाकैलासपर्वते ।
कदाचिद्धीरफलकमञ्चमध्यस्थितः शिवः ॥ २६॥
देव्यास्ते सुमनोद्दामभूषणो गिरिसानुषु ।
क्वचित्प्रासाद मध्यस्थो विहरत्यम्बया शिवः ॥ २७॥
कदाचित्सरसीमध्यसौधे मञ्चोत्तरे शिवः ।
क्वचित्सुधाफलोद्दाम वनेषु विहरेद्धरः ॥ २८॥
कदाचिदान्दोलगतौ मुमुदाते शिवौ मुने ।
हीरसारमहासौधे वीणापाण्याम्बया सह ॥ २९॥
तत्तन्त्रीवक्त्रसम्बद्धरागरक्तोऽम्बया युतः ।
तपनोद्दामकिरणसन्तप्ताङ्गोऽभ्बया शिवः ॥ ३०॥
धारासारगृहे तुङ्गे विहरत्येव शङ्करः ।
अच्छादर्शतलाच्छिद्रगृहेषु विहरेदपि ॥ ३१॥
चन्द्रचन्दनसंलिप्तौ शिवौ व्यहरतां वने ।
कदाचिदास्थानगतौ नन्दिभृङ्ग्यादिभिः सह ॥ ३२॥
महाकैलासलिङ्गानि प्रासादस्थो निरीक्ष्य तौ ।
कैलासेशमहालिङ्गे करोत्यर्चनमम्बया ॥ ३३॥
क्वचित्सभासु सन्ध्यायां नृत्यत्यानन्दनिर्भरः ।
षड्वक्त्रं गजवक्त्रं च निरीक्षति मुहुर्मुहुः ॥ ३४॥
चि(सं)क्रीडतोस्तयोरेवं महाकैलासपर्वते ।
कस्तस्य वर्णयेदुक्त्या चित्रा लीला महेशितुः ॥ ३५॥
- -
शम्भुः सुधासागरमध्यगोऽम्बां
समभ्यवर्षत्करयन्त्रसेचनैः ।
सा चालिसङ्घैः स्वकराग्रसंस्थ-
धाराभिराच्छादयदीश्वरार्कम् ॥ ३७॥
सितासितसुपाटलीपटलकुन्दमन्दारज
रजोद्धतमरन्दपभ्रमणशीतमन्दानिले ।
वसन्तसमयोल्लसद्विजदिनान्तसन्न्मल्लिका-
लतागृहनिकुञ्जभूप्रथितमञ्चतल्पे शिवः ॥ ३८॥
मञ्चे सिञ्चति पुष्पसारसलिलैर्देव्यास्त सन्मल्लिका-
सरभ्रममधुव्रतप्रकटमोदधारायुतम् ।
अनल्पकुसुमोच्चयप्रथयमानतल्पेऽम्बिका-
रिरंसयति कोकिलामधुरकाकलीनां रवैः ॥ ३९॥
परिमलमिलदालीफुल्लमल्लीकवल्ली-
चलदनिलकुलायोड्डीनपत्राण्डजैश्च ।
मधुरवरसुजाजीमुल्लि धम्मिल्लभल्ली-
कृतसुमशरवल्लीलीलयामास शम्भुः ॥ ४०॥
मल्लीकुड्मलजं निचोलमचलाधीशाङ्गजाङ्गे हरः
पश्यन् तद्वदनं मुदा पुरहरः सीमन्त सीमान्तकम् ।
नेत्रैः स्वैरनिमेषकैः प्रतिदिनं स्वीचक्र ईशो हरः ॥ ४१॥
तोषोन्मेषमिषेण सा त्रिभुवनाधीशं जुषत्तं हृदा ।
पुष्पाशेषविशेषशोषितगरं भूषाकृताहीश्वरम् ॥ ४२॥
॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्तं कैलासे शङ्करालयवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । सदाशिवाख्यः नवमांशः । अध्यायः ४ मुनिवाक्यम् । वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . sadAshivAkhyaH navamAMshaH . adhyAyaH 4 munivAkyam . vAvRRittashlokAH ..
Notes:
Skanda स्कन्द describes (to Jaigīṣavya जैगीषव्य) about the Splendor of the Abode of Śiva शिव at Kailāsa कैलास.
Proofread by Ruma Dewan