श्रीताण्डवेश्वरस्तोत्रम्
वृथा किं संसारे भ्रमथ मनुजा दुःखबहुले
पदाम्भोजं दुःखप्रशमनमरं संश्रयत मे ।
इतीशानस्सर्वान्परमकरुणानीरधिरहो
पदाब्जं ह्युद्धृत्याबुजनिभ करेणोपदिशति ॥ १॥
संसारानलतापतप्त हृदयास्सर्वे जवान्मत्पदं
सेवध्वं मनुजा भयं भवतु मा युष्माकमित्यद्रिशः ।
हस्तेऽग्निं दधदेष भीतिहरणं हस्तं च पादाम्भुजं
ह्युद्धृत्योपदिशत्यहो करसरोजातेन कारुण्यधिः ॥ २॥
ताण्डवेश्वर ताण्डवेश्वर ताण्डवेश्वर पाहि माम् ।
ताण्डवेश्वर ताण्डवेश्वर ताण्डवेश्वर रक्ष माम् ॥ ३॥
गाण्डिवेश्वर पाण्डवार्चित पङ्कजाभपदद्वयं
चण्डमुण्डविनाशिनी हृत वामभागमनीश्वरम् ।
दण्डपाणि कपाल भैरव तण्डुमुख्य गणैर्युतं
मण्डिताखिल विनष्टपं विजितान्धकं प्रणमाम्यहम् ॥ ४॥
भासमान शरीर कान्ति विभासिताखिल विष्टपं
वासवाद्यमृताशसेवित पादपङ्कज संयुतम् ।
कासमान मुखारविन्द जितामृतांशुमशेषहृत्
वासताण्डव शङ्कर सकलाघनाशकमाश्रये ॥ ५॥
मेरुपर्वतकार्मुकं त्रिपुरार्तनिर्जरयाचितं
ज्याकृताखिलसर्पराज महीशतल्प सुसायकम् ।
ज्यारथं चतुरागमाश्वमजेन सारथिसंयुतं
संहृतत्रिपुरं महीध्रसुतानु मोदकमाश्रये ॥ ६॥
गदाभृद्ब्रह्मेन्द्राद्यखिल सुरवृन्दार्च्य चरणं
ददानं भक्तेभ्यश्चितिमखिल रूपामनवधिम् ।
पदास्पृष्टोक्षानं जितमनसिजं शान्तमानसं
सदा शम्भुं वन्दे शुभदगिरिजाष्लिष्टवपुषम् ॥ ७॥
इति श्रीजगद्रुरु श्रीशृङ्गेरीपीठाधिप श्रीचन्द्रशेखरभारती
श्रीपादैः विरचितं श्रीताण्डवेश्वरस्तोत्रं सम्पूर्णम् ।