स्कन्दप्रोक्तं शिवविग्रहवर्णनम्
(शिवरहस्यान्तर्गते महादेवाख्ये)
- स्कन्दजैगीषव्यसंवादे -
सुब्रह्मण्य उवाच ।
श्रृणुष्व शाम्भवश्रेष्ठ रहस्यं मुनिसम्मितम् ।
पुरा कैलासशिखरे सुखासीनं महेश्वरम् ॥ २३॥
रत्नसिह्मासने दिव्ये वैद्रुमे मण्टपोत्तमे ।
सायन्तनाभ्रपटलीप्रभाधिकविराजिते ॥ २४॥
शोशुभ्यत्स्तम्भकुम्भाग्रवृषभास जिते मुने ।
धूपदीपादिवितते गणवृन्दविराजिते ॥ २५॥
रम्यपुष्पवनापारगन्धमेदुरदिङ्मुखे ।
वितानप्रच्छदपटपाटितान्तरसुन्दरे ॥ २६॥
चम्पकाशोकपुन्नागसौगन्धिकुसुमास्तृते ।
प्रफुल्लकेतकोद्दाममल्लीपङ्कजगन्धिले ॥ २७॥
नन्दिभृङ्गिमहाकाल चण्डभैरवसेविते ।
मया द्विरदवक्त्रेण पार्श्वतः परिसेविते ॥ २८॥
पप्रच्छ पार्वतीकान्तं नितान्तं शान्तविग्रहम् ।
कृतान्तं हरमाशास्यं वेदान्तार्थैकगोचरम् ॥ २९॥
प्रणम्य प्राञ्जलिर्देवी भर्तुर्वक्त्रमुदैक्षत ।
उत्पलाभकटाक्षेण सरसाननपङ्कजा ॥ ३०॥
सर्वहृत्प्रणवोदार जगच्चक्रप्रवर्तकः ।
इङ्गितज्ञस्तदाप्राह देवीमानन्दनिर्भराम् ॥ ३१॥
सरसेन कटाक्षेण कृपामूर्तिर्महेश्वरः । ३२.१
॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्तं शिवविग्रहवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः १ । २३-३२.१॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 1 . 23-32.1..
Proofread by Ruma Dewan