स्वर्णाकर्षणभैरवमन्त्रमय स्तोत्रम्

स्वर्णाकर्षणभैरवमन्त्रमय स्तोत्रम्

ब्रह्मा यस्य ऋषि स्वयं निगदितश्छन्दो मतं त्रैष्टुभं, स्वर्णाकर्षण-भैरवो हरिहरब्रह्मात्मको देवता । ह्रीं बीजं भृगुशक्तिरित्यभिहितं तस्यैव सूत्रात्मनः, स्तोत्रं ध्यान पुरस्सरं मनुमयं ब्रूमो वयं प्रत्यहम् ॥ १॥ मन्दारद्रुममूलपूजितमहामाणिक्य-सिंहासने, संविष्टो दरभिन्न चम्पकरुचा देव्या समालिङ्गितः । भक्तेभ्यो वररत्न पात्र भरितं स्वर्णं ददानोऽनिशं, स्वर्णाकर्षण-भैरवो विजयते स्वर्गापवर्गप्रदः ॥ २॥ ॐ ऐं क्लां क्लीं क्लूमिति व्याहरन् यो भक्तः स्वर्णाकर्षणम् । कारुण्याब्धिः कल्पमूलाधिवासः स्वर्णाकर्षो भैरवो मेऽस्तु भूत्यै ॥ ३॥ ह्रां ह्रीं हूं सः सन्ततं जापकानां वर्षन्तं तं स्वर्णवृष्टिं समग्राम् । अन्तः स्वान्तं सूर्यकोटिप्रकाशं स्वर्णाकर्षं भैरवं भावयामि ॥ ४॥ मरकतमणिपात्रे सम्भृतं स्वर्णपूर्णं कृपणतरजनेभ्यस्तारतः सम्प्रदातुः । कुरु हृदय सपर्यां सेवमानाय नित्यं सुरवरमनुजेन्द्र स्यापदुद्धारणाय ॥ ५॥ नमोऽजामलबद्धाय ब्रह्मसूत्राधिवाससे । स्वर्णाकर्षण-शीलाय साधकानां कृतात्मने ॥ ६॥ लोकेश्वराद्यर्चित-पादुकाय दारिद्र्यनिर्मूलनकारणाय । स्वर्णादि दानकरणोद्यत भैरवाय कारुण्यवारान्निधये नमस्ते ॥ ७॥ दीनानाथ विपन्नरक्षणपरै राज्यप्रतीक्षापरैः सिद्धैः साध्यगणैः सुरासुरगणैर्भुक्तिप्रयुक्तात्मभिः । मूले कल्पतरोर्महामणिमये मार्तण्ड-तेजोजुषे स्वर्णाकर्षणभैरवाय सततं कुर्मो नमस्यां वयम् ॥ ८॥ स्वर्णाकर्षि-स्वर्णदेव्याश्रिताय स्वर्णारूढोदार-सिंहासनाय । कुर्मो नित्यं स्वर्णदात्रे नमस्यां दारिद्र्यद्वेषि श्रीमते भैरवाय ॥ ९॥ स्वर्णप्रदानाध्वर-दीक्षिताय स्वतेजसाक्रान्त-जगत्त्रयाय । औदार्य-सम्पत्-सदनाय नित्यं, ॐ श्रीमहाभैरव ! ते नमोऽस्तु ॥ १०॥ चिन्तामणिस्थित-महानिधि-कामधेनु- मन्दारमूल-मणिमण्डप-मध्यगाय । स्वर्ण-प्रदान-निरताय सदा सपर्यां, कुर्मो वयं त्रिकरणैः परभैरवाय ॥ ११॥ मूले कल्पतरोः प्रभा-परिमले भद्रासने संस्थितो, हस्ताम्भोरुह-रत्नपात्रभरितैः कार्तस्वरैर्भास्वरैः । निर्मूलीकृत-दुर्गतो विरचयन् विद्युद्दिनेशद्युतिः, स्वर्णाकर्षण-भैरवो भवतु नो दारिद्र्य-विद्वेषणः ॥ १२॥ दुग्धाद्याराध्य स्वर्णाकृति कनकमये द्वीपवर्ये सुधाब्धौ, कापित्थे तत्र रम्ये मणिमयविलसद् भित्ति-पाश्चात्य भागे । यद्वत्तं सर्ववाञ्छाधिकवसुनिचयं मन्त्रिणां संसरन्तं, ध्यायेच्छ्रीभैरवं तं सकल-सुवसुदं दुःखदारिद्र्य शत्रुम् ॥ १३॥ सुवर्णमण्डपे ध्यायेत् सुवर्णरुचिभिर्युतम् । महात्मानं सुखासीनं प्रसन्नवरदायकम् ॥ १४॥ सर्वरत्न-विभूषाढ्यं सुरासुर-नमस्कृतम् । मणिहारक-सम्पूर्तिं ददतं स्वकरैः सदा ॥ १५॥ सुवर्णवृष्टिरूपैश्व धनसारैर्निरन्तरम् । दारिद्र्य-नाम-संहारं-कुण्डलोल्लास-संयुतम् ॥ १६॥ एवं ध्यात्वा महात्मानं महादारिद्र्य-नाशनम् । स्तौमि मन्दार-मूलस्थं ब्रह्मसूत्राधिवासनम् ॥ १७॥ स्वर्णसिद्धिं करैरेव ददानं स्वर्णभैरवम् । ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयात् ॥ १८॥ स्वर्णादिमध्यमणिमण्डप कल्पवृक्षे, पीतारुणाम्बुजनिविष्टसुवर्णवर्णम् । माणिक्यपात्रमभयं दधतं च दोर्भ्यां, स्वर्णादिकर्षणविनोदनिधिं नमामि ॥ १९॥ सुवर्णकर्षकं नित्यं ऋणहर्तारमीश्वरम् । भजतो न ऋणं तस्य धनं शीघ्रं प्रजायते ॥ २०॥ पीतवर्णं चतुर्बाहुं त्रिनेत्रं पीतवाससम् । अक्षद्वयं स्वर्णमयं तडित्पूरित-पात्रकम् ॥ २१॥ अतितीक्ष्ण-महाशूलं तोमरं चामरद्वयम् । सततं चिन्तयेद् यस्तु भैरवं स्वर्णसिद्धिदम् ॥ २२॥ स्वर्णाकर्षणभैरव-मन्त्राढ्यं स्तोत्रमुत्तमम् । पठतां निधिसिद्धिश्च स्वर्णसिद्धिश्च जायते ॥ २३॥ अनेन स्तवराजेन नित्यं ब्रह्महरीश्वराः । स्वर्णाकर्षणनामानि स्तुवन्ति जगदीश्वराः ॥ २४॥ इसके पश्चात् और भी विस्तार से इस स्तोत्र के पाठ का फल- वर्णन करते हुए कहा गया है कि जो मनुष्य इस स्तोत्र का पाठ करता है, वह मन्दभाग्य होने पर भी भैरव के प्रसाद से इच्छा से भी अधिक लक्ष्मी प्राप्त करता है, इसमें संशय नहीं है । रससिद्धि, कामनापूर्ति, स्थिरलक्ष्मी, रत्न, अश्व, गज, स्वर्णराशि, धेनु, चिन्तामणि आदि को प्राप्त करता है । इस स्तोत्र के प्रतिदिन १०८ पाठ करने चाहिएं । ४१ दिनों का मण्डल पूर्ण करने से अथवा २५ दिन से पूर्व ही स्वर्णादि प्राप्त हो जाते हैं । भगवती त्रिपुरा की उपासना से यह सर्वकामना पूर्ण करता है । इस ``फलश्रुति'' के पद्य इस प्रकार हैं- यः पठेत् परमं स्तोत्रमिदं नित्यं नरोत्तमः । स मर्त्यो मन्दभाग्योऽपि भैरवस्य प्रसादतः ॥ २५॥ इच्छातोऽप्यधिकां लक्ष्मीं लभते नात्र संशयः । रससिद्धिर्भवेच्छीघ्रं निधीनामधिपो भवेत् ॥ २६॥ सर्वान् कामानवाप्नोति दैवतैरपि दुर्लभम् । एतज्जपैर्महालक्ष्मीश्चञ्चलाप्यचला भवेत् ॥ २७॥ रत्नान्यश्वान् गजान् भूतीर्लभते शीघ्रमेव हि । स्वर्णराशिमवाप्नोति चाक्षयां नात्र संशयः ॥ २८॥ धेनुं चिन्तामणिं कल्पद्रुमं शीघ्रमवाप्नुयात् । नित्यमष्टोत्तरशतं यो जपेत् स्तोत्रमुत्तमम् ॥ २९॥ मण्डलार्धाच्च प्रागेव स्वर्णराशिमनुत्तमम् । सततं ध्यायते तस्मै दर्शयत्येव न संशयः ॥ ३०॥ नित्यं च त्रिपुराभक्तैः स्वर्णाकर्षणभैरवः । यत्नेन सर्वदोपास्यः सर्वकामप्रदायकः ॥ ३१॥ इति श्रीत्रिपुरासिद्धान्ते दक्षिणामूर्तिप्रोक्तं स्वर्णाकर्षणभैरवस्तोत्रं समाप्तम् । Proofread by Aruna Narayanan
% Text title            : Svarnakarshanabhairava Mantramaya Stotram
% File name             : svarNAkarShaNabhairavamantramayastotram.itx
% itxtitle              : svarNAkarShaNabhairavamantramayastotram (rudrayAmalAntargatam)
% engtitle              : svarNAkarShaNabhairavamantramayastotram
% Category              : shiva, mantra, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Indexextra            : (Scan)
% Latest update         : December 24, 2021
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org