सुदर्शनकृता शिवस्तुतिः
(शिवरहस्यान्तर्गते षष्ठांशे / ऋभुगीतान्तर्गते)
आशीविषाङ्गपरिमण्डलकण्ठभागराजत्सुसागरभवोग्रविषोरुशोभ ।
भालस्फुरज्ज्वलनदीप्तिविदीपिताशाशोकावकाश तपनाक्ष मृगाङ्कमौले ॥ ५०.३३॥
क्रुद्धोडुजायापतिधृतार्धशरीरशोभ पाह्याशु शासितमखान्धकदक्षशत्रो ।
सुत्रामवज्रकरदण्डविखण्डितोरुपक्षाद्यघक्षितिधरोर्ध्वशयाव शम्भो ॥ ५०.३४॥
उत्फुल्लहल्लकलसत्करवीरमालाभ्राजत्सुकन्धरशरीर पिनाकपाणे ।
चञ्चत्सुचन्द्रकलिकोत्तमचारुमौलिं लिङ्गे कुलुञ्चपतिमम्बिकया समेतम् ॥ ५०.३५॥
छायाधवानुजलसच्छदनैः परिपूज्य भक्त्या मुक्तेन स्वस्य च विराजितवंशकोट्या ।
सायं सङ्गवपुङ्गवोरुवहनं श्रीतुङ्गलिङ्गार्चकः
शाङ्गः पातकसङ्गभङ्गचतुरश्चासङ्गनित्यान्तरः ॥ ५०.३६॥
भालाक्षस्फुरदक्षिजस्फुरदुरुस्फूलिङ्गदग्धाङ्गका-
नङ्गोत्तुङ्गमतङ्गकृत्तिवसनं लिङ्गं भजे शाङ्करम् ।
अच्छाच्छागवहां सुरतामीक्षाशिनान्ते विभो-
वृष्यं शाङ्करवाहनामनिरताः सोमं तथा वाजिनम् ॥ ५०.३७॥
त्यक्त्वा जन्मविनाशनं त्विति मुहुस्ते जिह्वया सत्तमाः
ये शम्भोः सकृदेव नामनिरताः शाङ्गाः स्वतः पावनाः ॥ ५०.३८॥
मृगाङ्क मौलिमीश्वरं मृगेन्द्रशत्रुजत्वचं
वसानमिन्दुसप्रभं मृगाद्यबालसत्करम् ।
भजे मृगेन्द्रसप्रभं .... ॥ ५०.३९॥
(words missing in source text)
॥ इति शिवरहस्यान्तर्गते सुदर्शनकृता शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ५०। ३३-३९॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 50. 33-39..
Notes :
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from the text are presented here.
Proofread by Ruma Dewan