ईश्वरप्रोक्तं सोमनाथमहिमवर्णनम्
दक्षशापवशात्सोम क्षयेणार्तिं परां गतः ।
पुनराप्यायितश्चासि मया त्वं सुरसत्तम ॥ १॥
देवानामन्नभूतस्त्वममृतांशुः पुरा किल ।
तच्छापं मानयस्वाद्य मासार्धं क्षीणमण्डलः ॥ २॥
देवानामुपभोग्योऽसि देवाश्चाप्याययन्त्यपि ।
पुनस्त्वामोषधीशान पक्षार्धं मद्वरात् सुर ॥ ३॥
सम्पूर्णकलया नित्यं वर्धमानो दिने दिने ।
भविता चारुरूपेण मम मौलिकृतास्पदः ॥ ४॥
अष्टमीसामिसोमाङ्को भविताऽहं सदा शशिन् ।
चन्द्रचूड इति ख्यातः संस्तुतः सुरसत्तमैः ॥ ५॥
त्वया सम्पूजितं लिङ्गं सोमनाथाह्वयं शुभम् ।
ये पश्यन्ति नरा भक्त्या ते सदा गणपा मम ॥ ६॥
सोमनाथं सकृद्दृष्ट्वा मुच्यते भवबन्धनात् ।
पयोष्ण्यां ये सकृत्स्नात्वा दृष्ट्वा सोमेश्वरं नराः ॥ ७॥
सन्तर्प्य च पितॄन् भक्त्या वसन्ति शिवमन्दिरे ।
पौष्यां माघ्यामथाष्टम्यां यो बिल्वैः सोमनाथकम् ॥ ८॥
समर्चयेत्स मुक्तो हि नात्र कार्या विचारणा ।
इति दत्वा वरं तस्मैं तदा शम्भुस्तिरोदधे ॥ ९॥
तस्मिन्लिङ्गे तदाविष्टः शिपिविष्टोऽम्बिकासखः ।
तस्मात्त्वमपि भक्त्याद्य सोमेशं पूज्य भक्तितः ॥ १०॥
लभस्व चेप्सितानर्थान्कामारिकृपया -नृप ॥ ११॥
॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे ईश्वरप्रोक्तं सोमनाथमहिमवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः १६। ४६-५६॥
- .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 16. 46-56..
Notes:
Shiva speaks to King Brhadbala about the merits of worshipping Somanatha Jyotirlinga।
The shlokas have been renumbered for readers' convenience.
The parts where Ishvara addresses the king, are enclosed in -hyphens-
Proofread by Ruma Dewan