स्कन्दप्रोक्तं शतरुद्रीयमाहात्म्यम् १
(शिवरहस्यान्तर्गते ईश्वराख्ये)
- जैगीषव्यस्कन्दसंवादे -
(जैगीषव्य) मुनिरुवाच ।
भगवन् सर्वतत्त्वज्ञ स्कन्द शङ्करसम्भव ।
काण्डे चतुर्थे यजुषि प्रश्नेऽस्मिन् पञ्चमे शुभे ॥ १॥
रुद्रमन्त्राः शतं तस्माच्छतरुद्रीयमुच्यते ।
नामानि श्रोतुमिच्छामि तेषां स्कन्द महामते ॥ २॥
सूत उवाच ।
जैगीषव्यवचः श्रुत्वा स्कन्दः सूदिततारकः ।
नमस्कृत्य महादेवं प्रवक्तुमुपचक्रमे ॥ ३॥
स्कन्द उवाच ।
शतरुद्रीयमाहात्म्यं भूयो वक्ष्यामि ते श्रुणु ।
यस्य विज्ञानमात्रेण सिद्धिः करतले स्थिता ॥ ४॥
वेदेषु शतरुद्रीयं देवतासु महेश्वरः ।
क्षेत्रेषु चाविमुक्तं मे मन्त्रःपञ्चाक्षरो वरः ॥ ५॥
नृणां यथा द्विजो मुख्यो द्विजेष्वपि च शाम्भवः ।
पापनाशकरं विप्र यथा भस्मैव पावनम् ॥ ६॥
भूषणेषु यथा मुख्यं रुद्राक्षं पावनं द्विज ।
पुराणेषु यथा स्कान्दं सर्वस्मृतिषु मानवी ॥ ७॥
यथा प्रमाणं मानानां श्रुतिरेव सनातनी ।
इतिहासेषु परमं यथा शिवरहस्यकम् ॥ ८॥
शतमस्मिन् महामन्त्रास्तिष्ठन्ति भुवि दुर्लभाः ।
ऋषिच्छन्दोदेवताभिर्विनियोगैः समन्वितम् ॥ ९॥
जपेत्समग्रं नमकं समग्रं चमकं तथा ।
रुद्रमित्युच्यते सद्भिर्महाघौघविनाशनम् ॥ १०॥
नमकं चमकेनैकेनानुवाकेन सञ्जपेत् ।
एकं(वं) एकादशावृत्त्या रुद्रैकादशिनी स्मृता ॥ ११॥
रुद्रैकादशिनीं जप्त्वा तथैकादशिनीं पुनः ।
श्रीरुद्रमिति विद्वद्भिः कथ्यते भुक्तिमुक्तिदम् ॥ १२॥
श्रीरुद्रैकादशावृत्त्या महारुद्रमुदाहृतम् ।
तथैकादशधा जप्तमतिरुद्रमिति स्मृतम् ॥ १३॥
नामधेयानि वक्ष्यामि मन्त्राणां च पृथक् पृथक् ।
व्योमबीजादिको मन्त्रः प्रथमः परिकीर्तितः ॥ १४॥
वामदेवर्षिसंयुक्तो द्वात्रिंशार्ण उदाहृतः ।
साम्बाख्यदेवतायुक्तोऽनुष्टुप्छन्दोऽष्टसिद्धिदः ॥ १५॥
पवनादि स्तृतीयः स्याद्दैवतछन्दसान्वितः ।
अन्तर्यामीऋषिः साम्बशिवो देवोऽष्टसिद्धिदः ॥ १६॥
चतुर्थी वायुबीजादिरनुष्टुप्छन्दसान्वितः ।
अभीष्टसिद्धिदः प्रोक्तो देवता त्रिपुरान्तकः ॥ १७॥
अमृताद्यादिमो मन्त्रो गायत्रीच्छन्दसावृतः ।
तथैव सप्तचत्वारिंशद्वर्णोऽभीष्टार्थसिद्धिदः ॥ १८॥
चतुर्मुखादिमं चैकचत्वारिंशाक्षरो मनुः ।
त्रिष्टुप्छन्दोयुतः षष्ठो भार्गवर्षिःसुरोत्तमाः ॥ १९॥
रविदैवतको मन्त्रस्त्रिंशत्सप्तदशाक्षरः ।
भार्गवर्षिसमायुक्तो गायत्रीछन्दसावृतः ॥ २०॥
सृष्टिकर्त्रादिमोऽभीष्टसिद्धिदः सम्प्रकीर्तितः ।
मूलादिमो महामन्त्रः कण्वर्षिर्भयनाशकः ॥ २१॥
पङ्क्तिश्छन्दस्समायुक्तो नीलकण्ठः सुरोऽष्टमः ।
अग्निबीजसमायुक्तो वायुबीजादिमो मनुः ॥ २२॥
दधीचि(च) ऋषिसंयुक्तश्छन्दसानुष्टुभान्वितः ।
त्रिपुरान्तकदेवोऽसौ नमच्छत्रुविनाशनः ॥ २३॥
विष्ण्वादिदेवतायुक्तो दशमो गायत्रसंयुतः ।
सहस्राक्षःसुरःशत्रुक्षयकृद्दशमो मनुः ॥ २४॥
अमृतादिमहामन्त्रः पङ्क्तिच्छन्दस्समन्वितः ।
कपर्दिदेवः कण्वर्षिःसदाविजयसिद्धिदः ॥ २५॥
अग्न्यादित्यमहामन्त्रः ऋषिनारदसंयुतः ।
गायत्रीछन्दसायुक्तो विरूपाक्षः सुरस्तथा ॥ २६॥
आयुरारोग्यसंसिद्धिप्रदो द्वात्रिंशदीरितः ।
मकारान्त्या रमाविध्या दधीचिऋषिसंयुता ॥ २७॥
दैवत(?) छन्दसा युक्ता पिनाकिसुरसंयुता ।
त्रयोदशीति कथिता तारणे जयदायिनी ॥ २८॥
मरुदादिमहाविद्या पङ्क्तिच्छन्दस्समन्विता ।
पिनाकिदेवतायुक्ता गौतमर्षिसमन्विता ॥ २९॥
चतुर्दशीति कथिता वैश्यसेव्यप्रदायिनी ।
नमो हिरण्येत्यारभ्य सत्त्वनां पतये नमः ॥ ३०॥
एतत्पदान्ता विद्यस्यात्पार्वतीशः सुरःस्मृतः ।
चतुर्मुखर्षिसंयुक्ता विराट्छन्दस्समन्विता ॥ ३१॥
हृदयादिपदोपेता श्वपतिभ्यश्च वो नमः ।
एतदन्तामहाविद्या षोडशी समुदीरिता ॥ ३२॥
नारदर्षिसमायुक्तस्त्रिष्टुप्छन्दस्समन्वितः ।
अनुवाकश्चतुर्थः स्याद्विद्या सप्तदशी स्मृता ॥ ३३॥
कुमारर्षिसमायुक्ता बार्हतछन्दसा युता
महादेवः सुरः सर्वग्रहदोषनिवारिणी ॥ ३४॥
अष्टादशमहाविद्या अनुवाकस्तु पञ्चमः ।
गणेशर्षिसमायुक्ता त्रिष्टुप् छन्दस्समन्विता ॥ ३५॥
महारुद्रसुताः सर्वे सिद्धिदाऽज्ञाननाशिनी ।
षष्ठोऽनुवाक एकोनविंशोमन्त्रः स ईरितः ॥ ३६॥
वसिष्ठर्षिसमायुक्तस्त्रिष्टुप्छन्दस्समन्वितः ।
परमेश्वरदेवोऽसौ सर्वसम्प्रत्प्रदायकः ।
एकविंशो महामन्त्रोह्यनुवाकस्तथाष्टमः ॥ ३७॥
वामदेवर्षिसहितो जगतीछन्दसा वृतः ।
उमामहेश्वरसुरश्चिन्तितार्थफलप्रदः ॥ ३८॥
एतन्मध्यगता विद्या शैवपञ्चाक्षरी शुभा ।
ब्रह्मविद्या भक्तिदायिनी सर्वसिद्धिदा ॥ ३९॥
वामदेवर्षिसहिता पङ्क्तिछन्दस्समन्विता ।
(नमो वर्ष्यायप्रथमा)
नमो वर्ष्यायमीवत्केभ्य इत्यन्तसंयुता
श्रीरुद्रर्षिसमायुक्ता गायत्रीछन्दसान्विता ॥ ४३॥
सर्वप्रथमसंस्तुत्यसाम्बशङ्करदेवता ।
महासिद्धिप्रदा साक्षाच्छङ्करत्वप्रदायिनी ॥ ४४॥
द्रापे अन्धस इत्येषा मुनिब्रह्मसमन्विता ।
गायत्रीछन्दसा युक्ता स्कन्ददैवतसंयुता ॥ ४५॥
दारिद्र्य परमैश्वर्यदायिनी ।
यातेरुद्रेति विद्या स्यात्सूर्यनारायणात्मिका ॥ ४६॥
गायत्रीछन्दसा युक्ता भार्गवर्षिसमन्विता ।
सर्वरोगक्षयकरी मनश्चिन्तितसिद्धिदा ॥ ४७॥
इमा इति महाविद्या शङ्करर्षिसमन्विता ।
विराट्छन्दोयुता सौख्यसिद्धिदा रुद्रदेवता ॥ ४८॥
मृडानोरुद्रो विद्या स्यात्सङ्कर्षणमुनिस्तुता ।
कालाग्निरुद्रदेवीस्याज्जागतछन्दसान्विता ॥ ४९॥
आधिव्याधिहरी नॄणां दीर्घायुष्यप्रदायिनी ।
मानो महान्तमिति च विद्या सूर्यर्षिसंयुता ॥ ५०॥
साम्बशङ्करदेवेशा ककुप् छन्दः समन्विता ।
पितृमातृसुत भ्रातृ वियोगक्षयकारिणी ॥ ५१॥
मानस्तोके महाविद्या वरुणर्षिसमन्विता ।
रुद्रदैवतसंयुक्ता दैव(?)च्छन्दस्समन्विता ॥ ५२॥
गर्भपातक्षयकरी सुतायुष्यविवर्धिनी ।
आराते गोध्न इत्येषा विद्या ब्रह्मर्षिसंयुता ॥ ५३॥
गायत्रीछन्दसा युक्ता शिवदैवतसंयुता ।
अजागोमहिषीमत्तगजाश्वत्राणकारिणी ॥ ५४॥
स्तुहिश्रुतमितिह्येषा दक्षिणामूर्तिदेवता ।
ऋषिः प्रजापतिस्तूक्ता गायत्रीछन्दसान्विता ॥ ५५॥
अज्ञाननाशिनी सर्वविद्या सिद्धिप्रदायिनी ।
परिण प्रथमा विद्या कण्वकर्षिप्रपूजिता ॥ ५६॥
रुद्रदैवतसंयुक्ता नृचिद्गायत्रसंयुता ।
मीढुष्टमेति विद्या स्याद्विवस्वदृषिसंयुता ॥ ५७॥
साक्षात्कारकरी शम्भोर्गायत्रीछन्दसान्विता ।
विकिरीतिमहाविद्या मुनिब्रह्मप्रपूजिता ॥ ५८॥
गायत्रीछन्दसा युक्ता वीरभद्राधिदेवता ।
सहस्राणि सहस्रेति विद्या भद्रर्षिपूजिता ॥ ५९॥
विराट्छन्दःसमायुक्ता परशङ्करदेवता ।
सहस्राणीति विद्या स्याच्चतुर्वर्गफलप्रदा ॥ ६०॥
वीरभद्रर्षिसंयुक्ता महारुद्राख्यदेवता ।
विराजछन्दसा युक्ता यद्वा सर्वत्र पूजिता ॥ ६१॥
अस्मिन्महत्यादि विद्या नीलग्रीवाधिदेवता ।
पराशरर्षिसहिता गायत्रीछन्दसान्विता ॥ ६२॥
नीलग्रीवा इति प्रोक्ता महाविद्या फलप्रदा ।
कपलर्षिस्तुता वामदेव देवी नृचिद्युता ॥ ६३॥
ये भूतानामधीत्येषा मार्कण्डेयमुनिस्तुता ।
मृत्युञ्जयाख्यदेवीस्याद्गायत्रीछन्दसान्विता ॥ ६४॥
ये पथां पथि विद्यास्यादापद्घ्नी रुद्रदेवता ।
वामदेवर्षिसहिता पङ्क्तिच्छन्दस्समन्विता ॥ ६५॥
(य एतावन्तश्च विद्यास्या)
य एतावन्तश्च इत्याद्या विद्या श्रीरुद्रदेवता ।
ऋषिकण्वसमभ्यर्च्या जगतीच्छन्दसान्विता ॥ ६६॥
नमो रुद्रेभ्य इत्येषा विद्या श्रीरुद्रदेवता ।
सङ्कर्षणमुनिस्तुत्या गायत्रीछन्दसान्विता ॥ ६७॥
सर्वाधिव्याधिशमनी चतुर्वर्गफलप्रदा ।
एता विद्या मयाऽऽख्याताः शतरुद्रीयमध्यगाः ॥ ६८॥
एकादशानुवाकेभ्यो विद्याशतमजायत ।
समग्रं नमकं मालामन्त्ररूपं द्विजोत्तम ॥ ६९॥
शतरुद्रीयमित्युक्तं वेदसारं महोदयम् ।
शान्त्यर्थं शं च मे सूक्तं पठित्वादौ द्विजोत्तमाः ॥ ७०॥
प्रजपेच्छतरुद्रीयं त्रयीसारमनुत्तमम् ।
मयैषां सर्वमन्त्राणां छन्दर्ष्यादिकमीरितम् ॥ ७१॥
उक्तानि(नां) नामधेयानि(नां) माहात्म्यं वक्ष्यतेऽधुना ॥ ७२॥
(ईश्वरप्रोक्तफलम्)
मल्लिङ्गं त्वभिवीक्ष्य रुद्रजनमोवाक्यैः स्तुवन् भक्तितः
शम्भुं शाम्भवसत्तमोत्तमपदं प्राप्नोति रुद्रं जपन् ।
``रुद्रेण'' प्रणमन् प्रदक्षिणविधिं कुर्वन् महापातकै-
र्मुक्तः श्रीशतरुद्रमन्त्रजपकृच्छम्भोरथान्ते गणः ॥ ७३॥
॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्तं शतरुद्रीयमाहात्म्यं १ सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः २७ । १-७३॥
- .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 27 . 1-73..
Notes:
Jaigīṣavya जैगीषव्य expresses to Skanda स्कन्द; his desire of listening to the names of the Śata RudraMantrāḥ शत रुद्रमन्त्राः from the Pañcama praśna पञ्चम प्रश्न of the Caturtha Kāṇḍa of Yajurveda यजुर्वेद that comprise the Śatarudrīyam शतरुद्रीयम्.
Skanda स्कन्द outlines about what comprises the Rudram रुद्रम्, Rudraikādaśinī रुद्रैकादशिनी, MahāRudram महारुद्रम्, AtiRudram अतिरुद्रम्; and describes the Śatarudrīya Māhātmyam शतरुद्रीयमाहात्म्यम् detailing the respective Devatā देवता, Vidyā विद्या, Ṛṣi ऋषि and Canda छन्द of the Śatarudrīya Mantra-s शतरुद्रीय मन्त्राः.
Skanda स्कन्द highlights that the Aṣṭama Anuvāka अष्टं अनुवाक has the ŚaivaPañcākṣarīVidyā शैवपञ्चाक्षरीविद्या.
Proofread by Ruma Dewan