अगस्त्यप्रोक्ता सुन्दरेशस्तुतिः
मन्नाथ जगतां नाथ सत्यज्ञानसुखात्मक ।
पाहि मां परमेशान परात्पर नमोऽस्तु ते ॥ १॥
मत्प्रसादक्रियादक्ष दक्षाध्वरविनाशन ।
मदनान्तक मद्भुर्तः मदाज्ञावशवर्तक ॥ २॥
निगमागमसन्ताननिलयाङ्घ्रिसरोरुह ।
भुवन त्रय सम्भूतित्राण संहार कारण ॥ ३॥
हंसरूपाम्बुजावासदर्शनागम्यमस्तक
सूकराकारमुरजिददृष्टाङ्घ्रिसरोरुह ॥ ४॥
नमो भगवते तुभ्यं सर्वात्मान्तरवर्तिने ।
पुरत्रयविनाशाय पुरन्दरनुताङ्घ्रये ॥ ५॥
नमः परावरज्ञाय परात्परतराय च ।
परमात्मस्वरूपाय नमः कैवल्यदायिने ॥ ६॥
नमस्त्रैलोक्यनाथाय नमश्चन्द्रार्धधारिणे ।
नमो भसितभूषाय नमश्चर्माम्बराय च ॥ ७॥
नमः श्यामार्धदेहाय नमो नागेन्द्रहारिणे ।
नमो मह्यम्बुवाय्वग्निपुष्पवत्खात्ममूर्तये ॥ ८॥
नमो वेदान्तवेद्याय नमो नादान्तरूपिणे ।
नमो नारायणार्च्याय नमो नरकहारिणे ॥ ९॥
जीवन्मुक्तिपुरीशाय श्रीकण्ठाय नमोऽस्तु ते ।
नमो हालास्यनाथाय शङ्कराय नमो नमः ॥ १०॥
इत्यात्मनायकं स्तुत्वा शिवं देवी तटातका ।
विशेषतश्च तस्यापि लब्ध्वाऽनुग्रहमीशितुः ॥ ११॥
इति अगस्त्यप्रोक्ता सुन्दरेशस्तुतिः समाप्ता ।
श्रीस्कान्दे महापुराणे अगस्त्यसंहितायां
हालास्यमाहात्म्ये अध्यायः १४ -लीला १०
Proofread by Rajesh Thyagarajan