स्वच्छन्दभैरवस्मरणम्
त्रिपञ्चनयनं देवं जटामुकुटमण्डितम् ।
चन्द्रकोटिप्रतीकाशं चन्द्रार्धकृतशेखरम् ॥ १॥
पञ्चवक्त्रं विशालाक्षं सर्पगोनासमण्डितम् ।
वृश्चिकैरग्निवर्णाभैर्हरिण तु विराजितम् ॥ २॥
कपालमालाभरणं मुण्डखेटकधारिणम् ।
पाशाङ्कुशधरं देवं शरहस्तं पिनाकिनम् ॥ ३॥
वरदाभयहस्तं च खड्गखट्वाङ्गधारिणम् ।
वीणाडमरूहस्तं च घण्टाहस्तं त्रिशूलिनम् ॥ ४॥
वज्रदण्डकृताटोपं परश्वायुधहस्तकम् ।
मुद्गरेण विचित्रेण वर्तुलेन विराजितम् ॥ ५॥
सिंहचर्मपरीधानं गजचर्मोत्तरीयकम् ।
अष्टादशभुजं देवं नीलकण्ठं सुजेतसम् ॥ ६॥
ऊर्ध्ववक्त्रं महेशानि स्फटिकाभं विचिन्तये ।
आपीतं पूर्ववक्त्रं तु नीलोत्पलदलप्रभगृ ॥ ७॥
दक्षिणं तु विचिन्त्याहं वामं चैव विचिन्तये ।
दाडिमीकुसुमप्रख्यं कुङ्कुमोदकसन्निभम् ॥ ८॥
चन्द्रार्बुदप्रतीकाशं पश्चिमं च विचिन्तये ।
स्वच्छन्दभैरवं देवं सर्वकामफलप्रदम् ॥ ९॥
यादृशं भैरवं रूपं भैरव्यास्ताहगेव हि ।
श्रीमद्भैरवनाथस्य तस्मोसङ्गे विराजिताम् ॥ १०॥
ईषत्करालवदनां गम्भीरविपुलस्वनाम् ।
प्रसन्नास्यां सदा ध्याये भैरवीं विस्मितेक्षणाम् ॥ ११॥
स्वच्छन्दभैरवं चैवमघोरां शक्तिमुत्तमाम् ।
ध्यायन् भक्त्या तु युक्तात्मा क्षिप्रं सिद्धयति मानवः ॥ १२॥
॥ इति स्वच्छन्दभैरवस्मरणं सम्पूर्णम् ॥
Proofread by Ruma Dewan