स्कन्दप्रोक्तं शिवशक्तिक्षेत्रवर्णनम्
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवपार्वतीसंवादे -
स्कन्द उवाच ।
शिवायतनमुख्यानि दिवि भूमौ गिरिष्वपि ।
कैलासस्थो महादेवस्तद्देव्यै दर्शयच्छिवः ॥ २८॥
ईश्वर उवाच ।
गङ्गाद्वारं च केदारं गङ्गासागरसङ्गमम् ।
आकाशलिङ्गं परमं तीर्थं चाप्यचलेश्वरम् ॥ २९॥
पूर्वद्वारं हरिश्चन्द्रं त्रिपुरान्तकरं हरम् ।
प्रभासं च विभासं च प्रकाशं काशकेश्वरम् ॥ ३०॥
अमरेश्वरं च वरदं देवैः पूर्वं प्रतिष्ठितम् ।
गोप्रेक्षेश्वरमीशानं तथा चन्द्रेश्वरं शुभम् ॥ ३१॥
कर्मेश्वरं च विधसं सृष्ट्यर्थं ब्रह्मणा गतम् ।
श्रीमदधिवटं चैव काटकं वारणाह्वयम् ॥ ३२॥
अनेन निर्मितं दिव्यं पुण्यं त्विलिबिलेश्वरम् ।
तत्रैव पादुकामेध्यपुण्ये त्विलिबिलेश्वरे ॥ ३३॥
ततः शृङ्गात्यकाषाटं गोरटप्राणिकेश्वरम् ।
देव्यावर्तेश्वरं पुण्यं तद्देव्या सुप्रतिष्ठितम् ॥ ३४॥
मल्लिकार्जुनसंज्ञं च ममावासनगोत्तमम् ।
राजेश्वरं च पर्यायं भद्रेश्वरमथाव्ययम् ॥ ३५॥
गतीश्वरं च वैशाखं कपोतेश्वरमन्ययम् ।
कोटिरुद्रेश्वरं क्षेत्रं रुद्रकोटिप्रतिष्ठितम् ॥ ३६॥
विष्णुनात्र तपस्तप्तं चतुर्युगमनुत्तमम् ।
विष्ण्वीश्वरं त्रिकूटाख्यं कोटिभद्राख्यमुत्तमम् ॥ ३७॥
सर्वेश्वरं भारभूतमलङ्गृहमथापि वा ।
मध्याङ्गेशकदम्बेशौ स्कन्देनैव प्रतिष्ठितम् ॥ ३८॥
गोमण्डलेश्वरं चैव गन्धर्वैः पूजितं परम् ।
विद्याधरेश्वरं चैव पार्वतीशं त्वयार्चितम् ॥ ३९॥
सुरेश्वरं च त्रिदशैः पूजितं क्षेत्रमुत्तमम् ।
अवर्दिनीश्वरं चैतन्नागैः सम्पूजितं मुदा ॥ ४०॥
यक्षेश्वरं यक्षगणैः किम्पूर्षैः पुरुषेश्वरम् ।
वृषेश्वरं च धर्मेण पूजितं सर्वकामदम् ॥ ४१॥
बृहद्रथेश्वरं देवं राज्ञा तेनार्चितं मुदा
गदाधरेश्वरं देवं गन्धद्वारेश्वरं परम् ॥ ४२॥
वेणुधारीश्वरं चैव पापहारीश्वरं तथा
गणगीतेश्वरं पुण्यं तुङ्गेशं नार्मदेश्वरम् ॥ ४३॥
यमप्रमथनेशं च भगाक्षिहरशङ्करम् ।
कर्पूरेशं मयूरेशं पुण्यं पञ्चनदाभिधम् ॥ ४४॥
कुशावर्तं तृणावर्तं गङ्गावर्तं गयेश्वरम् ।
मन्दरेशं सुन्दरेशं वामभागेश्वरं शिवे ॥ ४५॥
कृत्तिवासेश्वरं पुण्यं गजो यत्र निपातितः ।
नृसिह्महरणं पुण्यं शारभेशं महाद्भुतम् ॥ ४६॥
वामनागप्रमथनं मनमथान्तकरं परम् ।
हैरण्यगर्भं नान्दीशं मायापुर्यां प्रतिष्ठितम् ॥ ४७॥
विरजेशं विशोकेशं भगप्रमथनेश्वरम् ।
अचलेश्वरसंज्ञं च अचलैः परिपूजितम् ॥ ४८॥
चण्डेश्वरं च भेरुण्डगण्डकीतीरसंस्थितम् ।
व्याधेश्वरं बाहुदायास्तीरे क्षेत्रं सनातनम् ॥ ४९॥
भीमाशङ्करसंज्ञं च देवदारुवनेश्वरम् ।
हस्तीशं पात्रिकेशं च भङ्गहारीश्वरं तथा ॥ ५०॥
तुङ्गेश्वरं च तुङ्गायालिङ्गं तुङ्गप्रतिष्ठितम् ।
चर्मण्वत्याः परे पारे क्षेत्रेषु जिष्टकेश्वरः ॥ ५१॥
सरस्वतीशं तन्नद्यास्तीरे क्षेत्रं शिवालयम् ।
यामुनेशं च यमुनामनुतिष्ठति मत्प्रिये ।
गङ्गेश्वरं च गङ्गायाः प्रभवे सुप्रतिष्ठितम् ॥ ५२॥
यमुनागङ्गयोः सन्धौ सन्धीशं पुण्यदायकम् ।
माधवीशमनन्तेशं नीरातीरेप्रतिष्ठितम् ॥ ५३॥
भीमेशं भीमरथ्याश्च तटे कुञ्जहरेश्वरम् ।
वृन्दावने च वृन्देशं मधुरायामतेश्वरम् ॥ ५४॥
विपाशायां विपाशेशं नैमिशे नैमिशेश्वरम् ।
शोणातीरे शोणकेशं नार्मदं नर्मदेश्वरम् ॥ ५५॥
यत्र बाणः समाराध्य भेजे भुजसहस्रकम् ।
ओङ्कारेशं च तत्तीरे अपर्णेशप्रतिष्ठितम् ॥ ५६॥
सरय्वां च सरस्येशं गोमत्यां गोमतीश्वरम् ।
वेण्यां वेणीश्वरं पुण्यं निषधेशं नगस्थितम् ॥ ५७॥
असिक्नीतीरगं देवि गह्वरेश्वरसंस्थितम् ।
द्वारवत्यां द्वारकेशं कृष्णेनार्चितमीश्वरि ॥ ५८॥
अवन्तीशमवन्त्यां तु शतद्रुत्यां शतेश्वरम् ।
परादनेश्वरं कालं कालकञ्जेश्वरं परम् ॥ ५९॥
हरिभद्रेश्वरं पुण्यं गङ्गातीरे प्रतिष्ठितम् ।
असीतीरे महादेवं वरणावरुणेश्वरम् ॥ ६०॥
वायुसम्पूजितं क्षेत्रं वायवीशं सुपुण्यदम् ।
अनङ्गमथनं पुण्यं यत्रानङ्गो निपातितः ॥ ६१॥
कर्दमीतीरगं क्षेत्रं कर्दमेशं सुपुण्यदम् ।
यतीश्वरं प्रभासे च कालकालेश्वरं परम् ॥ ६२॥
मतङ्गेशं मतङ्गायास्तीरे लिङ्ग प्रतिष्ठितम् ।
गोप्रेक्षतीर्थे गोप्रेक्षं त्र्यक्षं मोक्षप्रदायकम् ॥ ६३॥
सारेशं तथा शार्वं भद्रकर्णेश्वरं परम् ।
मलयेशं कुजम्भेशं हननेतीश्वरं तथा ॥ ६४॥
माण्डिकर्णेश्वरं चैव कामदं वैद्यनाथकम् ।
कृष्णेश्वरं च कृष्णायास्तीरे क्षेत्रं मनोहरम् ॥ ६५॥
पम्पेश्वरं च पम्पायास्तीरे देवि शिवालयम् ।
निदानेशं दानवत्यास्तीरे क्षेत्रं सनातनम् ॥ ६६॥
भृतुतुङ्गे तु कुन्देशं पापहारीश्वरं तथा ।
वज्रावतेश्वरं चैव फणिकायास्तटे शुभम् ॥ ६७॥
बलप्रमथनेशं च कालमूलेश्वरं तथा ।
व्योमकेशं हरीशं च तङ्गणेषु प्रतिष्ठितम् ॥ ६८॥
क्षिप्रेश्वरं च क्षिप्रायास्तटे क्षिप्रप्रसादकृत् ।
कालव्यालेश्वरं चैव तक्षकेण प्रतिष्ठितम् ॥ ६९॥
त्रिजटेश्वरसंज्ञं च त्रिजटानिम्नगा यतः ।
मेरुधन्वीश्वरं क्षेत्रं मेरौ वसुधनेश्वरम् ॥ ७०॥
द्रुतीश्वरं धृतावर्ते कोङ्कणे च प्रतिष्ठितम् ।
(भृग्वीश्वरं च रामेण पूजितं क्षत्रियान्तकृत् ॥)
भृग्वीश्वरं च रामेण क्षत्रियान्तकृताऽर्चितम् ॥ ७१॥
कोलापुरे कोलकेशं त्वया देवि प्रतिष्ठितम् ।
अन्धकेनाऽर्चितं लिङ्गमन्धकेश्वरसंज्ञितम् ॥ ७२॥
मुकुटेशं च कङ्कोललोकहारीश्वरं शिवम् ।
यमेश्वरं च साम्बेशमरण्येशं व्रतेश्वरम् ॥ ७३॥
पारणातीरगं क्षेत्रतारणेशाभिधं शिवे ।
कामलेशं दिगीशं च भासेशं प्रकटेश्वरम् ॥ ७४॥
हलाहलेश्वरं पुण्यं यत्र जातो गरादनः ।
विनायकेश्वरश्चैव पर्णादेशान्धकेश्वरः ॥ ७५॥
शतावर्तेश्वरो देवि विना भोगैर्धनेश्वरः ।
अर्धनारीश्वरश्चैव त्वया यत्राहमास्थितः ॥ ७६॥
विडूरथेश्वरश्चैव शिवे दशरथेश्वरः ।
कन्याकुब्जेश्वरश्चैव कान्यकुब्जे प्रतिष्ठितः ॥ ७७॥
अरुन्धतीश्वरश्चैव सिनीवालीश्वरस्तथा ।
अखण्डेशोऽप्यदाभेशो रावणेशः सुरेश्वरः ॥ ७८॥
त्रिकद्रुकेश्वरो देवि धिष्ठितापरतङ्गणे ।
सौराष्ट्रे सोमनाथेशो राष्ट्रावर्धनपूजितः ॥ ७९॥
गोशफेश्वरो देवि गौतमीशो रतीश्वरः ।
यत्र हारेश्वरो देवि आनर्ते च प्रतिष्ठितः ॥ ८०॥
उमेश्वरः सोमचूङः खण्डपर्शुर्हलेश्वरः ।
मुसलेशो गलेशश्च कोसलेषु प्रतिष्ठितः ॥ ८१॥
अवन्येशो हतन्येशोऽवधीशो वैधृतीश्वरः ।
धिष्ठिताः सर्वदेवैश्च पूजितास्तारकोसले ॥ ८२॥
भर्गेशोथ विदर्भेशः कनकेशः प्रभादनः ।
विदर्भेऽधिष्ठता ह्येते क्षेत्रेष्वर्य्यास्त्रिशूलिनः ॥ ८३॥
कणादेशः कहोलेशः प्रतार्येशो महेश्वरः ।
मालवेषु स्थिता ह्येते साल्वेष्वेते प्रतिष्ठिताः ॥ ८४॥
कवाटहारणेशश्च दानवेशो रमेश्वरः ।
वदान्येशः कार्तिकेशो विजङ्घेशो गरेश्वरः ॥ ८५॥
रोगहारीश्वरश्चैव पुण्ड्रेष्वेते प्रतिष्ठिताः ।
काश्यां विश्वेश्वरश्चैव अविमुक्तेश्वरस्तथा ॥ ८६॥
त्रिलोचनेशो वीरेशः कपर्दीशो मणीश्वरः ।
व्यासेश्वरो विरूपाक्षः कर्दमेश्वर एव च ॥ ८७॥
जनार्दनेशो ब्रह्मेशो वीरहर्षेश्वरस्तथा ।
त्वयान्नपूर्णया देवि सेवितो गणपैस्तथा ॥ ८८॥
अविमुक्तो निवत्स्यामि पारयन् जनतारजः ।
सौवीरे बिल्वकेशश्च वृषाद्रीशः शिलेश्वरः ॥ ८९॥
तङ्गणेषु यतीशश्च फणीश्चेति संस्थितः ।
सैन्धवेषु महादेवः वारणेशः कुशेश्वरः ॥ ९०॥
सिह्मलेऽथ पिनाकीशः कारुण्येशः स्थितः शिवे ।
अरट्टकरहट्टेशः खान्ये वैखानसेश्वरः ॥ ९१॥
वैदम्भे बिन्दुकेशश्च प्रसन्नेशः प्रसन्नके ।
कुणिकुम्भे प्रमथेशः सारणे सरणेश्वरः ॥ ९२॥
अङ्गेषु फणिभद्रेशो रोमहारीश्वरस्तथा ।
वङ्गेषु वागुरीशोऽथ वनेशोऽथ नदीश्वरः ॥ ९३॥
कलिङ्गेषु विरूपाक्षो गणगीतेश्वरस्तथा ।
काश्मीरेशस्तुरङ्गेश । । । । । प्रसादनः ॥ ९४ ॥ (words missing in source text)
वर्धनेशो महावीरो गन्धर्वेशः शतेश्वरः ।
पौराणेशो मतीशानः फणिकण्ठेश्वरः शिवः ॥ ९५॥
उदयेशोऽथ । । । । । पारियात्रे महेश्वरः । (words missing in source text)
अस्ताचले तथास्तेशो भगमालीश्वरस्तथा ॥ ९६॥
शिलानद्यास्तटे देवि वैद्युतेशः प्रतिष्ठितः ।
कोटीश्वरो महाकालो मुनेर्देशस्थितः शिवे ॥ ९७॥
मरुदेशे विडेशश्च सुकेशो रजनीश्वरः ।
बिल्वजे मणिचित्रेश पौण्ड्रे पौण्ड्रेश्वरः स्थितः ॥ ९८॥
सार्वके सुन्दरेशानः प्रतर्दननगार्दिनौ ।
उदुम्बरेऽम्बरेशानः कहोले होलकेश्वरः ॥ ९९॥
कोसले कमलेशश्च तस्करेशो धुनीश्वरः ।
कारण्डे ताण्डवेशश्च विसर्गेशश्च संस्थितः ॥ १००॥
गरुडेशः पन्नगेशः कालकेषु प्रतिष्ठितः ।
पारिजातेश्वरश्चैव गन्धभद्रेश्वरस्तथा ॥ १०१॥
उत्तरापथगा देवि प्रमोदेवो भगेश्वरः ।
फुल्लेशः करुणेशश्च चित्रखण्डे व्यवस्थितौ ॥ १०२॥
दारके दारकेशश्च प्रमाथीशोरगेश्वरौ ।
करोडपालकेशश्च तरङ्गेशो व्यवस्थितः ॥ १०३॥
महाराष्ट्र मध्यमेशः सिन्धुरीशो गणेश्वरः ।
मारेश्वरो नमित्रेशो गुर्जरे कुञ्जरेश्वरः ॥ १०४॥
वर्धनीशः स्वर्धुनीशः पारशीकेषु शङ्करः ।
तुरम्भेशः करम्भेशो दलितेशोऽवनीश्वरः ॥ १०५॥
मार्गदेशो रात्रिकेशो वेणुदारीश्वरस्तथा ।
मोसले तु हरीशानः काद्रवेशो धनाधिपः ॥ १०६॥
बलेषु धान्यकेशानः सुपायेशः प्रसन्नकः ।
गोनर्दे नर्दकेशानश्चीने हीनहनेश्वरः ॥ १०७॥
जाङ्गले मङ्गलेशानस्तुण्डिरे काण्डकेश्वरः ।
हूणेषु फलिकेशश्च सद्गुणेषु जटेश्वरः ॥ १०८॥
मीनाशनेषु मौनीश मैत्रे मित्रायणीश्वरः ।
बाल्वलेषु प्रधानेशः कान्देषु प्रकटेश्वरः ॥ १०९॥
तुहुण्डेषु तुहुण्डीशो होडेशः पारदेश्वरः ।
मांसादनेषु दानेशो गण्डेषु पुरुकेश्वरः ॥ ११०॥
लङ्गहेषु फणीन्द्रेषु विस्तार्येषु प्रकाशकृत् ।
मध्वादनेषु मध्वीशो गौडेषु श्रुतकेश्वरः ॥ १११॥
चारुदेष्णेषु सोष्णीशो कुरण्टेषु लतेश्वरः ।
पावनेषु फनश्येशो राघवेशो द्रुमेश्वरः ॥ ११२॥
श्वफल्केषु सपत्नीशो नागचारीषु नागधृक् ।
फणाफणीश्वरः कौले अङ्कोलेषु जिनेश्वरः ॥ ११३॥
मनस्येषु पुरन्ध्रीशः पौष्ठ्रेषु प्रथितेश्वरः ।
मिथिलेषु कनक्येश गोप्रक्ष्येशो निरिन्द्रियः ॥ ११४॥
वात्येषु भौतिकेशश्च कण्ठेषु मणिकण्ठकः ।
ताण्येषु काणवेशश्च करन्धेषु महेश्वरः ॥ ११५॥
तगरेषु महाभद्रो दर्दरेषु कृतीश्वरः ।
वैराटेषु कठोरेश विस्तडेषु कुथेश्वरः ॥ ११६॥
पारियात्रे पात्रिकेश वितस्तीशः कुरुस्थले ।
भारते पुरभद्रेश पुरुहूतेश्वरस्तथा ॥ ११७॥
गाणेषु च गणेशानः कुमारी(श्शः)शः कुमारके ।
शतशृङ्गे महेशानः पर्जन्येशः पिलप्पिले (पिलिपिले) ॥ ११८॥
कालजङ्घे रुद्रकेशः जातूकर्णेश्वरः शिवे ।
वर्धने पारिभद्रेशो विन्ध्ये साध्येश्वरस्तथा ॥ ११९॥
विरोधेशः कोङ्कणेशस्तमालेषु महेश्वरः ।
गर्गरीषु यवीशान उद्दामे चोग्रसेनजित् ॥ १२०॥
काण्डेषु पाण्डलीशानो ब्रध्नेषु ब्रध्नकेश्वरः ।
कुरुम्भेषु सुधन्वीशो गोपनिश्च महेश्वरः ॥ १२१॥
उर्वरीशो वामनेशः शिञ्जने कुञ्जनेश्वरः ।
शातकुम्भेषु कुम्भीशो मथनेशोऽमृतेश्वरः ॥ १२२॥
पन्थावृतेश्वरश्चैव माणिकेशः प्रसोमकः ।
सोमचूडेश्वरः सैह्मे सिह्मकेशश्च शङ्करः ॥ १२३॥
काकेश्वरःस्तारकेशो भाल्लकेषु महेश्वरौ ।
वीणापाणीश्वरो नीले सौम्ये सोमेश्वरो महान् ॥ १२४॥
हेमकूटे च कूटेशः त्रिकूटे कर्कटेश्वरः ।
सह्ये सह्येश्वरो देवि हिमवत्यङ्कुरेश्वरः ॥ १२५॥
केदारश्चैव भौमेशो गर्गरीशोऽथ चन्दने ।
हरिशैले हरीशश्च कर्पटे कर्पटीश्वरः ॥ १२६॥
सत्येश्वरो वैनतेशो गारुडे पर्वतोत्तमे ।
प्रजापतीशो वेदीशस्त्रिधामेशो रतीश्वरः ॥ १२७॥
हारे गर्भेश्वरश्चैव ब्रह्मगर्भेश्वरस्तथा ।
रत्नाद्रौ रत्नगर्भेशो विद्येशो वैद्यपर्वते ॥ १२८॥
कन्दर्पेशश्च सर्पेशो गोवर्धनगिरिस्थितौ ।
प्रतार्येशस्ताम्रकेशस्ताम्रशैलस्थितावुभौ ॥ १२९॥
कु(क)कुभे ककुभेशश्च दिग्वासेशः पवित्रके ।
वृषदर्भेश्वरश्चैव तोयकेशः शिवे गिरौ ॥ १३०॥
हरिकेशशिखण्डीशौ गोपर्वतगतावुभौ ।
प्रभामण्डलकेशश्च विधामेशश्च शङ्करः ॥ १३१॥
करञ्जपर्वतगतास्ताम्रभूमौ पिलःपिलः (पिलिपिलाः)।
उण्डरीशस्तुण्डरीश गह्वरे पर्वते स्थिताः ॥ १३२॥
मार्गपाणीश्वरश्चैव सौधन्वे पर्वते स्थितः ।
स्वर्णवेधरश्चैव शक्तीशो मेरुमैलिगः ॥ १३३॥
देवेश्वरो देवकूटे वृषभेशो वृषाचले ।
ककुद्मतीश्वरश्चैव ककुद्मति स्थितः शिवः ॥ १३४॥
कपालेशः पालगोरश्चित्रघण्टे नगेश्वरः ।
वप्राणश्वरश्चैव दण्डपाणीश्वरस्तथा ॥ १३५॥
भाद्रे गिरौ भद्रकेशो मन्दरे सुन्दरेश्वरः ।
कलशेशकुलालेशौ कैलासे दक्षिणे स्थितौ ॥ १३६॥
मनस्वीशगणेशानौ हरिद्वर्णनगस्थितौ ।
वासन्तिकेशो वेदेशो गतीशो अरुणेश्वरः ॥ १३७॥
स्तेनेश वातभद्रेशः कुमुदे कुमुदेश्वरः ।
वातेशो धनदेशानो वीतिहोत्रेश्वरस्तथा ॥ १३८॥
दुन्दुभे पर्वतवरे दुन्दुभीयो महेश्वरः ।
सङ्गहारीश्वरश्चैव ज्वालागर्भेश्वरस्तथा ॥ १३९॥
वातुलेशः पन्नगेशः कार्कोटः कुक्कुटेश्वरः ।
बकेश्वरः सारसेश शक्रेशो गन्धपर्वते ॥ १४०॥
सुनाभे पर्वतवरे सुनाभेशस्तथेश्वरः ।
कर्मारे पर्वतवरे कर्मारेशः स्थितः शिवः ॥ १४१॥
क्रौञ्च क्रौञ्चेश्वरो देवि हरिते हरिकेशशकः ।
वह्निशैले च वह्नीशो मलये मलयेश्वरः ॥ १४२॥
वैतसे वैतसेशानो वृषभे वृषभेश्वरः ।
कपालमोचकः कान्ते रोहिते रोहितेश्वरः ॥ १४३॥
कन्धरे भूधरेशानः विद्युत्ये वैद्युतेश्वरः ।
वे भाण्डे भाण्डवीशानः करमर्दे सनातनः ॥ १४४॥
तुहिण्डे काण्डकेशश्च चन्द्रेशश्चन्द्रपर्वते ।
विनन्दने सुनन्दीशः कणवाद्रौ कणेश्वरः ॥ १४५॥
एते प्राधान्यतः शैला विगाढा ये महार्णवम् ।
तन्मौलिलिङ्गान्येतानि संदृष्टान्यपराणि मे ॥ १४६॥
नदीनदसमुद्रेषु द्वीपेषु द्वीपकेश्वरः ।
तव पीठान्यनन्तानि पञ्चाशत्तेषु मुख्यतः ॥ १४७॥
तन्नामानि वदाम्यद्य शृणुष्व कमलानने ।
मणिद्वीपे च कैलासे अविमुक्ते च मङ्गला ॥ १४८॥
सनातने सिनीवाली भद्रे भद्रवटेश्वरी ।
कालञ्जरे जरा देवी जवाले जालकेश्वरी ॥ १४९॥
ओङ्कारके महादेवी पर्जन्या गोमतीतटे ।
विपाशा पाशमथनी आर्यावर्ते च मेनका ॥ १५०॥
कलावती कान्तशैले मरुधा मरुधामनि ।
ज्वालामुखी प्रभासे त्वं कान्यकुब्जे च कन्यका ॥ १५१॥
कोकामुखे देविका त्वं सहजन्या घृतादिने (? ) ।
पार्वती रमणे शैले तुङ्गायां तुङ्गका शिवे ॥ १५२॥
पर्णादने वेगवती रुद्रकोटौ महेश्वरी ।
गोढके गोमती देवि वनेशे रमणीमणिः ॥ १५३॥
तालजङ्घे खण्डकेशी दर्दरे त्वमरावती ।
प्रसादिनी प्रसन्नास्ये गारुडे गरुडेश्वरी ॥ १५४॥
अनन्तेऽनन्तशक्तिस्त्वं सिले सिह्मवाहिनी ।
चन्द्रले चन्द्रला देवी वदर्यां कान्तिदायिनी ॥ १५५॥
विरजे वीतशोका त्वं कलिन्दे कालिका शिवा ।
महेशी त्वमरावत्यां नन्दिनी गोनगे स्मृता ॥ १५६॥
तेजोवती करम्भास्ये ककोले लकुलीश्वरी ।
दुर्गा दुर्गाकरक्षेत्रे । । । । । । । । स्मृता ॥ १५७॥
(words missing in source text)
समोदिन्यग्निशैले त्वं कामठे त्वग्निसन्निभा ।
हेलावती कुरुक्षेत्रे सिद्धिदाऽऽयुष्यके शिवे ॥ १५८॥
वैद्यनाथे वेगवती कमले कमलावती ।
काकोदे नागभूषा त्वं वसाने वासिता स्मृता ।
गन्धर्वी गन्धशैले त्वं वरास्या त्वं हराचले ॥ १५९॥
तक्कोले कालशमनी रुद्राणी स्थानपीठके ।
आनर्ते त्वमिला देवी क्षमायान्त्वं क्षमायिनी ॥ १६०॥
नैमिशे निमिषा देवी कुणिभद्रे च कुञ्जिका ।
विन्ध्ये त्वं कौशिकी देवी बन्धने बन्धमोचनी ॥ १६१॥
वटारण्ये सदा देवि सोमाद्रौ सोममस्तका ।
विजया विजयापुर्यां प्रतिष्ठाने च कन्यका ॥ १६२॥
वेगा त्वं वैनते शैले बृहती धातुशैलके ।
तुङ्गाचले तुङ्गकुचा विमनस्का विराजने ॥ १६३॥
हलाहलेऽहलास्या त्वं कन्दर्पे दर्पनाशिनी ।
कुणिकुम्भे महादेवि(वी) भद्रदा कनकाचले ॥ १६४॥
कुरङ्गलोचना रङ्गे शताङ्गे शान्तिदायिनी ।
मेघमाला मेघगिरौ तौवरे बिन्दुरूपिणी ॥ १६५॥
उड्याणे चण्डिका देवी मौसले मुसलेस्वरी
तुलजा तुलजापुर्यां महादेवे च शाम्भवी ॥ १६६॥
भैरवी भैरवे पीठे त्रिकोणे त्वं त्रिकोणगा ।
ललिता ललितापुर्यां श्रीशैले भ्रमराम्बिका ॥ १६७॥
राजेश्वरी राजपीठे कौथुनी कुधुमैश्वरे ।
वामना त्वं वेगिकायां महेन्द्रे चन्द्रपूजिता ॥ १६८॥
गतिदा तारणे प्रोक्ता शरणे शरणाम्बिका ।
कोसले सालमथना हिमशैले च गण्डिका ॥ १६९॥
नग्निका कोटिकायां तु करञ्जे करमर्दिनी ।
गर्भेश्वरे त्वं गर्भेशी कुमारि (?) नन्दिमोदिनी ॥ १७०॥
वायव्ये त्वं भगाक्षी च विशालाक्षी कहोलके ।
दध्यादने भीमका च वनवासी च वन्यका ॥ १७१॥
गोनर्देऽपर्णिका देवि कान्तीपुर्यां च कान्तिका ।
समासीना मेरुमौलौ कदम्बे बिम्बरूपिणी ॥ १७२॥
मन्दरे सुन्दरी त्वं च चित्रशैले त्रिशूलिका ।
क्रौञ्चारण्ये स्कन्दमाता गणमाता गणेश्वरे ॥ १७३॥
लोकिनी लोकमाता त्वं कोलापुर्यां च कोलिनी ।
पद्मगर्भे च पद्मा त्वं विरागा मास्यके शिवे ॥ १७४॥
कूर्मग्रीवा हयशिरे भेरुण्डे भण्डनाशिनी ।
उपाङ्गेऽपाङ्गिका देवि हस्तिशैले च हस्तिका ॥ १७५॥
गोकर्णे शितिकण्ठा त्वं काञ्च्यां त्वं कामकोटिका ।
हालास्ये श्यामला देवी विशाला गन्धमादने ॥ १७६॥
मलयेशे भगवती विनाशे कालिका स्मृता ।
महेन्द्रे चारुचन्द्राङ्का कनके कमलेश्वरी ॥ १७७॥
एतानि दिव्यपीठानि तव सिद्धिप्रदानि च ।
चेरचोलेषु पाण्ड्येषु लिङ्गानि शृणुमेऽम्बिके ॥ १७८॥
सह्यजा ताम्रपर्णी च पम्पावेगवती तटे ।
आम्रासङ्गे मत्स्यवत्यास्तटे परमपावने ॥ १७९॥
सह्यमौलौ सह्यकेशः सिह्मेशे शितिकण्ठकः ।
तृणज्योतीश्वरश्चैव शिवे मरकताचले ॥ १८०॥
रत्नाद्रि शिखरेशानो मातृभूतेश्वरस्तथा ।
कम्पातटे तथा काञ्ची(ञ्च्यां) एकाम्रेशो महेश्वरः ॥ १८१॥
श्रीमद्दक्षिणकैलासे कालहस्तीश्वरस्तथा ।
चेरेषु च श्रीगिरिराट् श्रीशैलेशश्च तत्र हि ॥ १८२॥
शिखरेशः पनस्येशो(?) घण्टाकर्णेश्वरस्तथा ।
तीर्थशश्च महादेवि स्मरणान्मुक्तिदायकः ॥ १८३॥
त्र्यम्बकश्च महाशैलो यस्माद्गोदावरी नदी ।
शेषाचले कुमारेशो ह्यरुणाद्रौ नगेश्वरः ॥ १८४॥
वृद्धाचलेशो गोभद्रे गोपर्वतशिरोगतः ।
शिवमार्गसहायेशः श्रीमदभ्रसभेश्वरः ॥ १८५॥
मूलस्थानेश्वरस्तत्र दर्शनादेव मुक्तिदः ।
चेरेषु प्रथिता ह्येते शिवक्षेत्राण्यपि क्रमात् ॥ १८६॥
चोलेषु दिव्यलिङ्गानामनुक्रम इहोच्यते ।
शिवे पञ्चापगेशाख्यो वटेशोऽथ द्रुतीश्वरः ॥ १८७॥
धृतीश्वरः पुष्पकेशस्तञ्जेशो वेदिकेश्वरः ।
श्रीप्रपाणीश्वरो देवि ऐरावतगजार्चितः ॥ १८८॥
क्षीरिणीशः सुन्दरेशः कुम्भेशश्चार्जुनेश्वरः ।
तेजिनीशः साक्षिनाथो बिल्वारण्येश्वरस्तथा ॥ १८९॥
दुर्गेश्वरो भीमकेश वैद्येशो ब्रह्मकेश्वरः ।
घटेश्वरश्च श्वेतेशश्छायावनमहेश्वरः ॥ १९०॥
श्रीवाञ्छेशस्त्रिकूटी(टे)शो मङ्गलेशोऽग्निकेश्वरः ।
कमलालये वल्मीकेश आनन्देशश्च पार्वतः ॥ १९१॥
हाटकेशश्च सिद्धेशस्तत्र देव्यचलेश्वरः ।
तथा वेदवनेशश्च सेतौ रामेश्वरः शिवः ॥ १९२॥
चोलेषु प्रथितं ह्येतत्तथान्यदपि शङ्करि ।
सर्वलिङ्गालयश्चोलः सह्यजातीर सङ्गतः ॥ १९३॥
तौण्डीरे च शुचीन्द्रेशः पापनाशस्तथाम्बिके ।
अर्जुनेशश्च स्थाण्वीशो हस्तिशैलेश्वरस्तथा ॥ १९४॥
तथा वेगवतीतीरे पाण्ड्यो हालास्यशङ्करः ।
तथा वैशालिवाटीशः शिवे चाम्रातकेश्वरः ॥ १९५॥
शिवे दक्षिणगोवर्णो मत्स्येशो भरतेश्वरः ।
शिवे वातपुरेशश्च तथा रत्नसभेश्वरः ॥ १९६॥
तथात्रित्र (?) सभेशश्च उग्रेशश्चामृतेश्वरः ।
एतत्प्राधान्यतः प्रोक्तं ताम्रपर्ण्यास्तटे शिवे ॥ १९७॥
एतेषु क्षेत्रवर्येषु स्थितो भस्मविभूषणः ।
देहान्ते शिवसायुज्यं भवत्येव महेश्वरि ॥ १९८॥
॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्तं शिवक्षेत्रवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः ४९ सर्वक्षेत्रप्रभावकथनम् । २८-१९८॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 49 sarvakShetraprabhAvakathanam . 28-198..
Notes:
Skanda स्कन्द narrates about Śiva शिव delivering a comprehensive list of several ŚivaŚakti kṣetra शिवशक्तिक्षेत्र. He mentions about the 50 ŚaktiPīṭha ५० शक्तिपीठ.
Details of several Śivakṣetra शिवक्षेत्र are described in various of the 12 Aṁśa- s १२ अंशाः of the ŚivaRahasyam शिवरहस्यम्.
Selected Śloka-s from the chapter are given on this page.
Proofread by Ruma Dewan