तण्डिऋषिकृतं शिवस्तोत्रम्
स दृष्टवान्महादेवमस्तौषीच्च स्तवैर्विभुम् ।
पवित्राणां पवित्रस्त्वं गतिर्गतिमतां वर ।
अत्युग्रं तेजसां तेजस्तपसां परमं तपः ॥ १३॥
विश्वावसुहिरण्याक्षपुरुहूतनमस्कृत ।
भूरिकल्याणद विभो पुरुसत्य नमोऽस्तु ते ॥ १४॥
जातीमरणभीरूणां यतीनां यततां विभो ।
निर्वाणद सहस्रांशो नमस्तेऽस्तु सुखाश्रय ॥ १५॥
ब्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षयः ।
न विदुस्त्वां तु तत्त्वेन कुतो वेत्स्यामहे वयम् ॥ १६॥
त्वत्तः प्रवर्तते कालस्त्वयि कालश्च लीयते ।
कालाख्यः पुरुषाख्यश्च ब्रह्माख्यश्च त्वमेव हि ॥ १७॥
तनवस्ते स्मृतास्तिस्रः पुराणज्ञैः सुरर्षिभिः ।
अधिपौरुषमध्यात्ममधिभूताधिदैवतम् ।
अधिलोक्याधिविज्ञानमधियज्ञस्त्वमेव हि ॥ १८॥
त्वां विदित्वाऽऽत्मदेहस्थं दुर्विदं दैवतैरपि ।
विद्वांसो यान्ति निर्मुक्ताः परं भावमनामयम् ॥ १९॥
अनिच्छतस्तव विभो जन्ममृत्युरनेकतः ।
द्वारं त्वं स्वर्गमोक्षाणामाक्षेप्ता त्वं ददासि च ॥ २०॥
त्वमेव मोक्षः स्वर्गश्च कामः क्रोधस्त्वमेव हि ।
सत्त्वं रजस्तमश्चैव अधश्चोर्ध्वं त्वमेव हि ॥ २१॥
ब्रह्मा विष्णुश्च रुद्रश्च स्कन्देन्द्रौ सविता यमः ।
वरुणेन्दू मनुर्धाता विधाता त्वं धनेश्वरः ॥ २२॥
भूर्वायुर्ज्योतिरापश्च वाग्बुद्धिस्त्वं मतिर्मनः ।
कर्म सत्यानृते चोभे त्वमेवास्ति च नास्ति च ॥ २३॥
इन्द्रियाणीन्द्रियार्थाश्च तत्परं प्रकृतेर्ध्रुवम् ।
विश्वाविश्वपरो भावश्चिन्त्याचिन्त्यस्त्वमेव हि ॥ २४॥
यच्चैतत्परमं ब्रह्म यच्च तत्परमं पदम् ।
या गतिः साङ्ख्ययोगानां स भवान्नात्र संशयः ॥ २५॥
नूनमद्य कृतार्थाः स्म नूनं प्राप्ताः सतां गतिम् ।
यां गतिं प्राप्नुवन्तीह ज्ञाननिर्मलबुद्धयः ॥ २६॥
अहो मूढाः स्म सुचिरमिमं कालमचेतसः ।
यन्न विद्मः परं देवं शाश्वतं यं विदुर्बुधाः ॥ २७॥
सोऽयमासादितः साक्षाद्बहुभिर्जन्मभिर्मया ।
भक्तानुग्रहकृद्देवो यं ज्ञात्वामृतमश्नुते ॥ २८॥
देवासुरमनुष्याणां यच्च गुह्यं सनातनम् ।
गुहायां निहितं ब्रह्म दुर्विज्ञेयं सुरैरपि ॥ २९॥
स एष भगवान्देवः सर्वकृत्सर्वतोमुखः ।
सर्वात्मा सर्वदर्शी च सर्वगः सर्ववेदिता ॥ ३०॥
प्राणकृत्प्राणभृत्प्राणी प्राणदः प्राणिनां गतिः ।
देहकृद्देहभृद्देही देहभुग्देहिनां गतिः ॥ ३१॥
अध्यात्मगतिनिष्ठानां ध्यानिनामात्मवेदिनाम् ।
अपुनर्मारकामानां या गतिः सोऽयमीश्वरः ॥ ३२॥
अयं च सर्वभूतानां शुभाशुभगतिप्रदः ।
अयं च जन्ममरणे विदध्यात्सर्वजन्तुषु ॥ ३३॥
अयं च सिद्धिकामानामृषीणां सिद्धिदः प्रभुः ।
अयं च मोक्षकामानां द्विजानां मोक्षदः प्रभुः ॥ ३४॥
भूराद्यान्सर्वभुवनानुत्पाद्य सदिवौकसः ।
विभर्ति देवस्तनुभिरष्टाभिश्च ददाति च ॥ ३५॥
अतः प्रवर्तते सर्वमस्मिन्सर्वं प्रतिष्ठितम् ।
अस्मिंश्च प्रलयं याति अयमेकः सनातनः ॥ ३६॥
अयं स सत्यकामानां सत्यलोकः परः सताम् ।
अपवर्गश्च मुक्तानां कैवल्यं चात्मवादिनाम् ॥ ३७॥
अयं ब्रह्मादिभिः सिद्धैर्गुहायां गोपितः प्रभुः ।
देवासुरमनुष्याणां न प्रकाशो भवेदिति ॥ ३८॥
तं त्वां देवासुरनरास्तत्त्वेन न विदुर्भवम् ।
मोहिताः खल्वनेनैव हृच्छयेन प्रवेशिताः ॥ ३९॥
ये चैनं सम्प्रपद्यन्ते भक्तियोगेन भारत ।
तेषामेवात्मनात्मानं दर्शयत्येष हृच्छयः ॥ ४०॥
यं ज्ञात्वा न पुनर्जन्म मरणं चापि विद्यते ।
यं विदित्वा परं वेद्यं वेदितव्यं न विद्यते ॥ ४१॥
यं लब्ध्वा परमं लाभं मन्यते नाधिकं पुनः ।
प्राणसूक्ष्मां परां प्राप्तिमागच्छत्यक्षयावहाम् ॥ ४२॥
यं साङ्ख्या गुणतत्त्वज्ञाः साङ्ख्यशास्त्रविशारदाः ।
सूक्ष्मज्ञानरताः पूर्वं ज्ञात्वा मुच्यन्ति बन्धनैः ॥ ४३॥
यं च वेदविदो वेद्यं वेदान्तेषु प्रतिष्ठितम् ।
प्राणायामपरा नित्यं यं विशन्ति जपन्ति च ॥ ४४॥
अयं स देवयानानामादित्यो द्वारमुच्यते ।
अयं च पितृयानानां चन्द्रमा द्वारमुच्यते ॥ ४५॥
एष कालगतिश्चित्रा संवत्सरयुगादिषु ।
भावाभावौ तदात्वे च अयने दक्षिणोत्तरे ॥ ४६॥
एवं प्रजापतिः पूर्वमाराध्य बहुभिः स्तवैः ।
वरयामास पुत्रत्वे नीललोहितसंज्ञितम् ॥ ४७॥
ऋग्भिर्यमनुशंसन्ति तन्त्रे कर्मणि बह्वृचः ।
यजुर्भिर्यं त्रिधा वेद्यं जुह्वत्यध्वर्यवोऽध्वरे ॥ ४८॥
सामभिर्यं च गायन्ति सामगाः शुद्धबुद्धयः ।
यज्ञस्य परमा योनिः पतिश्चायं परः स्मृतः ॥ ४९॥
रात्र्यहःश्रोत्रनयनः पक्षमासशिरोभुजः ।
ऋतुवीर्यस्तपो धैर्यो ह्यब्दगुह्योरुपादवान् ॥ ५०॥
मृत्युर्यमो हुताशश्च कालः संहारवेगवान् ।
कालस्य परमा योनिः कालश्चायं सनातनः ॥ ५१॥
चन्द्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना ।
ध्रुवः सप्तर्षयश्चैव भुवनाः सप्त एव च ॥ ५२॥
प्रधानं महदव्यक्तं विशेषान्तं सवैकृतम् ।
ब्रह्मादि स्तम्बपर्यन्तं भूतादि सदसच्च यत् ॥ ५३॥
अष्टौ प्रकृतयश्चैव प्रकृतिभ्यश्च यत्परम् ।
अस्य देवस्य यद्भागं कृत्स्नं सम्परिवर्तते ॥ ५४॥
एतत्परममानन्दं यत्तच्छाश्वतमेव च ।
एषा गतिर्विरक्तानामेष भावः परः सताम् ॥ ५५॥
एतत्पदमनुद्विग्नमेतद्ब्रह्म सनातनम् ।
शास्त्रवेदाङ्गविदुषामेतद्ध्यानं परं पदम् ॥ ५६॥
इयं सा परमा काष्ठा इयं सा परमा कला ।
इयं सा परमा सिद्धिरियं सा परमा गतिः ॥ ५७॥
इयं सा परमा शान्तिरियं सा निर्वृतिः परा ।
यं प्राप्य कृतकृत्याः स्म इत्यमन्यन्त वेधसः ॥ ५८॥
इयं तुष्टिरियं सिद्धिरियं श्रुतिरियं स्मृतिः ।
अध्यात्मगतिनिष्ठानां विदुषां प्राप्तिरव्यया ॥ ५९॥
यजतां यज्ञकामानां यज्ञैर्विपुलदक्षिणैः ।
या गतिर्दैवतैर्दिव्या सा गतिस्त्वं सनातन ॥ ६०॥
जप्यहोमव्रतैः कृच्छ्रैर्नियमैर्देहपातनैः ।
तप्यतां या गतिर्देव वैराजे सा गतिर्भवान् ॥ ६१॥
कर्मन्यासकृतानां च विरक्तानां ततस्ततः ।
या गतिर्ब्रह्मभवने सा गतिस्त्वं सनातन ॥ ६२॥
अपुनर्मारकामानां वैराग्ये वर्ततां परे ।
विकृतीनां लयानां च सा गतिस्त्वं सनातन ॥ ६३॥
ज्ञानविज्ञाननिष्ठानां निरुपाख्या निरञ्जना ।
कैवल्या या गतिर्देव परमा सा गतिर्भवान् ॥ ६४॥
वेदशास्त्रपुराणोक्ताः पञ्चैता गतयः स्मृताः ।
त्वत्प्रसादाद्धि लभ्यन्ते न लभ्यन्तेऽन्यथा विभो ॥ ६५॥
इति तण्डिस्तपोयोगात्तुष्टावेशानमव्ययम् ।
जगौ च परमं ब्रह्म यत्पुरा लोककृज्जगौ ॥ ६६॥
इति महाभारते अनुशासनपर्वणि १६ अध्यायान्तर्गतं
तण्डिऋषिकृतं शिवस्तोत्रं सम्पूर्णम् ।
महाभारत । अनुपर्व । अध्याय १६/१३-६५॥
mahAbhArata . anuparva . adhyAya 16/13-65..
Proofread by PSA Easwaran