सुन्दरकृतशिवस्तुत्युपरान्त शिवदर्शविग्रहवर्णनम्
(शिवरहस्यान्तर्गते सदाशिवाख्ये)
सुन्दरः उवाच ।
व्योम त्वं व्योमकेश श्रुतिशिरवचसां सीमभूमा त्वमेव
धामा सोमादि वामस्तव वरमहिमा सामसीमास्तुतस्त्वम् ।
संसारोद्दामपाप्म प्रशिथिलतनुभिः सेवनीयस्त्वमीशो
मामेवं दास्यभावे नियतिपरवशं भक्तिभावे कुरुष्व ॥ २५॥
- -
इति सुन्दरवाक्येन देवस्तदर्शनं गतः ।
आरुह्य वृषभं देवः सह देव्याद्रिकन्यया ॥ २६॥
- -
अथ शिवदर्शविग्रहवर्णनम्
जटागङ्गातरङ्गात्तचलदिन्दुकलाधरः ।
खेलद्भिर्भुजगद्वन्द्वैराबद्धमकुटीतटः ॥ २७॥
पतङ्गानलसोमोद्यत्पारावारीणलोचनः ।
गौरीमणिमयादर्शकपोलतललम्बिना ॥ २८॥
मण्डितं कुण्डलेशानकुण्डलेन फणी(णा)भृता ।
दन्तमुक्तानिबन्धोष्ठप्रवालमणिपेटकम् ॥ २९॥
स्मितश्रीपुञ्जकिञ्जल्कमञ्जुलाननपङ्कजम् ।
कण्ठशङ्खनिधिस्फूर्जन्मुदितोर्जितवैभवम् ॥ ३०॥
मृगटङ्कवराभीतिवृतहस्तचतुष्टयम् ।
वृषधाटिचलद्धारारुद्राक्षस्थानवैभवम् ॥ ३१॥
ककुदास्फालनोदञ्चत्फणिकङ्कणशिञ्जितम् ।
सहारूढाद्रिजाश्लेषोदञ्चद्रोमाञ्चकञ्चुकम् ॥ ३२॥
उत्तरीयायितोद्दण्डवेतण्डाजिनमण्डितम् ।
कटिसूत्रस्थितव्यालनद्धव्याघ्राजिनाम्बरम् ॥ ३३॥
सुमेरुवरकोदण्डचण्डबाहुविराजितम् ।
हरिसोमानलोत्तेजिशरशोभिकरं हरम् ॥ ३४॥
आखण्डलादिकोटीर कोटीमणिमरीचिभिः ।
आम्रेडितप्रभापूरस्फूर्जन्नीरजपादुकम् ॥ ३५॥
सोमधामसमानोद्यत्कोटिकन्दर्पसन्निभम् ।
घृतकाठिन्यवन्मूर्तं सच्चिदानन्दसम्पदम् ॥ ३६॥
- -
आकारं वीक्ष्यचाक्षिभ्यां प्राणंसीत्सुन्दरस्तदा ।
ननर्ति देवं वीक्ष्यैवमस्तावीदीदृशं शिवम् ॥ ३७॥
सुन्दरः स तदा चिन्तासंसारे तामरीरमत् ।
व्यरचत्स्तुतिं शम्भोस्तस्य भक्तिमपूपुषत् ॥ ३८॥
॥ इति शिवरहस्यान्तर्गते सुन्दरकृतशिवस्तुत्युपरान्त शिवदर्शविग्रहवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । सदाशिवाख्यः नवमांशः । अध्यायः २० सुन्दरचरितम् । २५-३८॥
- .. shrIshivarahasyam . sadAshivAkhyaH navamAMshaH . adhyAyaH 20 sundaracharitam . 25-38..
Notes:
Sundara सुन्दर; one of the sixty-three Nāyanāra-s, eulogizes and prays to Śiva शिव while residing in Pṛthvīloka पृथ्वीलोक. Śiva शिव mounts Nandi नन्दी along with Pārvatī पार्वती, and goes to see Sundara सुन्दर. Deva-s देवाः dance with joy at the Darśana दर्शन.
Proofread by Ruma Dewan