तारावलीस्तोत्रम्
निरवधिकरुणार्द्रैर्निह्नुताशेषदोषैः
अमृतरसझराणां अन्तरङ्गैरपाङ्गैः ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ १॥
श्रियमवनतिभाजां श्रेयसामादधानैः
अमृतरसतरङ्गश्रीधुरीणैरपाङ्गैः ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ २॥
गजमुखशरजन्मप्रेमगाढोपगूढैः
नगदुहितुरमन्दानन्दमूलैरपाङ्गैः ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ ३॥
गिरिवरतनयायाः केलिकोपे नतस्तत्-
चरणनखरुचिश्रीवर्मितैरीक्षणैर्द्राक् ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ ४॥
स्मरहर दयनीयास्मीत्युमायां वदन्त्यां
दरहसितमुखेन्दुस्तामपाङ्गैः पिबद्भिः ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ ५॥
नमदमरकिरीटक्रीडदुद्दण्डशुण्डा-
मुखमिभमुखमारादापिबद्भिः कटाक्षैः ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ ६॥
समदधत मृकण्डोरात्मजे चोपमन्यौ
समभिलषितसिद्धिं ये कटाक्षाङ्कुरास्तैः ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ ७॥
मकुटशशिकिशोरस्यन्दिपीयूषधारा-
मधुरशिशिरभावस्तोमचोरैरपाङ्गैः ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ ८॥
प्रणमदमरमौलिप्रस्फुरद्रत्नवृन्द-
प्रसृमरकिरणश्रीदत्तहस्तैरपाङ्गैः ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ ९॥
प्रणमनकृतिसृष्टा शम्भुना पद्मपङ्क्ति-
प्रविततिरियमित्यध्यस्यमानैरपाङ्गैः ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ १०॥
प्रणमनपरसंसन्मोक्षसाम्राज्यलक्ष्मी-
वरणकमलमालोदारयापाङ्गभङ्ग्या ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ ११॥
गदगणगलनायुः कल्पनोदूढदीक्षैः
अभिमतसकलार्थाधानदक्षैः कटाक्षैः ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ १२॥
भवभरतपतापोपप्लुतानां नतानां
श्रमहृदमृतवृष्ट्या सान्द्रकारुण्यदृष्ट्या ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ १३॥
दलमपि कुसुमं वा दत्तवद्भ्यो जनेभ्यो
विधिवलमथनश्रीविक्रयिण्या दृशा द्राक् ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ १४॥
अवनमनपराणां आत्मतत्त्वावबोध-
प्रकटनपटुदीपैः प्रस्फुरद्भिः कटाक्षैः ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ १५॥
अवनमनपराणां आयुरारोग्यवृद्धिं
निजचरणरतिञ्चोदञ्चयद्भिः कटाक्षैः ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ १६॥
हृदि विनतजनानां भक्तिकल्पद्रुवल्ली-
जनिकृदमृतसेकैर्विस्फुरद्भिः कटाक्षैः ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ १७॥
गजवदनकराग्राकीर्यमाणस्वचूडा-
तटवरसरिदूर्म्यासेचनैस्तापहारी ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ १८॥
निजमकुटतटाञ्चन्निम्नगावीचिविप्रुट्-
प्रकरविकसनेन प्रापयन् तापशान्तिम् ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ १९॥
प्रथमभिषगधीशख्यातिमूर्जस्वलां स्वां
प्रविदधदवनम्रव्यूहसर्वार्तिहृत्या ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ २०॥
प्रवणजनविमोहध्वान्तविध्वंसकेली-
पटुतरदरहासप्रस्फुरञ्चन्द्रिकाभिः ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ २१॥
कुपितशिखरिकन्याचित्तशीतांशुकान्त-
द्रुतिषु शशिमयूखैः सुन्दरैर्मन्दहासैः ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ २२॥
प्रणमति विहरद्भिस्तत्र सम्प्रीतिदत्त-
प्रविमलतरहारभ्रान्तिदैर्मन्दहासैः ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ २३॥
स्फुटविशकलितार्यातुङ्गवक्षोजकुम्भ-
श्रितकुवलयमालेनामलेन स्मितेन ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ २४॥
स्फुरदधररुचिश्रीसङ्गिना पद्मराग-
द्युतिकवचितहीराभेन मन्दस्मितेन ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ २५॥
सुकृतिहृदयसौधप्रोल्लसच्चन्द्रिकाभिः
दरहसितरुचीभिर्दारितार्तिच्छटाभिः ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ २६॥
कमलजठरनिर्यच्चन्द्रिकाभ्रान्तिकृद्भिः
शुभतरदरहासैराननान्निःसरद्भिः ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ २७॥
श्रितजनघनपुण्यश्रेणिमल्लीमतल्ली-
कुसुमसमुदयेनोदारमन्दस्मितेन ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ २८॥
तारावलीस्तुतिमिमां तरुणेन्दुमौलेः
शृण्वन्ति ये भुवि पठन्ति शिवः स तेषाम् ।
दीर्घायुरुन्नतविभूतिसुतर्द्धिशम्भु-
भक्त्याद्यभीष्टमखिलं प्रददाति हृष्टः ॥ २९॥
॥ इति श्रीश्रीधरवेङ्कटेशार्यकृतौ तारावलीस्तोत्रं सम्पूर्णम् ॥
योजकचिह्नाङ्कितम्
निरवधि-करुणार्द्रै-र्निह्नुताशेष-दोषैः
अमृतरस-झराणां अन्तरङ्गैरपाङ्गैः ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभय-निवृत्तिं साम्बमूर्ति-र्विधत्ताम् ॥ १॥
श्रियमवनति-भाजां श्रेयसामादधानैः
अमृतरस-तरङ्ग-श्रीधुरीणैरपाङ्गैः ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभय-निवृत्तिं साम्बमूर्ति-र्विधत्ताम् ॥ २॥
गजमुख-शरजन्म-प्रेमगाढोपगूढैः
नगदुहितुरमन्दानन्द-मूलैरपाङ्गैः ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभय-निवृत्तिं साम्बमूर्ति-र्विधत्ताम् ॥ ३॥
गिरिवर-तनयायाः केलिकोपे नतस्तत्-
चरणनख-रुचिश्री-वर्मितैरीक्षणैर्द्राक् ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभय-निवृत्तिं साम्बमूर्ति-र्विधत्ताम् ॥ ४॥
स्मरहर दयनीयास्मीत्युमायां वदन्त्यां
दरहसित-मुखेन्दुस्तामपाङ्गैः पिबद्भिः ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ ५॥
नमदमर-किरीट-क्रीडदुद्दण्ड-शुण्डा-
मुखमिभमुखमारादापिबद्भिः कटाक्षैः ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभय-निवृत्तिं साम्बमूर्ति-र्विधत्ताम् ॥ ६॥
समदधत मृकण्डोरात्मजे चोपमन्यौ
समभिलषित-सिद्धिं ये कटाक्षाङ्कुरास्तैः ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभय-निवृत्तिं साम्बमूर्ति-र्विधत्ताम् ॥ ७॥
मकुट-शशिकिशोर-स्यन्दि-पीयूषधारा-
मधुर-शिशिर-भावस्तोम-चोरैरपाङ्गैः ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ ८॥
प्रणमदमरमौलि-प्रस्फुरद्रत्न-वृन्द-
प्रसृमर-किरणश्री-दत्तहस्तैरपाङ्गैः ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभय-निवृत्तिं साम्बमूर्ति-र्विधत्ताम् ॥ ९॥
प्रणमनकृति-सृष्टा शम्भुना पद्मपङ्क्ति-
प्रविततिरियमित्यध्यस्यमानैरपाङ्गैः ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभय-निवृत्तिं साम्बमूर्ति-र्विधत्ताम् ॥ १०॥
प्रणमनपर-संसन्मोक्ष-साम्राज्यलक्ष्मी-
वरणकमल-मालोदारयापाङ्ग-भङ्ग्या ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभय-निवृत्तिं साम्बमूर्ति-र्विधत्ताम् ॥ ११॥
गदगण-गलनायुः कल्पनोदूढ-दीक्षैः
अभिमत-सकलार्थाधान-दक्षैः कटाक्षैः ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभय-निवृत्तिं साम्बमूर्ति-र्विधत्ताम् ॥ १२॥
भवभर-तप-तापोपप्लुतानां नतानां
श्रमहृदमृत-वृष्ट्या सान्द्रकारुण्य-दृष्ट्या ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभय-निवृत्तिं साम्बमूर्ति-र्विधत्ताम् ॥ १३॥
दलमपि कुसुमं वा दत्तवद्भ्यो जनेभ्यो
विधि-वलमथन-श्रीविक्रयिण्या दृशा द्राक् ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभय-निवृत्तिं साम्बमूर्ति-र्विधत्ताम् ॥ १४॥
अवनमन-पराणां आत्म-तत्त्वावबोध-
प्रकटन-पटुदीपैः प्रस्फुरद्भिः कटाक्षैः ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभय-निवृत्तिं साम्बमूर्ति-र्विधत्ताम् ॥ १५॥
अवनमन-पराणां आयुरारोग्य-वृद्धिं
निजचरण-रतिञ्चोदञ्चयद्भिः कटाक्षैः ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभय-निवृत्तिं साम्बमूर्ति-र्विधत्ताम् ॥ १६॥
हृदि विनत-जनानां भक्ति-कल्पद्रुवल्ली-
जनिकृदमृत-सेकै-र्विस्फुरद्भिः कटाक्षैः ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभय-निवृत्तिं साम्बमूर्ति-र्विधत्ताम् ॥ १७॥
गजवदन-कराग्राकीर्यमाण-स्वचूडा-
तटवर-सरिदूर्म्यासेचनैस्तापहारी ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभय-निवृत्तिं साम्बमूर्ति-र्विधत्ताम् ॥ १८॥
निजमकुट-तटाञ्चन्निम्नगा-वीचि-विप्रुट्-
प्रकर-विकसनेन प्रापयन् तापशान्तिम् ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभय-निवृत्तिं साम्बमूर्ति-र्विधत्ताम् ॥ १९॥
प्रथम-भिषगधीश-ख्यातिमूर्जस्वलां स्वां
प्रविदधदवनम्र-व्यूह-सर्वार्ति-हृत्या ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभय-निवृत्तिं साम्बमूर्ति-र्विधत्ताम् ॥ २०॥
प्रवणजन-विमोह-ध्वान्तविध्वंस-केली-
पटुतर-दरहास-प्रस्फुरञ्चन्द्रिकाभिः ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ २१॥
कुपित-शिखरिकन्या-चित्त-शीतांशुकान्त-
द्रुतिषु शशिमयूखैः सुन्दरैर्मन्दहासैः ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभय-निवृत्तिं साम्बमूर्ति-र्विधत्ताम् ॥ २२॥
प्रणमति विहरद्भिस्तत्र सम्प्रीति-दत्त-
प्रविमल-तरहार-भ्रान्तिदै-र्मन्दहासैः ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभय-निवृत्तिं साम्बमूर्ति-र्विधत्ताम् ॥ २३॥
स्फुटविशकलितार्या-तुङ्गवक्षोज-कुम्भ-
श्रित-कुवलय-मालेनामलेन स्मितेन ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभय-निवृत्तिं साम्बमूर्ति-र्विधत्ताम् ॥ २४॥
स्फुरदधर-रुचिश्री-सङ्गिना पद्मराग-
द्युति-कवचित-हीराभेन मन्दस्मितेन ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ २५॥
सुकृति-हृदयसौध-प्रोल्लसच्चन्द्रिकाभिः
दरहसित-रुचीभि-र्दारितार्तिच्छटाभिः ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभय-निवृत्तिं साम्बमूर्ति-र्विधत्ताम् ॥ २६॥
कमल-जठर-निर्यच्चन्द्रिका-भ्रान्तिकृद्भिः
शुभतर-दरहासैराननान्निःसरद्भिः ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभय-निवृत्तिं साम्बमूर्ति-र्विधत्ताम् ॥ २७॥
श्रितजन-घनपुण्य-श्रेणिमल्ली-मतल्ली-
कुसुम-समुदयेनोदार-मन्दस्मितेन ।
अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः
सकलभय-निवृत्तिं साम्बमूर्ति-र्विधत्ताम् ॥ २८॥
तारावली-स्तुतिमिमां तरुणेन्दुमौलेः
शृण्वन्ति ये भुवि पठन्ति शिवः स तेषाम् ।
दीर्घायुरुन्नत-विभूति-सुतर्द्धि-शम्भु-
भक्त्याद्यभीष्टमखिलं प्रददाति हृष्टः ॥ २९॥
॥ इति श्रीश्रीधरवेङ्कटेशार्यकृतौ तारावलीस्तोत्रं सम्पूर्णम् ॥
In verse 3, नगदुहितृ means daughter of the mountain
The hyphens in second version are added to
help beginners understand how the words
are split.
Encoded by Shree Devi Kumar
Proofread by Shree Devi Kumar, Rajani Arjun Shankar