स्कन्दप्रोक्तं शिवलिङ्गविज्ञानोपदेशम्
(शिवरहस्यान्तर्गते ईश्वराख्ये)
- जैगीषव्यस्कन्दसंवादे -
स्कन्द उवाच ।
अथ ते सम्प्रवक्ष्यामि शिवलिङ्गं समासतः ॥ ५.२॥
यस्य विज्ञानमात्रेण विमुक्तो मानवो भवेत् ।
लयनात्सर्वजगतां लिङ्गमित्युच्यते मुने ॥ ६॥
शिवश्चेतनरूपो हि जडं जगदिति स्थितम् ।
तेन चैतन्यरूपेण जडमेतत्प्रकाशते ॥ ७॥
शिवो नैव जङः साक्षात् स्वप्रकाशैकलक्षणः ।
अतः साक्षी शिवः साक्षात् स्वे धाम्नि समवस्थितः ॥ ८॥
स्वयञ्ज्योतिर्महादेवो ह्यलिङ्गो लिङ्गसङ्गतः ।
तस्य भासा जगद्भाति जगज्जडमिदं मुने ॥ ९॥
अलिङ्गस्यापि देवस्य लिङ्गं श्रुतिशिरोगतम् ।
योगिध्येयमिदं लिङ्गं शम्भोर्निगमचोदितम् ॥ १०॥
आगमोक्तानि लिङ्गानि भौतिकानि मुनीश्वर ।
अयोगी भौतिके लिङ्गे योगी सर्वत्र भावयेत् ॥ ११॥
सर्वावभासको देवो यथा हृदि विराजते ।
तथा सर्वगतः शम्भुः देशदिक्कालवर्जितः ॥ १२॥
लिङ्गे सम्पूजितो विप्रैर्भुक्तिं मुक्तिं प्रयच्छति ।
अलिङ्गोऽपि महादेवः शिवलिङ्गे समर्चितः ॥ १३॥
भस्मत्रिपुण्ड्ररुद्राक्षधारकेणार्चितं यदि ।
लिङ्गं शम्भोर्मुक्तिदायि बिल्वपत्राक्षतार्चितम् ॥ १४॥
भौतिकेष्वपि लिङ्गेषु पूजनीयो महेश्वरः । १५.१
॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्तं शिवलिङ्गविज्ञानोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः ४१ लिङ्गोद्भवः । ५.२-१५.१॥
- .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 41 li~NgodbhavaH . 5.2-15.1..
Notes:
Skanda स्कन्द briefs to Jaigīṣavya जैगीषव्य about the Way of Worshipping Śiva शिव via the Śivaliṅga शिवलिङ्ग.
Proofread by Ruma Dewan