स्कन्दप्रोक्तं शिवदर्शविग्रहवर्णनम्
(शिवरहस्यान्तर्गते ईश्वराख्ये)
महापाण्डरमारुह्य वृषं कैलाससप्रभम् ।
त्र्यक्षः शम्बरशूलोद्यत्करो नीलसुकन्धरः ॥ २॥
गङ्गातुङ्गजटामौलिः शशाङ्ककृतशेखरः ।
दिव्यभस्मत्रिपुण्ड्रोद्यत्भालामलविराजितः ॥ ३॥
फणामणिघृणिप्रोद्यद्धीरहाराहिसङ्कुलः ।
गुरुणा गरजातेन नीलीभूतसुकन्धरः ॥ ४॥
दन्तित्वक्परिवीताङ्गो व्याघ्रचर्माम्बरावृतः ।
वामभागमहादेवीवीक्षितापाङ्गवक्त्रकः ॥ ५॥
नन्दिभृङ्गिमहाकालस्कन्दविघ्नेशसेवितः ।
वृन्दारमकुटीकोटिमणिभी राजिताङ्घ्रिकः ॥ ६॥
गणेन्द्रवदनोद्भूतशङ्खकाहलनिःस्वनैः ।
मृदङ्गढक्काभेरीणामारावोद्घोषिताम्बरः ॥ ७॥
छत्रचामरमायूरव्यजनाक्तकरैर्गणैः ।
पार्श्वतः सेवितः शम्भुराययौ मङ्कणान्तिकम् ॥ ८॥
सुनिर्जरकरोत्सृष्टपुष्पवृष्टिरभूच्च खात् ।
ननृतुस्तालसाम्येन लयेनाप्सरसां गणाः ॥ ९॥
प्रावाद्यन्तोरुवाद्यानि गन्धर्वाः किन्नरास्तथा ।
जगुः शिवापदानानि नारदाद्याः सतुम्बराः ॥ १०॥
विष्णुब्रह्मादिभिर्देवैर्जयेशेति नतः स्तुतः ॥ ११॥
॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्तं शिवदर्शविग्रहवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः १० मङ्कणस्तुतिः । २-११॥
- .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 10 ma~NkaNastutiH . 2-11..
Notes:
Skanda स्कन्द; describes the ŚivaVigraha शिवविग्रह as Śiva शिव and Gaurī गौरी make appearance mounted on Nandi नन्दी, after being eulogized by Maṅkaṇa मङ्कण and the Deva-s देवाः.
Proofread by Ruma Dewan