स्कन्दप्रोक्तं वीरभद्रोत्पत्तिकथनम्
(शिवरहस्यान्तर्गते ईशाख्ये)
स्कन्द उवाच ।
दक्षापमाननं चापि हृदापश्यन्महेश्वरः ।
महामन्युर्मन्युनैव ववृधेऽत्यन्तदुःखतः ॥ २॥
दक्षमन्युं तदा देवैर्हन्तुं चक्रे मतिंहरः ।
जटाजूटात्समुत्पाद्य जटामेकां महेश्वरः ॥ ३॥
भूमौ सन्ताड्यामास स क्रोधान्धीकृतेक्षणः ।
तस्मात्तत्र जटापाताद्बभूवातीव मन्युमान् ॥ ४॥
वीरभद्रो ज्वलत्क्रोधो दृष्ट्राक्रूरास्ययुक् तदा ।
महागिरिप्रतीकाशवर्ष्मणा समदृश्यत ॥ ५॥
वृत्तदंष्ट्राकरालास्यो जिह्वया सृक्विणी लिहन् ।
तं श्मश्रुजटिलं वक्त्रं शूलहस्तं स भैरवम् ॥ ६॥
करिवृत्तोरुशुण्डाभबाहुदण्डविराजितम् ।
मकुटेनार्कवर्णेन भास्वत्कुण्डलमण्डितम् ॥ ७॥
हारकेयूरवलयैर्भूषितं किङ्किणीगणैः ।
कचाकचितमध्यस्थखड्गखेटधरं तदा ॥ ८॥
सदम्बुजच्छटारक्तव्यावृत्तनयनो मुहुः ।
त्रिपुण्ड्रविलसद्भालः करालकरवालधृक् ॥ ९॥
सम्प्रणम्य महादेवमुवाच नतकन्धरः ।
भैरवो दारुणाकारो मृगेन्द्रसमविक्रमः ॥ १०॥
अञ्जनाद्रिप्रतीकाशो भाविभासितदिङ्मुखः ।
घनगम्भीरनिर्घोषसमारवभरस्तदा ॥ ११॥
॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्तं वीरभद्रोत्पत्तिकथनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । अध्यायः ६ वीरभद्रविष्णुयुद्धम् । २-११ ॥
- .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . adhyAyaH 6 vIrabhadraviShNuyuddham . 2-11 ..
Notes:
Skanda स्कन्द narrates (to Jaigīṣavya जैगीषव्य); about manifestation of the formidable Vīrabhadra वीरभद्र (a.k.a Bhairava भैरव due to His frightening appearance) from the dreadlocks of Śiva शिव, as He is driven into rage and distress upon hearing about Sati’s Dehatyāga सतीदेहत्यागः in the fire of DakṣaYajña दक्षयज्ञ.
Proofread by Ruma Dewan