स्कन्दप्रोक्तं शिवपर्वपूजाकथनम्
(शिवरहस्यान्तर्गते महादेवाख्ये)
स्कन्द उवाच ।
ये स्मरन्ति सदाकालमीशानं पूजयन्ति वा ।
रुद्रलोकात्परिभ्रष्टा विज्ञेयास्ते गणेश्वराः ॥ १॥
अग्निहोत्राश्च वेदाश्च यज्ञाश्च बहुदक्षिणाः ।
शिवलिङ्गार्चनस्यैव कोट्यंशेनापि नो समाः ॥ २॥
सदा यजति यज्ञेन सदा दानं प्रयच्छति ।
सदा स वायुभक्षः स्यात् सदा योगं चरेदपि ॥ ३॥
यः शिवं पूजयेन्नित्यं प्रणमेद्वापि भक्तितः ।
तस्य योगं च मोक्षं च शिवः प्रीतः प्रयच्छति ॥ ४॥
यः कुर्यादर्चनं मासमेकाहारो जितेन्द्रियः ।
स यत्फलमवाप्नोति न तत्सर्वैर्महामखैः ॥ ५॥
पौर्णमास्यामावास्यां चतुर्दश्यष्टमीषु च ।
(पूर्णिमायाममायां च चतुर्दश्यष्टमीषु च ।)
स्नापयित्वाम्भसा नित्यं सर्वयज्ञफलं लभेत् ॥ ६॥
कृष्णपक्षे त्रयोदश्यामुपोष्य परमेश्वम् ।
प्रातर्मध्याह्नयोः पूजां चतुर्दश्यां समारभेत् ॥ ७॥
कृष्णाष्टम्यामुपोष्याथ शङ्करं योऽर्चयेत्तु सः ।
प्राप्नोति परमं स्थानं यत्र देवो महेश्वरः ॥ ९॥
दानोपवासनियमैः पूजाजागरभोजनैः ।
महास्नानादिविधिना शिवं पर्वसु पूजयेत् ॥ ११॥
यावच्च सर्वकालेषु यावदर्चयते शिवम् ।
तावत्कालार्चनं पुण्यं तावत्कालार्चनाल्लभेत् ॥ १२॥
स्नात्वा पर्वसु यत्नेन यथाविभवविस्तरैः ।
पूजनीयः शिवो नित्यं महापुण्यजिगीषया ॥ १३॥
नैरन्तर्येण षण्मासान् विधिना पूज्य शङ्करम् ।
पुण्यं तदेव लभते त्रिकालं विषुवार्चनात् ॥ १४॥
एवमेव फलं ज्ञेयं ग्रहणायनयोरपि ।
सङ्क्रान्तौ च दिने छिद्रे षडशीतिमुखेषु च ॥ १५॥
मासैश्चतुर्भिर्यत्पुण्यं विधिना पूज्य शङ्करम् ।
तत्कार्तिक्या भवेत्पुण्यं पौर्ममास्यां शिवार्चनात् ॥ १६॥
पुण्यं तदेतत्फाल्गुन्याममायामेवमेव च ।
चातुर्मास्यार्चनादेतन्महत्पुण्यफलं भवेत् ॥ १७॥
माघमासे समुद्दिश्य त्रिसन्ध्यमर्चयेच्छिवम् ।
लभेत् षाण्मासिकं पुण्यं मासेनैव न संशयः ॥ १८॥
यथा माघे तथास्स्षाढे मासे चैव तु कार्तिके ।
त्रिषु पुण्यं समं ज्ञेयं मासेष्वेतेषु यत्कृतम् ॥ १९॥
चातुर्दश्याममायां च पौर्णमास्यां च पाक्षिकम् ।
पुण्यमष्टगुणं ज्ञेयमष्टम्यामर्चयेच्छिवम् ॥ २०॥
यः प्रदद्याद्गवां लक्षं दोग्ध्रीणां वेदपारगे ।
एकाहं योऽर्चल्लिङ्ग्ङ्गं तस्य पुण्यं ततोऽधिकम् ॥ २१॥
मासे मासे तु योऽश्नीयाद्यावज्जीवं सकृन्नरः ।
यश्चार्चयेत्सकृल्लिङ्गं सममेव न संशयः ॥ २२॥
एतेन क्रमयोगेन पुण्यवृद्धिर्दिने दिने ।
यः पुनः सङ्गमुत्सृज्य इदमब्दं प्रपूजयेत् ॥ २३॥
नैरन्तर्याच्छतगुणं तस्य पुण्यविवृद्धये ।
पञ्चाशद्गुणितं पुण्यमब्दोर्ध्वं योऽर्चयेच्छिवम् ॥ २४॥
ऋतावृतौ तदर्धं स्यान्मासे मासे तदर्धकम् ।
मासार्धमपि यो लिङ्गं नैरन्तर्येण पूजयेत् ॥ २५॥
पुरुषोत्तमः शिवो ज्ञेयो नैरन्तर्यं हि दुष्करम् ।
प्रातरुत्थाय यो लिङ्गं सकृद्भक्त्या प्रपूजयेत् ॥ २६॥
कपिलानां शतं दत्वा यत्पुण्यं तदवाप्नुयात् ।
मध्यं दिनकरे प्राप्ते यो लिङ्गं पूजयेन्नरः ॥ २७॥
सम्पूर्णां पृथिवीं दत्वा यत्पुण्यं तदवाप्नुयात् ।
वारुणीमाश्रिते सूर्ये यः शिवं सम्प्रपूजयेत् ॥ २८॥
गवां शतसहस्रस्य दत्तस्य फलमाप्नुयात् ।
यो लिङ्गमर्धरात्रे तु शुचिर्भूत्वा प्रपूजयेत् ॥ २९॥
अग्निष्टोमसहस्रस्य धर्मस्य लभते फलम् ।
एवं वेलासु सर्वासु अवेलास्वापि शङ्करम् ॥ ३०॥
सम्पूजयेन्नरो भक्त्या सर्वान् कामानवाप्नुयात् ।
शिवलिङ्गं महापुण्यं सर्वदेवनमस्कृतम् ॥ ३१॥
यः स्पृशेदपि पाणिभ्यां न स पापैः प्रलिप्यते ।
न ते भूयः प्रयास्यन्ति योनिमार्गं सुकण्टकम् ॥ ३२॥
क्रमान्मोक्षं गमिष्यन्ति ये नरा लिङ्गमाश्रिताः ।
काञ्चनं मेरुमात्रं च सर्वां दत्वा वसुन्धराम् ॥ ३३॥
सागरान् वस्तुपूर्णांश्च न लिङ्गार्चयितुः समम् ।
मेरुमन्दरतुल्योऽपि राशिः पापस्य कर्मणः ॥ ३४॥
ईश्वरं वैद्यमासाद्य नश्यते दुष्टरोगवत् ।
शिवार्चनरतो नित्यं महापातकसंयुतैः ॥ ३५॥
दोषैः कृतैर्न लिप्येत पद्मपत्रमिवाम्भसा ।
छित्वा छित्वा च भूतानि हत्वा सर्वमिदं जगत् ॥ ३६॥
यजेदेकं विरूपाक्षं न स पापैः प्रलिप्यते ।
सर्वावस्थां गतो वापि युक्तो वा सर्वपातकैः ॥ ३७॥
॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्तं शिवपर्वपूजाकथनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः ४२ स्कन्दप्रोक्तं शिवपर्वपूजाकथनम् । वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 42 skandaproktaM shivaparvapUjAkathanam . vAvRRittashlokAH ..
Notes:
Skanda स्कन्द outlines about the Parva पर्व during which ŚivaPūjā शिवपूजा is especially conducted; viz., Pūrṇimā पूर्णिमा, Amāvasyā अमावस्या, Caturdaśī चतुर्दशी, Aṣṭamī अष्टमी (especially Kṛṣṇāṣṭamī कृष्णाष्टमी), Kṛṣṇa Trayodaśī कृष्ण त्रयोदशी, Krṣṇa Caturdaśī कृष्ण चतुर्दशी. He also mentions about merits of worshiping Śiva शिव during Grahaṇa ग्रहण, Ayana अयन, various Saṅkrānti-s सङ्क्रान्ति including Ṣaḍaśītimukha षडशीतिमुख, Cāturmāsa चातुर्मास; the three months of Māgha माघ, Āṣāḍha आषाढ and Kārtika कार्तिक; during change of Ṛtu ऋतु etc.
Proofread by Ruma Dewan