स्कन्दप्रोक्तं शिवशरणागत्युपदेशम्

स्कन्दप्रोक्तं शिवशरणागत्युपदेशम्

(शिवरहस्यान्तर्गते सदाशिवाख्ये) स्कन्दः (उवाच) । भक्ताः सर्वे शिवं ध्यात्वा कलावेवं भवन्ति हि । शिवभक्तान् समुद्वीक्ष्य शिवभावानुचिन्तकान् ॥ ३२॥ नीचा अपि शिवे भक्ता भवन्त्येवं हि शैलजे । कर्मणा मनसा वाचा सर्वभावेन शङ्करम् ॥ ३३॥ ये प्रपन्ना महादेवं ते भवन्ति गणेश्वराः । चरणं करुणाम्भोधेर्मम ये शरणं गताः ॥ ३४॥ नैवाप्तजननास्तेऽमी परिच्छेद्याः कथं परैः । लोकानालोकयन्तोऽपि निलयाय लयं मम ॥ ३५॥ निःसीम महिमानस्ते वर्णनीयाः कथं परैः । स्मरन्ति च स्मरारातेः सदा पदसरोरुहम् ॥ ३६॥ मत्स्तुतौ गद्गदतरहर्षबाष्पपरिप्लुताः । नेत्राम्बुनिर्झरासेक पुलकाङ्कुरभूषणाः ॥ ३७॥ नादान्तरूपे हृदयाम्बुजस्थे शिवे परञ्ज्योतिषि चिन्त्यरूपे । विन्यस्य चित्तं विरतान्यकामा कामारिधामैकगता भवन्ति ॥ ३८॥ विन्यस्यतां चित्तमुमासहाये ये भक्तमाहात्म्यमिदं महार्थम् । दधन्ति चित्ते सततं नरो यः परात्परं शैवपदं प्रपद्यते ॥ ३९॥ त्रिषष्टिभक्ताः शिपिविष्टनिष्ठाः कनिष्ठवर्णा अपि ते विशिष्टाः । इष्टः शिवस्याब्जपदैकभक्ति- निष्ठा हि कष्टानपि नाशयन्ति ॥ ४०॥ संसाराब्धौ विषमविषयागाधबाधैकगर्ते जन्मावृत्त्यैव मर्त्या मरणभयमहावात्यया शुष्कपर्णाः । व्यावृत्तेव प्रभवति शिवे मानवा भारतेऽस्मिन् कामक्रोधाभिलोभोन्मदमृदितमहानक्रवक्त्रान्तराले ॥ ४४॥ नवग्रहावग्रहविग्रहार्ति- जन्यं भयं नैव शिवेऽद्रिकन्ये । मामुग्रमीशं शरणं प्रपन्ना नैवेन्द्रियग्रामपरा भवन्ति ॥ ४५॥ ॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्तं शिवशरणागत्युपदेशं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । सदाशिवाख्यः नवमांशः । अध्यायः ६५ । वावृत्तश्लोकाः ॥ - .. shrIshivarahasyam . sadAshivAkhyaH navamAMshaH . adhyAyaH 65 . vAvRRittashlokAH .. Proofread by Ruma Dewan
% Text title            : Skandaproktam Shivasharanagatyupadesham
% File name             : skandaproktaMshivasharaNAgatyupadesham.itx
% itxtitle              : shivasharaNAgatyupadesham (skandaproktaM shivarahasyAntargatam)
% engtitle              : skandaproktaM shivasharaNAgatyupadesham
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | sadAshivAkhyaH navamAMshaH | adhyAyaH 65 | vAvRRittashlokAH ||
% Indexextra            : (Scan)
% Latest update         : July 14, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org