अभिषेकपाण्ड्यकृता सुन्दरेश्वर स्तुतिः अपराधाष्टकम्
अभिषेकपाण्ड्यः -
परिपूर्ण परानन्द परचित्सत्यविग्रह ।
सुन्दरेश्वर सर्वज्ञ त्राहि मामपराधिनम् ॥ १॥
फालाक्षिजातज्वलन लेलिहानमनोभव ।
जीवन्मुक्तिपुरीनाथ त्राहि मामपराधिनम् ॥ २॥
पारिजातगुणातीतपादपङ्कजवैभव ।
कदम्बकाननाध्यक्ष त्राहि मामपराधिनम् ॥ ३॥
भक्तप्रार्थितसर्वार्थकामधेनो पुरान्तक ।
करुणावरुणावास त्राहि मामपराधिनम् ॥ ४॥
कैवल्यदाननिरत कालकूटभयापह ।
कन्यकानगरीनाथ त्राहि मामपराधिनम् ॥ ५॥
कमलापतिवागीशशचीशप्रमुखामरैः ।
परिपूजितपादाब्ज त्राहि मामपराधिनम् ॥ ६॥
पञ्चास्य पनगाङ्काङ्ग परानन्दप्रदायक ।
पर्वताधीशजामातः त्राहि मामपराधिनम् ॥ ७॥
परात्पर पदाम्भोजपरिध्यानरतात्मनाम् ।
काङ्क्षितार्थप्रद स्वामिन् त्राहि मामपराधिनम् ॥ ८॥
अपराधाष्टकं स्तोत्रं यः पठेत्तव सन्निधौ ।
तस्यानन्तापराधं च क्षमस्व करुणानिधे ॥ ९॥
इति स्तुत्वा महालिङ्गं प्रणिपत्य मुहुर्मुहुः ।
पुनरप्यार्यया भूपस्तुष्टाव परमेश्वरम् ॥ १०॥
हालास्यनाथ शम्भो परिहृतभक्तापराध एव त्वम् ।
अहमपि तव पादाम्बुजशरणस्त्वं पाहि मां महेशान ॥ ११॥
कदम्बकान्तकान्तार कल्पितेन्द्रविमानग ।
शम्भो क्षमस्वापराधान् कृतानज्ञानतः प्रभो ॥ १२॥
इत्यादिभिश्च स्तुतिभिस्स्तुत्वा विस्मितमानसः ।
पुनः पुनः प्रणम्याथ नृपः स्वालयमाययौ ॥ १३॥
इति अभिषेकपाण्ड्यकृता सुन्दरेश्वरस्तुतिः सम्पूर्णा ।
अपराधाष्टकं सम्पूर्णम् ।
श्रीस्कान्दे महापुराणे अगस्त्यसंहितायां
हालास्यमाहात्म्ये अध्यायः २७, लीला २१, श्लोकानि ५६-६८
Proofread by Rajesh Thyagarajan