श्रीसोमेश्वरपञ्चकस्तोत्रम्
(शार्दूलविक्रीडितम्)
विश्वं यत्र भवेद्विलीनमखिलं तल्लिङ्गमस्मिन् सदा
सत्यं ज्ञानमनन्तमद्वयमहो ब्रह्म स्फुटं दृश्यते ।
पञ्चब्रह्मसुलक्षणानि हि मुखैर्यः पञ्चभिर्दर्शयन्
आस्ते सोमपुरे सुधर्मवृषभारूढस्तमीशं भजे ॥ १॥
नित्यं यत्परिपूर्णलक्षणमिदं ह्यागन्तुकं न स्वकं
मत्वैवं द्विमुखं न दर्शयति नो मन्ये स्फुटं शङ्करम् ।
सत्यज्ञानसुखं मुखत्रयमिदं भक्तेषु सन्दर्शयन्
आस्ते सोमपुरे सुधर्मवृषभारूढस्तमीशं भजे ॥ २॥
आश्चर्यं सुमनोहरं विलसितं लिङ्गे सुमूर्तिस्तु या
केनेयं घटिता नरेण न भवेदीशो हि तत्कारणम् ।
लिङ्गेऽहं सततं वसामि सकलानेतद्धि सम्बोधयन्
आस्ते सोमपुरे सुधर्मवृषभारूढस्तमीशं भजे ॥ ३॥
भक्तानुग्रहहेतुनैव खलु योऽरूपः सरूपोऽभवत्
भक्तोद्धार इतीह यस्य सततं जागर्ति कीर्तिर्भुवि ।
भक्तिप्रीतिमनिन्दितां हृदिगतां स्पष्टं प्रकुर्वंश्च यः
आस्ते सोमपुरे सुधर्मवृषभारूढस्तमीशं भजे ॥ ४॥
प्रत्यग्रूपतया चकास्ति सततं मद्रूपमेतत्परं
मत्वा पश्चिमदिङ्मुखोऽत्र हि शिवो मन्ये स्वयं केवलः ।
योगारूढवपुः स्वरूपममलं चिन्मुद्रया चादिशन्
आस्ते सोमपुरे सुधर्मवृषभारूढस्तमीशं भजे ॥ ५॥
इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान्
श्रीधरस्वामीमहाराजविरचितं श्रीसोमेश्वरस्तोत्रं सम्पूर्णम् ।
रचनास्थानं - सोमपुर, भद्रावति निकटं, संवत्सरः - १९३८
Proofread by Manish Gavkar