सुदर्शनम्प्रति विष्णुप्रोक्तं शिवार्चनमहिमवर्णनम्
(शिवरहस्यान्तर्गते षष्ठांशे / ऋभुगीतान्तर्गते)
वने वा राज्ये वाप्यगपतिसुतानायकमहो
स्फुरल्लिङ्गार्चायां नियममतभावेन मनसा ।
हरं भक्त्या साध्य त्रिभुवनतृणाडम्बरवर-
प्ररूढैर्भाग्यैर्वा न हि खलु स सज्जेत भुवने ॥ ५०.४५॥
न दानैर्योगैर्वा विधिविहितवर्णाश्रमभरै-
रपारैर्वेदान्तप्रतिवचनवाक्यानुसरणैः ।
न मन्येऽहं स्वान्ते भवभजनभावेन मनसा
मुहुर्लिङ्गं शाङ्गं भजति परमानन्दकुहरः ॥ ५०.४६॥
शर्वं परवतनन्दिनीपतिमहानन्दाम्बुधेः पारगा
रागत्यागहृदा विरागपरमा भस्माङ्गरागादराः ।
मारापारशराभिघातरहिता धीरोरुधारारसैः
पारावारमहाघसंसृतिभरं तीर्णाः शिवाभ्यर्चनात् ॥ ५०.४७॥
मार्कण्डेयसुतं पुराऽन्तकभयाद्योऽरक्षदीशो
हरस्तत्पादाम्बुजरागरञ्जितमना नाप्नोति किं वा फलम् ।
तं मृत्युञ्जयमञ्जसा प्रणमतामोजोजिमध्ये जयं
जेतारोतपराजयो (जेतावेत्यपराजितो) जनिजरारोगैर्विमुक्तिं लभेत् ॥ ५०.४८॥
भूतायां भूतनाथं त्वघमतितिलकाकारभिल्लोत्थशल्यैः
धावन्भल्लूकपृष्ठे निशि किल सुमहद्व्याघ्रभीत्याऽरुरोह ।
बिल्वं नल्वप्रभं तच्छदघनमसकृत्पातयामास मूले
निद्रातन्द्रोज्झितोऽसौ मृगगणकलने मूललिङ्गेऽथ शाङ्गे ॥ ५०.४९॥
तेनाभूद्भगवान् गणोत्तमवरो मुक्ताघसङ्घस्तदा
चण्डांशोस्तनयेन पूजितपदः सारूप्यमापेशितुः ।
गङ्गाचन्द्रकलाकपर्दविलसत्भालस्फुलिङ्गोज्ज्वल-
द्वालन्यङ्कुकराग्रसङ्गतमहाशूलाहि टङ्कोद्यतः (कण्ठोद्यतः) ॥ ५०.५०॥
चैत्रे चित्रैः पातकैर्विप्रमुक्तो वैशाखे वै दुःखशाखाविमुक्तः ।
ज्येष्ठे श्रेष्ठो भवतेषाढमासि पुत्रप्राप्तिः श्रावणे श्रान्तिनाशः ॥ ५०.५१॥
भाद्रे भद्रो भवते चाश्विने वै अश्वप्राप्तिः कार्तिके कीर्तिलाभः ।
मार्गे मुक्तेर्मार्गमेतल्लभेत पुष्ये पुण्यं माघके चाघनाशः ॥ ५०.५२॥
फल्गु त्वंहो फाल्गुने मासि नश्येदीशार्चातो बिल्वपत्रैश्चलिङ्गे ।
एवं तत्तन्मासि पूज्येशलिङ्गं चित्रैः पापैर्विप्रमुक्तो द्विजेन्द्रः ॥ ५०.५३॥
दूर्वाङ्कुरैरभिनवैः शशिधामचूडलिङ्गार्चनेन परिशेषयदङ्कुराणि ।
संसारघोरतररूपकराणि सद्यो मुक्त्यङ्कुराणि परिवर्धयतीह धन्यः ॥ ५०.५४॥
गोक्षीरेक्षुक्षौद्रखण्डाज्यदध्ना सन्नारेलैः पानसाम्रादिसारैः ।
विश्वेशानं सत्सितारत्नतोयैर्गन्धोदैर्वा सिञ्च्य दोषैर्विमुक्तः ॥ ५०.५५॥
लिङ्गं चन्दनलेपसङ्गतमुमाकान्तस्य पश्यन्ति ये
ते संसारभुजङ्गभङ्गपतनानङ्गाङ्गसङ्गोज्झिताः ।
व्यङ्गं सर्वसमर्चनं भगवतः साङ्गं भवेच्छाङ्करं
शङ्गापाङ्गकृपाकटाक्षलहरी तस्मिंश्चिरं तिष्ठति ॥ ५०.५६॥
मुरलिसरलिरागैर्मर्दलैस्तालशङ्खैः पटुपटहनिनादध्वान्तसन्धानघोषैः ।
दुन्दुभ्याघातवादैर्वरयुवतिमहानृत्तसंरम्भरङ्गैः
दर्शेष्वादर्शदर्शो भगवति गिरिजानायके मुक्तिहेतुः ॥ ५०.५७॥
स्वच्छच्छत्रछवीनां विविधजितमहाच्छायया छन्नमैशं
शीर्षं विच्छिन्नपापो भवति भवहरः पूजकः शम्भुभक्त्या ।
चञ्चच्चन्द्राभकाण्डप्रविलसदमलस्वर्णरत्नाग्रभाभि-
र्दीप्यच्चामरकोटिभिः स्फुटपटघटितैश्चाकचक्यैः पताकैः ॥ ५०.५८॥
सम्पश्यारुणभूरुहोत्तमशिखासंलेढितारागणं
तारानाथकलाधरोरुसुमहालिङ्गौघसंसेवितम् ।
बिल्वानां कुलमेतदत्र सुमहापापौघसंहारकृद्वाराणां
निखिलप्रमोदजनकं शम्भोः प्रियं केवलम् ॥ ५०.५९॥
अन्नं पोत्रिमलायते धनरसं कौलेयमूत्रायते
संवेशो निगलायते मम सदानन्दो कन्दायते ।
शम्भो ते स्मरणान्तरायभरित प्राणः कृपाणायते ॥ ५०.६०॥
कः कल्पद्रुमुपेक्ष्य चित्तफलदं तूलादिदानक्षयं
बब्बूलं परिसेवते क्षुदधिको वातूलदानक्षमम् ।
तद्वच्छङ्करकिङ्करो विधिहरिब्रह्मेन्द्रचन्द्रानला-
न्सेवेद्यो विधिवञ्चितः कलिबलप्राचुर्यतो मूढधीः ॥ ५०.६१॥
सुवर्णाण्डोद्भूतस्तुतिगतिसमर्च्याण्डजवर-
प्रणदं (प्रपादं) त्वां कश्चिद्भजति भुवने भक्तिपरमः ।
महाचण्डोद्दण्डप्रकटितभुवं ताण्डवपरं विभुं
सन्तं नित्यं भज भगणनाथामलजटम् ॥ ५०.६२॥
अजगवकर विष्णुबाण शम्भो दुरितहरान्तकनाश पाहि मामनाथम् ।
भवदभयपदाब्जवर्यमेत मम चित्तसरस्तटान्नयातु चाद्य ॥ ५०.६३॥
॥ इति शिवरहस्यान्तर्गते सुदर्शनकृता शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ५०। ४५-६३॥
- .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 50. 45-63..
Notes :
There is numbering error in the source text from shloka 43 onwards.
Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita.
Selected verses from the text are presented here.
Proofread by Ruma Dewan