स्कन्दप्रोक्तं रुद्राक्षमुखवर्णनम्
(शिवरहस्यान्तर्गते ईश्वराख्ये)
स्कन्द उवाच -
एकवक्त्रेश्वरः साक्षात् द्विवक्त्रं पार्वतीशिवौ ।
त्रिवक्त्रमनलः साक्षात् चतुर्वक्त्रः पितामहः ॥ २॥
पञ्चवक्त्रो हरिर्विप्र षण्मुखोऽहं सनातनः ।
सप्तैव लोकाः सप्तास्यमष्टास्यं वसुदैवतम् ॥ ३॥
नवास्यं नवदुर्गास्याद्दशास्यं दशनागकाः ।
एकादशास्यं रुद्राधिदैवतं परिकीर्तितम् ॥ ४॥
द्वादशादित्यदैवत्यं द्वादशास्यं प्रकीर्तितम् ।
त्रयोदशमुखं चाक्षं कामदेवसमाह्वयम् ॥ ५॥
चतुर्दशास्यं ते लोकाश्चतुर्दश मुने सदा ।
शताष्टोत्तरसङ्ख्यानां मुखानां देवता मुने ॥ ६॥
॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्तं रुद्राक्षमुखवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः २४ । २-६॥
- .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 24 . 2-6..
Notes:
Skanda स्कन्द; outlines to Muni-s मुनयः, the ruling deities of Ekavaktra एकवक्त्र to Caturdashavaktra चतुर्दशवक्त्र Rudrākśa रुद्राक्ष.
Proofread by Ruma Dewan