नन्दिकेशप्रोक्ता सोमनाथशिवस्तुतिः
(शिवगौरीसंवादे)
नन्दिः -
कुण्डलीशकृतकुण्डल शम्भो खण्डिताखिलसुरद्रुमषण्ड ।
ब्रह्ममुण्डकलितामलमाल स्थूललिङ्गगणमण्डलसंस्थ ॥ १॥
नवचन्द्राभरणोत्तमाङ्ग गङ्गाकलितालकभूधरोरुमाल ।
धृतहालाहलकण्ठमूल बाहुस्फुरदुत्तप्तशिलाविधूतशूल ॥ २॥
अलिङ्गलिङ्गं शशिलिङ्गसंस्थापक शलिङ्गं जगदेकलिङ्गम् ।
हृत्कोशजाकाशविकासिलिङ्गं सुखैकलिङ्गं प्रणमामि लिङ्गम् ॥ ३॥
फलम् -
इत्थं संस्तुत्य नन्दीशः कैलासं गणपैर्ययौ ।
गणेन्द्रास्तुष्टुवः शम्भुं सोमनाथं मुदा तदा ॥ ४॥
वयं सोमवारव्रते तेऽद्य निष्ठा वसिष्ठाद्विशिष्टास्ततस्त्वत्पदाब्जे । (यतः)
महाभस्म रुद्राक्षमालां तनूषु त्वदीयाङ्गचिह्नैर्निवेश्योरुपापैः ॥ ५॥
विमुक्ताश्चरामो विभीमोऽद्य शम्भो ॥ ६॥
॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे नन्दिकेशप्रोक्ता सोमनाथशिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः १६। ५९-६४॥
- .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 16. 59-64..
Notes:
Nandi tells King Brhadbala about how to eulogize Somanatha Shiva, and mentions about Somavara vrata.
The shlokas have been renumbered for readers' convenience.
Proofread by Ruma Dewan