स्कन्दप्रोक्तं सदाशिवाख्यश्रवणफलोपदेशम्
(शिवरहस्यान्तर्गते सदाशिवाख्ये)
स्कन्दः उवाच ।
सदाशिवाख्यः शशिशेखरोदितो
देव्यै मुनेऽम्शो नवमोऽयमेव ।
श्रुत्वा सदाशिवमयो भवतीह विप्रः
स्वर्भानुमुक्त इव शीतगुकान्तितुल्यः ॥ ४६॥
भक्तानामथभक्तिभावजनुषां भक्तिप्रभावप्रथां
लोकानां कलिकालनिर्णयविधिः श्रीकालकालार्चनम् ।
अस्मिन्नेव शिवेन पर्वतमहापुत्र्यै सवित्र्यै मम
विस्तारेण सदाशिवाश्रयकथा प्रोक्ता श्रुता मुक्तिदा ॥ ४७॥
श्रोतॄणामिदमेव मङ्गलमहाशैवं रहस्यं मुने ।
अंशद्वादशमण्डितं श्रुतिमहावाक्यार्थसारोत्तरं
पुण्यं वर्ण्यपदैक पूर्णमगजाकान्ताङ्घ्रिभक्तिप्रदं
तूर्णं स्वस्त्ययनाय कर्णसरसामोदायभूयाद्धि ते ॥ ४८॥
॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्तं सदाशिवाख्यश्रवणफलोपदेशं सम्पूर्णम् ।
- ॥ श्रीशिवरहस्यम् । सदाशिवाख्यः नवमांशः । अध्यायः ६५ । ४६-४८॥
- .. shrIshivarahasyam . sadAshivAkhyaH navamAMshaH . adhyAyaH 65 . 46-48..
Notes:
Skanda स्कन्द concludes the narration of the ŚivaRahasyam SadāŚivākhyaḥ Navamāṃśaḥ शिवरहस्यं सदाशिवाख्यः नवमांशः by highlighting the merits of listening to the narration of the same.
Proofread by Ruma Dewan