सुन्दरकृता शिवस्तुतिः २
(शिवरहस्यान्तर्गते सदाशिवाख्ये)
यद्वेतालवृतं तस्मै पादाब्जाय नमोऽस्तु ते ॥ ७६॥
यत्ताण्डवोत्सवं तेने महाहेमसभान्तरे ।
तस्मै कालस्य संहर्त्रे पादपद्माय ते नमः ॥ ७७॥
देव्या संवाह्यमानं यत्पुण्यं च हृदि योगिनाम् ।
अन्तर्ज्योतिर्ज्योतिषां च पादपद्माय ते नमः ॥ ७८॥
यदवीक्षितमाद्येन हंसेनापि सुपोत्रिणा ।
नमस्ते पादपद्माय श्रुतिमातङ्गशीर्षग ॥ ७९॥
नाथ सोढापराधानां यो मे (यन्मे)
मोहतमोऽपहः (मोहतमोऽपहम्) ।
नमस्ते पादपद्माय नावे संसारवारिधेः ॥ ८०॥
॥ इति शिवरहस्यान्तर्गते सुन्दरकृता शिवस्तुतिः २ सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । सदाशिवाख्यः नवमांशः । अध्यायः २४ । ७६.२-८०॥
- .. shrIshivarahasyam . sadAshivAkhyaH navamAMshaH . adhyAyaH 24 . 76.2-80..
Notes:
Sundara सुन्दर; one of the sixty-three Nāyanāra-s, after being born in Pṛthvīloka पृथ्वीलोक, worships and eulogizes Śiva शिव.
Proofread by Ruma Dewan