स्कन्दप्रोक्तं तारकासुरसंहारवर्णनम्
(शिवरहस्यान्तर्गते ईशाख्ये)
स्कन्द उवाच ।
युद्धसन्नद्धमायान्तं देवसेनापतिं गुहम् ।
तारकः स्वबलैर्युक्तः समभ्यागाद्रणाङ्गणम् ॥ ५३॥
सप्तकोटितुरङ्गैश्च रुक्मभाण्डपरिच्छदैः ।
सोद्यतायुधनिस्त्रिंशप्रासहस्तैश्च योधकैः ॥ ५४॥
दन्तिनां च त्रिकोट्या तु सन्नद्धानां सुदन्तिनाम् ।
रथानां च सदश्वानां कोटिभी रथिभिर्ययौ ॥ ५५॥
सप्राससासिकोदण्डखड्गचापशरावृतः ।
विंशत्कोटिसुपादातैः कवचोष्णीषधारिभिः ॥ ५६॥
निषङ्गकार्मुककरैर्भल्लहस्तैर्महारवैः ।
सन्ताडय भेरीपटहान् पणवानकगोमुखान् ॥ ५७॥
सहस्राश्वरथं वेगात् तारुकः स्वयमास्थितः ।
सुपताकं सावरूथं(?)सुसारथिवरैर्युतम् ॥ ५८॥
शूरो गजं समारुह्य अङ्कुशाग्रकरो ययौ ।
पादाङ्गुष्ठेन तत्कर्णौ तुदन् मां वेगवत्तरम् ॥ ५९॥
सिह्मः स्यन्दनमारुह्य जवेन हेममालिनम् ।
खलीनचालनेनैव हयान् सञ्चोदयन् द्रुतम् ॥ ६०॥
सुराणां दैत्यनाथानां युद्धमुन्मत्तमुत्थितम् ।
नदतां धावतां तत्र कूजतां धनुषां तदा ॥ ६१॥
शरणां वर्ष्यमाणानां निघ्नतामितरेतरम् ।
असिभिर्भिण्डिपालैश्च मुसलैर्लाङ्गलैस्तदा ॥ ६२॥
मुञ्चतां शरवर्षाणि खड्गखेटप्रहारणैः ।
शक्रो वित्रासयामास दैत्त्यान् तत्र शरोत्करैः ॥ ६३॥
हेममाली महामाली विद्युन्माली हलाकुली ।
वसुभिः पितृभिस्तत्र युयुधुस्ते रथस्थिताः ॥ ६४॥
मुसण्ठीचक्रनाराचैर्भल्लैःप्रासैः परश्वथैः ।
अन्योन्यमभिजघ्नुस्ते ततक्षुरुभयाञ्छरैः ॥ ६५॥
विश्वेदेवास्तथाऽऽदित्या हेमाङ्गेन सुमन्युना ।
युयुधुः शरधाराभिर्वर्षद्भिरितरेतरम् ॥ ६६॥
कोलाहलमभूद्युद्धं सन्नद्धगजवाजिनाम् ॥ ६७॥
रथानां च पदातीनां वर्षतां निघ्नतां शरैः ।
वायुः सुयोधनं चक्रे शतसाहस्रसायकैः ॥ ६८॥
यमः क्रूरमुखस्तत्र पर्जन्यसमनिःस्वनः ।
निरृतिर्दारुणस्तत्र युयोध समरे मरैः ॥ ६९॥
यक्षाधिपः शोणिताक्षं योधयामास खड्गधृत् ।
यूपाक्षं वरुणस्तत्र युयोधाजौ पतत्रिभिः ॥ ७०॥
अग्निस्तदा पतङ्गेन युयुधे शरपाणिना ।
ईशानो मन्दिरेणैव युयुधे स्वगणैः सुरैः ॥ ७१॥
विष्णुः शूरेण युयुधे चक्री शार्ङ्गच्युतैः शरैः ।
सिह्मास्यं च चतुर्वक्त्रो योधयामास सायकैः ॥ ७२॥
अहं तारकमायान्तं स्वगणैः परिचारितम् ।
कालतोयदवृष्टयेव किरन्तं मद्रथं शरैः ॥ ७३॥
तमच्चिनं तं(अच्छिन्दि)तारं शरकोटिवर्षै-
हर्षेण युद्धोत्कटतर्षितोऽहम् ।
दग्धं रथाङ्गं च पृषत्कसङ्घै-
र्ववर्ष कालाम्बुदवर्षतुल्यम् ॥ ७४॥
सदश्वयुक्तं सुपताककूबरं
ससारथिं तारकमेव जन्ये ।
पर्जन्यवर्षप्रतिमैः सुपुङ्खै-
ववर्ष बाणैरहमात्तरोषः ॥ ७५॥
स तारकोऽप्येवमथोऽसहस्तदा
रथं मदीयं निचकर्त सारथिम् ।
त्रं ध्वजं मे कवचं शरोत्करैः
तमप्यहं मत्करवाललाघवैः ॥ ७६॥
स शूरकर्मापि हरिं रणाजिरे
चकर्त देहे च शरोरुधारया ।
गारुत्मते पक्षयुतेऽसिपक्षकैः
पलाशपुष्पाभसमांसमङ्गकम् ॥ ७७॥
चकार बाणैस्तिलशश्चकर्त
विवृत्तदंष्ट्रो भ्रुकुटीकृताक्षः ।
स चापि विष्णुः स्वकरोरुचक्र-
धाराभिविस्तारितदैत्यमुण्डः ॥ ७८॥
सिह्मरुवक्त्रं च शरोत्तमैर्विधि-
श्चकर्त तस्यापि च दैत्यवर्यः ।
हंसस्य पक्षोरुयुगे सुपक्षै-
र्ललाटजाले मकुटेकरेषु ॥ ७९॥
गजा महामात्रयुताः पतन्ति
विनादयन्तोऽप्यसृगुक्षितास्तदा ।
अश्वाः स्खलन्त्येव पदे पदे हताः
गणा रथानां च सुसारथी(?)युताः ॥ ८०॥
तत्र त्रिशूलनिहता गणदैत्यवर्याः
कूजन्ति धावन्ति अधः पतन्ति ।
नदन्ति गर्जन्त्यसुराः सुरास्तदा
तिष्ठन्ति विष्टम्भितहस्तगात्राः ॥ ८१॥
यज्ञोपवीताकृति चिच्छिदुःसुरान्
दैत्यांश्च तत्रैव गणास्तदानीम् ।
शरोरुवर्षैः प्रसमीक्ष्य हर्षितान्
पानीयतर्षान् प्रविमुक्तमूर्धजान् ॥ ८२॥
सप्रासहस्ता ननृतुः कबन्धा
विच्छिन्नसन्धा असुराः सुरव्रजाः ।
योक्त्रोरुवक्त्रैश्च विवृत्तजिह्वै-
र्निमीलिताक्षैरसृगुक्षिताश्वैः ॥ ८३॥
शुण्डोरुदण्डैरथ दन्तखण्डै
भूर्भाति दैत्यासुर सङ्गरेस्तृता ।
दैत्या वारणाकुम्भेषु सुषुपुर्युद्धमूर्च्छिताः
रात्रावतिपरिश्रान्ताः कामिनीनां कुचेष्विव ॥ ८४॥
नदन्ति भेर्यः पटहोध्वशङ्ख-
मृदङ्गयुक्ताहतिगिक्कतालाः ।
नृत्यन्ति तत्रैव वराप्सरोपमाः
कबन्धवर्याः रणरङ्गसङ्गाः ॥ ८५॥
तत्र स्रुता चाप्यसृगायमान-
दूकूलमूलासुरमांसपङ्किला ।
सुकच्छपच्छत्र सुचामरोरु-
मीना सुमस्तिष्कवरोरुफेना ॥ ८६॥
रथेभवाहासुरभीरुदेह-
द्वीपासुराणां गणमुण्डपद्मा ।
असृग्वहा सा तटिनी बभौ तदा
गङ्गा यथा शङ्करजूटनिः सृता ॥ ८७॥
स तारको मच्छरघातपीडितः
पपात भूमौ विरथो हताश्वः ।
तदा मया पाशुपतास्त्रधर्षितो-
ऽवर्षंश्च देवाः कुसुमोत्करं मयि ॥ ८८॥
स शूरमाजौ च हरिर्विजित्य
निहत्य दैत्यान् परिदध्मुरम्बुजान् ।
सुराः प्रहर्षातिशयादनृत्यन्
तदा मुदाऽऽसं स्तवनैर्वचोभिः ॥ ८९॥
विधिस्तदा सिह्ममुखं निहत्य
विहृत्य चाजौ शरजालवर्षणैः ।
रणावनौ मां परिषस्वजे मुदा
कुमारसेनापतिरद्य नस्त्वम् ॥ ९०॥
अवोचदित्थं स हरिः सशक्रः
कल्पद्रुपुष्पं ववृषः सुराश्च ।
मुदा जयस्वे(?)ति वचस्तदोचुः
शान्तास्तदाऽऽसन् मुदिताश्चलोकाः ॥ ९१॥
॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्तं तारकासुरसंहारवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । अध्यायः २२ तारकासुरसंहारः । ५३-९१ ॥
- .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . adhyAyaH 22 tArakAsurasaMhAraH . 53-91 ..
Notes:
Skanda स्कन्द narrates the incidence of the battle against Tārakāsura तारकासुर that results in his annihilation, thus liberating the Deva-s देवाः from the perpetual atrocities he was committing against them.
Proofread by Ruma Dewan