श्री सुधाघटेशाष्टकम्
नमो नमस्ते जगदीश्वराय
कारुण्यरूपाय कृपाकराय ।
अपारसंसारनिवारकाय
सुधाघटेशाय नमश्शिवाय ॥ १॥
गजेन्द्रचर्माम्बरधारिणे च
गङ्गाधरायाऽमितविक्रमाय ।
गभस्तिमालीन्दुकृशानुचक्षुषे
सुधाघटेशाय नमश्शिवाय ॥ २॥
अशेषतापार्तिहराय शूलिने
वरेण्यरूपाय वरप्रदाय ।
गुणत्रयैर्वर्जितविग्रहाय
सुधाघटेशाय नमश्शिवाय ॥ ३॥
दिग्देशकालादिविवर्जिताय
दिगम्बरायाऽम्बिकयायुताय ।
दीनानुकम्पाकरविग्रहाय
सुधाघटेशाय नमश्शिवाय ॥ ४॥
वेदान्तवेद्याय विरूपचक्षुषे
व्योमाम्बरायाऽप्रतिमानवर्ष्मणे ।
कालस्य कालाय कपालपाणये
सुधाघटेशाय नमश्शिवाय ॥ ५॥
भक्तार्तिहन्त्रे च भयापहाय
भवाब्धिपोताय भवाय शम्भवे ।
कल्याणरूपाय कलाधराय
सुधाघटेशाय नमश्शिवाय ॥ ६॥
एणाङ्कचूडाय जटाकलापिने
एणाजिनाच्छादनसुन्दराय ।
भक्तापराधान् क्षमते दिने दिने
सुधाघटेशाय नमश्शिवाय ॥ ७॥
पीयूषलिङ्गाय वृषाधिपाय
वीराट्टहासाय सुरेश्वराय ।
अभिरामिनाथाय मृत्युञ्जयाय
सुधाघटेशाय नमश्शिवाय ॥ ८॥
इति श्री सुधाघटेशाष्टकं सम्पूर्णम् ।
sudhAghaTeshaH is amRRitaghaTeshvaraH an aspect of
Lord Siva, presiding deity at Tirukkadayur, Tamilnadu