श्रीताण्डवस्तोत्रम् २
चित्रं वटतरोर्मूले वृद्धाः शिष्या गुरुर्युवा ।
गुरोस्तु मौनं व्याख्यानं शिष्यास्तु च्छिन्नसंशयाः ॥ १॥
पदप्रचुरकिङ्किणीकिणिकिणिध्वनिभ्राजितं
हरिप्रमुखदेवतादृतलसन्मृदङ्गादिकम् ।
धिधिन्धिमितधैतधैतधरवानुसारिक्रमं
सदा तिमिति मङ्गलं दिशतु शाम्भवं ताण्डवम् ॥ २॥
धिन्धिमिधिमिधिमिशब्दैर्बन्धुरपदमन्दरं नटन्तम् ।
झञ्झणझणझणरावारञ्जितमणिमण्डनं शिवं सेवे ॥ ३॥
तक्कतोधिक्कतोतातथातैतथै
तोङ्गदद्माङ्गधिन्नत्तशब्दान्मुहुः ।
उच्चरन् हासविन्यासचञ्चन्मुखः
सन्ननर्त स्वयं श्रीभवानीपतिः ॥ ४॥
तापसांस्तापसानन्तरा देवता
देवता देवताश्चान्तरा तापसाः ।
एवमादृत्य वागीश्वरादिस्थितौ(धिष्टितः)
सन्ननर्त स्वयं श्रीभवानीपतिः ॥ ५॥
॥ इति श्रीताण्डवस्तोत्रं सम्पूर्णम् ॥
Proofread by Aruna Narayanan