तण्डिऋषिकृतं शिवस्तोत्रम्

तण्डिऋषिकृतं शिवस्तोत्रम्

स दृष्टवान्महादेवमस्तौषीच्च स्तवैर्विभुम् । पवित्राणां पवित्रस्त्वं गतिर्गतिमतां वर । अत्युग्रं तेजसां तेजस्तपसां परमं तपः ॥ १३॥ विश्वावसुहिरण्याक्षपुरुहूतनमस्कृत । भूरिकल्याणद विभो पुरुसत्य नमोऽस्तु ते ॥ १४॥ जातीमरणभीरूणां यतीनां यततां विभो । निर्वाणद सहस्रांशो नमस्तेऽस्तु सुखाश्रय ॥ १५॥ ब्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षयः । न विदुस्त्वां तु तत्त्वेन कुतो वेत्स्यामहे वयम् ॥ १६॥ त्वत्तः प्रवर्तते कालस्त्वयि कालश्च लीयते । कालाख्यः पुरुषाख्यश्च ब्रह्माख्यश्च त्वमेव हि ॥ १७॥ तनवस्ते स्मृतास्तिस्रः पुराणज्ञैः सुरर्षिभिः । अधिपौरुषमध्यात्ममधिभूताधिदैवतम् । अधिलोक्याधिविज्ञानमधियज्ञस्त्वमेव हि ॥ १८॥ त्वां विदित्वाऽऽत्मदेहस्थं दुर्विदं दैवतैरपि । विद्वांसो यान्ति निर्मुक्ताः परं भावमनामयम् ॥ १९॥ अनिच्छतस्तव विभो जन्ममृत्युरनेकतः । द्वारं त्वं स्वर्गमोक्षाणामाक्षेप्ता त्वं ददासि च ॥ २०॥ त्वमेव मोक्षः स्वर्गश्च कामः क्रोधस्त्वमेव हि । सत्त्वं रजस्तमश्चैव अधश्चोर्ध्वं त्वमेव हि ॥ २१॥ ब्रह्मा विष्णुश्च रुद्रश्च स्कन्देन्द्रौ सविता यमः । वरुणेन्दू मनुर्धाता विधाता त्वं धनेश्वरः ॥ २२॥ भूर्वायुर्ज्योतिरापश्च वाग्बुद्धिस्त्वं मतिर्मनः । कर्म सत्यानृते चोभे त्वमेवास्ति च नास्ति च ॥ २३॥ इन्द्रियाणीन्द्रियार्थाश्च तत्परं प्रकृतेर्ध्रुवम् । विश्वाविश्वपरो भावश्चिन्त्याचिन्त्यस्त्वमेव हि ॥ २४॥ यच्चैतत्परमं ब्रह्म यच्च तत्परमं पदम् । या गतिः साङ्ख्ययोगानां स भवान्नात्र संशयः ॥ २५॥ नूनमद्य कृतार्थाः स्म नूनं प्राप्ताः सतां गतिम् । यां गतिं प्राप्नुवन्तीह ज्ञाननिर्मलबुद्धयः ॥ २६॥ अहो मूढाः स्म सुचिरमिमं कालमचेतसः । यन्न विद्मः परं देवं शाश्वतं यं विदुर्बुधाः ॥ २७॥ सोऽयमासादितः साक्षाद्बहुभिर्जन्मभिर्मया । भक्तानुग्रहकृद्देवो यं ज्ञात्वामृतमश्नुते ॥ २८॥ देवासुरमनुष्याणां यच्च गुह्यं सनातनम् । गुहायां निहितं ब्रह्म दुर्विज्ञेयं सुरैरपि ॥ २९॥ स एष भगवान्देवः सर्वकृत्सर्वतोमुखः । सर्वात्मा सर्वदर्शी च सर्वगः सर्ववेदिता ॥ ३०॥ प्राणकृत्प्राणभृत्प्राणी प्राणदः प्राणिनां गतिः । देहकृद्देहभृद्देही देहभुग्देहिनां गतिः ॥ ३१॥ अध्यात्मगतिनिष्ठानां ध्यानिनामात्मवेदिनाम् । अपुनर्मारकामानां या गतिः सोऽयमीश्वरः ॥ ३२॥ अयं च सर्वभूतानां शुभाशुभगतिप्रदः । अयं च जन्ममरणे विदध्यात्सर्वजन्तुषु ॥ ३३॥ अयं च सिद्धिकामानामृषीणां सिद्धिदः प्रभुः । अयं च मोक्षकामानां द्विजानां मोक्षदः प्रभुः ॥ ३४॥ भूराद्यान्सर्वभुवनानुत्पाद्य सदिवौकसः । विभर्ति देवस्तनुभिरष्टाभिश्च ददाति च ॥ ३५॥ अतः प्रवर्तते सर्वमस्मिन्सर्वं प्रतिष्ठितम् । अस्मिंश्च प्रलयं याति अयमेकः सनातनः ॥ ३६॥ अयं स सत्यकामानां सत्यलोकः परः सताम् । अपवर्गश्च मुक्तानां कैवल्यं चात्मवादिनाम् ॥ ३७॥ अयं ब्रह्मादिभिः सिद्धैर्गुहायां गोपितः प्रभुः । देवासुरमनुष्याणां न प्रकाशो भवेदिति ॥ ३८॥ तं त्वां देवासुरनरास्तत्त्वेन न विदुर्भवम् । मोहिताः खल्वनेनैव हृच्छयेन प्रवेशिताः ॥ ३९॥ ये चैनं सम्प्रपद्यन्ते भक्तियोगेन भारत । तेषामेवात्मनात्मानं दर्शयत्येष हृच्छयः ॥ ४०॥ यं ज्ञात्वा न पुनर्जन्म मरणं चापि विद्यते । यं विदित्वा परं वेद्यं वेदितव्यं न विद्यते ॥ ४१॥ यं लब्ध्वा परमं लाभं मन्यते नाधिकं पुनः । प्राणसूक्ष्मां परां प्राप्तिमागच्छत्यक्षयावहाम् ॥ ४२॥ यं साङ्ख्या गुणतत्त्वज्ञाः साङ्ख्यशास्त्रविशारदाः । सूक्ष्मज्ञानरताः पूर्वं ज्ञात्वा मुच्यन्ति बन्धनैः ॥ ४३॥ यं च वेदविदो वेद्यं वेदान्तेषु प्रतिष्ठितम् । प्राणायामपरा नित्यं यं विशन्ति जपन्ति च ॥ ४४॥ अयं स देवयानानामादित्यो द्वारमुच्यते । अयं च पितृयानानां चन्द्रमा द्वारमुच्यते ॥ ४५॥ एष कालगतिश्चित्रा संवत्सरयुगादिषु । भावाभावौ तदात्वे च अयने दक्षिणोत्तरे ॥ ४६॥ एवं प्रजापतिः पूर्वमाराध्य बहुभिः स्तवैः । वरयामास पुत्रत्वे नीललोहितसंज्ञितम् ॥ ४७॥ ऋग्भिर्यमनुशंसन्ति तन्त्रे कर्मणि बह्वृचः । यजुर्भिर्यं त्रिधा वेद्यं जुह्वत्यध्वर्यवोऽध्वरे ॥ ४८॥ सामभिर्यं च गायन्ति सामगाः शुद्धबुद्धयः । यज्ञस्य परमा योनिः पतिश्चायं परः स्मृतः ॥ ४९॥ रात्र्यहःश्रोत्रनयनः पक्षमासशिरोभुजः । ऋतुवीर्यस्तपो धैर्यो ह्यब्दगुह्योरुपादवान् ॥ ५०॥ मृत्युर्यमो हुताशश्च कालः संहारवेगवान् । कालस्य परमा योनिः कालश्चायं सनातनः ॥ ५१॥ चन्द्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना । ध्रुवः सप्तर्षयश्चैव भुवनाः सप्त एव च ॥ ५२॥ प्रधानं महदव्यक्तं विशेषान्तं सवैकृतम् । ब्रह्मादि स्तम्बपर्यन्तं भूतादि सदसच्च यत् ॥ ५३॥ अष्टौ प्रकृतयश्चैव प्रकृतिभ्यश्च यत्परम् । अस्य देवस्य यद्भागं कृत्स्नं सम्परिवर्तते ॥ ५४॥ एतत्परममानन्दं यत्तच्छाश्वतमेव च । एषा गतिर्विरक्तानामेष भावः परः सताम् ॥ ५५॥ एतत्पदमनुद्विग्नमेतद्ब्रह्म सनातनम् । शास्त्रवेदाङ्गविदुषामेतद्ध्यानं परं पदम् ॥ ५६॥ इयं सा परमा काष्ठा इयं सा परमा कला । इयं सा परमा सिद्धिरियं सा परमा गतिः ॥ ५७॥ इयं सा परमा शान्तिरियं सा निर्वृतिः परा । यं प्राप्य कृतकृत्याः स्म इत्यमन्यन्त वेधसः ॥ ५८॥ इयं तुष्टिरियं सिद्धिरियं श्रुतिरियं स्मृतिः । अध्यात्मगतिनिष्ठानां विदुषां प्राप्तिरव्यया ॥ ५९॥ यजतां यज्ञकामानां यज्ञैर्विपुलदक्षिणैः । या गतिर्दैवतैर्दिव्या सा गतिस्त्वं सनातन ॥ ६०॥ जप्यहोमव्रतैः कृच्छ्रैर्नियमैर्देहपातनैः । तप्यतां या गतिर्देव वैराजे सा गतिर्भवान् ॥ ६१॥ कर्मन्यासकृतानां च विरक्तानां ततस्ततः । या गतिर्ब्रह्मभवने सा गतिस्त्वं सनातन ॥ ६२॥ अपुनर्मारकामानां वैराग्ये वर्ततां परे । विकृतीनां लयानां च सा गतिस्त्वं सनातन ॥ ६३॥ ज्ञानविज्ञाननिष्ठानां निरुपाख्या निरञ्जना । कैवल्या या गतिर्देव परमा सा गतिर्भवान् ॥ ६४॥ वेदशास्त्रपुराणोक्ताः पञ्चैता गतयः स्मृताः । त्वत्प्रसादाद्धि लभ्यन्ते न लभ्यन्तेऽन्यथा विभो ॥ ६५॥ इति तण्डिस्तपोयोगात्तुष्टावेशानमव्ययम् । जगौ च परमं ब्रह्म यत्पुरा लोककृज्जगौ ॥ ६६॥ इति महाभारते अनुशासनपर्वणि १६ अध्यायान्तर्गतं तण्डिऋषिकृतं शिवस्तोत्रं सम्पूर्णम् । महाभारत । अनुपर्व । अध्याय १६/१३-६५॥ mahAbhArata . anuparva . adhyAya 16/13-65.. Proofread by PSA Easwaran
% Text title            : Tandirishikritam Shiva Stotram
% File name             : taNDiRRiShikRRitaMshivastotram.itx
% itxtitle              : shivastotram (taNDiRiShikRitaM mahAbhAratAntargatam sa dRiShTavAnmahAdevamastauShIchcha stavairvibhum)
% engtitle              : taNDiRRiShikRRitaM shivastotram
% Category              : shiva, mahAbhArata, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : mahAbhArata | anuparva | adhyAya 16/13-65||
% Indexextra            : (Scans 1, 2, 3, 4, 5, Gujarati, Bengali, Hindi)
% Latest update         : November 15, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org