सुन्दराय शिवस्थाननिदेशः
(शिवरहस्यान्तर्गते सदाशिवाख्ये)
सुन्दरः उवाच ।
देव देव महादेव शरणागत वत्सल ॥ २५॥
यत्र यत्र भजे जन्म तस्मिन्भक्तिः पदे तव ।
भवताद्भवपादाब्जे भवोद्भव सदावयोः ॥ २६॥
कस्मिन् क्षेत्रे महादेव तव सान्निध्यमुत्तमम् ।
पुण्ये सह्यापगातीरे शिवक्षेत्रविराजिते ॥ २७॥
नानाशैवजनाधारे द्विजग्रामसमावृते ।
तद्वदाद्य महादेव त्वद्भक्त्या पृच्छतो मम ॥ २८॥
स्कन्दः उवाच ।
इति सुन्दरवाक्येन जातहर्षो महेश्वरः ।
उवाच सुन्दरं वीक्ष्य तदा कमलिनीमपि ॥ २९॥
ईश्वर उवाच ।
भुवोमण्डलमेतद्धि सप्ताब्धिपरिवेष्टितम् ।
वर्षेष्वपि च सर्वेषु भारतं पुण्यमुत्तमम् ॥ ३०॥
द्वीपेषुच गणश्रेष्ठ जम्बूद्वीपोऽयमुत्तमः ।
देशेष्वपिच सर्वेषु चोलोऽयं पुण्यकृत्तमः ॥ ३१॥
तस्मिन् सा सरितां श्रेष्ठा कावेरी पुण्यनिम्नगा ।
दिग्भ्यो दशभ्यो गणप दक्षिणा दिग्विशिष्यते ॥ ३२॥
घटोद्भवो मुनिर्यत्र विन्ध्यहृत् संस्थितः पुरा ।
व्याघ्रापादमुनेर्यत्र सन्न्यधत्त महेश्वरः ॥ ३३॥
पुण्डरीकपुरं यत्र धाम तत्र कपर्दिनः ।
त्वयाहं नित्यसान्निध्यात्सायं ताण्डवतत्परः ॥ ३४॥
सर्वैर्देवैश्च मुनिभिः गणवृन्दैः सदा नतः ।
तत्र स्थितोऽहं देवेशि गणेन्द्र श्रृणु तत्सदा ॥ ३५॥
श्रीमद्दक्षिणकैलासे विलासो मम सर्वदा ।
यत्र दन्तावलः पूर्वं पूजयामास मां तदा ॥ ३६॥
विरिञ्चिनारायणयोर्हंसक्रोडशरीरयोः ।
अदृष्टमौलिपदयोर्निसर्गागतगर्वयोः ॥ ३७॥
अरुणाचलरूपोऽहं तरुणेन्दुशिखामणिः ।
अचलेन्द्रं सदा पश्य प्रदक्षिणपुरःसरम् ॥ ३८॥
अहं चिरगिरिस्तत्र देव्या वृद्धाम्बया त्वया ।
सन्निधास्याम्यहं तत्र तथा गोपर्वते द्विज ॥ ३९॥
कम्पातीरे गणश्रेष्ठ स्मराक्ष्याहं त्वया शिवे ।
एकाम्रमूलनिलयः सन्निधास्याम्हं सदा ॥ ४०॥
सह्यापगाया मूरे तु श्रीकण्ठेश्वरसंज्ञितः ।
साक्षाद्रत्नगिरीशोऽहं तृणज्योतीश्वरोऽप्यहम् ॥ ४१॥
तथा मातृगिरौ पुण्ये सिन्धुरारण्यसंस्थितः ।
धृतस्थाने तथा पुण्ये तथा जप्येश्वरे गण ॥ ४२॥
तथाहं सुन्दरगिरौ क्षीरिणीविपिनेऽपि च ।
दक्षिणावर्तके स्थाने कुम्भघोणेऽर्जुनेऽपि च ॥ ४३॥
ब्रह्मारण्ये बिल्ववने श्वेतारण्ये गणोत्तम ।
छायावने च श्रीवाञ्छ्ये तेजिनीविपिनेऽपि च ॥ ४४॥
दुर्गेश्वरे मङ्गले च त्रिकोटौ च महेश्वरि ।
तथैवाम्रवणे देवि वेदारण्ये तथैव च ॥ ४५॥
कमलालयसंज्ञे च वल्मीकेश्वरसंज्ञितः ।
श्रिया यत्र तपस्तप्तं बहुवर्षगणं गण ॥ ४६॥
तत्र संवस सेवाशु (सेवस्व) कमलिन्याऽनया गण ।
तत्राहं तव भक्तिं च परीक्ष्य सुचिरं गण ॥ ४७॥
कमलिन्या विवाहं ते कारयामि समाहितः ।
सेतुबन्धेऽहममलो हालास्येऽप्यहमास्थितः ॥ ४८॥
ताम्रपर्ण्यास्तटे पुण्ये शिवक्षेत्रेषु संस्थितः ।
अन्यानि पुण्यस्थानानि ममैव गणपोत्तम ॥ ४९॥
एषु स्थानेषु नियतं संवसन् गानधारया ।
स्तुत्वा मां नियतौ गौर्या कमलिन्याऽनया सह ॥ ५०॥
भक्त्या मां त्वं समभ्यर्च्य केलासं त्वं सदा मम ।
समायाहि मुनिश्रेष्ठैः शैवैः सर्वजनार्चितैः ॥ ५१॥
चोळद्रविडभूपालैः सेविते देशसत्तमे ॥ ५२॥
कमलालयसंस्थितोऽस्मि नित्यं
मुचुकुन्दाद्यभिसेव्य पादपद्मः ।
हरिणा शतमन्युना च तत्र
गणवृन्दैर्मुनिभिश्च सेवितोऽस्मि ॥ ५३॥
तत्र त्वं गणपाग्रणेऽनया त्वं
संसेव्यामरवृन्दपूज्यपादम् ।
परितुष्टः सततं वसैव भक्त्या
मम भक्तैः कमलाविलासलोलः ॥ ५४॥
॥ इति शिवरहस्यान्तर्गते सुन्दराय शिवस्थाननिदेशः सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । सदाशिवाख्यः नवमांशः । अध्यायः १९ सुन्दराय शिवस्थाननिदेशः । २५-५४॥
- .. shrIshivarahasyam . sadAshivAkhyaH navamAMshaH . adhyAyaH 19 sundarAya shivasthAnanideshaH . 25-54..
Notes:
Sundara सुन्दर; one of the sixty-three Nāyanāra-s, after being told to be born in Pṛthvīloka पृथ्वीलोक, prays to Śiva शिव and beseeches Him that wherever he be born, he may remember and be devoted to Śiva शिव. Sundara सुन्दर requests Śiva शिव to tell him about the places in Pṛthvīloka पृथ्वीलोक where he will be able to feel close to Him i.e. experience Śiva Sānnidhya शिव सान्निध्य.
Śiva शिव then tells Sundara सुन्दर and Kamalini कमलिनि about the Col̤adeśa चोळदेश located in Bhāratavarṣa भारतवर्ष in Jambūdvīpa जम्बूद्वीप in the BhūMaṇḍala भूमण्डल that has Saptābdhi सप्ताब्धि - seven oceans.
Śiva शिव enlists several Śivakṣetra शिवक्षेत्र where His devotees of very high order had also lived worshiping Him, and where Śiva Sānnidhya शिव सान्निध्य can be experienced; viz., near River Kāverī कावेरी सरिता, Puṇḍarīkapuram पुण्डरीकपुरम्, Vindhya विन्ध्य, DakṣiṇaKailāsa दक्षिणकैलास, Aruṇācalam अरुणाचलम्, Acalendra अचलेन्द्र, Ciragiri चिरगिरि, Ekāmramūla एकाम्रमूल, at the Banks of River Kampā कम्पातीर, ŚrīKāṭheśvara श्रीकण्ठेश्वर, Ratnagiri रत्नगिरि, Kumbhaghoṇa कुम्भघोण, Arjuna अर्जुन, Hālāsya हालास्य, Valmīkeśvara वल्मीकेश्वर at Kamalālaya कमलालय etc.
Śiva शिव assures Sundara सुन्दर that he will eventually be back in Kailāsa कैलास serving Him as usual.
Proofread by Ruma Dewan