तक्षकादिनागकृता पाताललिङ्गस्तुतिः
(शिवरहस्यान्तर्गते भीमाख्ये)
तक्षकः (उवाच)
शम्भो विरिञ्चिवरमौलिकपालपाणे
चञ्चत्सुधांशुमकुटोज्ज्वलितोत्तमाङ्ग ।
मां मोचयाशु दुरितात्परिवञ्चकेश
देवस्त्वमेव भगवांश्च कुलुञ्चनाथः ॥ ५॥
मृडं दृढतरं हृदा सदयमिन्दुचूडं हृदा
भजामि भसितोज्ज्वलं हृदयपद्मसद्मान्तरे ।
भुजङ्गवरकङ्कणक्वणननिःस्वनाङ्घ्रिप्रभा-
विभासिनटनानतं जगदुदारसत्ताण्डवम् ॥ ६॥
अनन्तः (उवाच)
भस्माङ्गराग धृतबालकुरङ्ग सङ्ग
भालस्फुलिङ्ग हर (कृत) नेत्रपतङ्गलिङ्ग ।
गङ्गान्तरङ्ग महदिन्दुकृतोत्तमाङ्ग
मातङ्गकृत्तिभुजगाङ्गद हार पाहि ॥ १०॥
पापानङ्गमतङ्गभङ्गसुमहालिङ्गस्थ शम्भो सदा
शाङ्गाङ्गस्थमहोक्षसङ्गभरितानन्दाङ्ग गङ्गाधर
मां पाह्यद्य हरान्धकस्मरहारमेयप्रभावेश्वर
विश्वाधीश्वर चन्द्रशेखर विभो कारुण्यदृक्सङ्गतः ॥
कम्बलाश्वतरावूचतुः
भगवन्मदशमनाद्यवैद्य वेद-
प्रतिपाद्येश्वर विद्ययाभिवेद्य ।
त्वं पर्णशद्य सुमहन् च महेशनाद्य
आलाद्य सर्वतनुगोऽपि अभेद्य शम्भो ॥ १४॥
तं कम्बलाश्वतरगीतसुसामसीम-
श्रीवामदेव वरसाम रथन्तरेड्यम् ।
श्रीव्योमकेशमुमया परिपूज्यबिल्वै-
स्तौ तुष्टुवा भुजगौ महेश्वरम् ॥ १५॥
एलापत्रः (उवाच) ।
वन्दे कुरङ्गकरसङ्ग भवोरुभङ्गं
भस्मभिभूषितमनङ्गमतङ्गभङ्गम् ।
गङ्गातरङ्गविलसज्जटिलोत्तमाङ्गं
श्रीलिङ्गमेतदगजाहृदयान्तरङ्गम् ॥ १८॥
एलापत्रस्त्रिणेत्रं स्वकफणिविलसद्धन्यगात्रोरुवेष्टै-
स्तल्लिङ्गाकण्ठलग्नो विधृतनवफणारत्नसञ्छादितश्रीः ।
बिल्वैश्चन्दनलेपसुन्दरमहाकायैश्च शीतैः शिवं
सन्तोष्यानुदिनं वसत्युरगपः पुण्ये प्रदोषेऽपि च ॥ १९॥
कार्कोटकः उवाच ।
श्रीनीलकण्ठ सितभस्मवरावकुण्ठ
वैकुण्ठनाथनयनार्चित पादपद्म ।
उत्कण्ठभावुकहृदा परिचिन्तनीय
पादाम्बुजे परिलुठामि च सन्नकण्ठः ॥ २२॥
धृतराष्ट्रः (उवाच)
हर हर गरकण्ठ पार्वतीश
त्रिदशामेयगुणाकर प्रसीद ।
हर हर शितिकण्ठ सामिसोमो -
ज्ज्वलितोत्तंस यमीन्द्रचित्तहंस ॥ २५॥
गुलिकः (उवाच)
सशङ्खचूडः(डं) शशिचूडमीश-
मीड्यं सदा वेदवचोभिरेव ।
भस्माङ्गरागच्छविसन्निकर्षा-
द्विकर्षयत्येव च ततोऽन्धकारम् ॥ २७॥
(द्विकर्षयन्तं च मनोऽन्धकारम्) ॥२७॥
देव देव परमेश्वर शम्भो
विश्वनाथ मम नाथ सनाथम् ।
मां कुरुष्व दययाद्य कृपालो
मन्मथान्तक विभो शशिचूड ॥ २८॥
शङ्खचूडः (उवाच)
शम्भो कन्दर्पसर्पज्वरहर पुरहन् पाहिमामीश दुःखात्
दुर्वाराखर्व(नल्प)गर्वं जनिमृतिविवशं रोगपापादियुक्तम् ।
कल्पानल्पजलोद्भवोद्भवमहासृष्टौ लुठन्तं सदा
त्वन्मौलिस्रगलङ्कृताङ्गकमहालिङ्गोत्तमाङ्ग प्रभो ॥ ३१॥
(त्वं मां मौलिस्रगात्मना कुरु महालिङ्गोत्तमाङ्गे प्रभो) ॥ ३१॥
पिचण्डिलः (उवाच)
मस्ताजस्रगलङ्कृताङ्गक महासर्पाङ्गभूषोज्ज्वल
नेत्रोन्मेषनिमेषणेषितजगद्रात्रीशचूडोज्ज्वल ।
पाहीश त्रिदशोत्तमोत्तमा सदा सामौक सीमास्तुत
कामाङ्गप्रहरावकामद सदा मां वामदेव प्रभो ॥ ३३॥
वारणो ह्युरगेन्द्रोऽसौ वारणत्वग्ववसा(वरा)र्चकः(चितः) ।
निवारणकरं देवं पापनाशकरं परम् ॥ ३४॥
वारणः (उवाच)
पाहीन्दुद्युतिजूटकूट(नाक) तटिनीगर्तादिनिर्वापण
त्वं कल्याणनगात्तसत्करधनो जेता जगत्कारणम् ।
(त्वं कल्याणनगात्तहस्तकमलो जेता जगत्कारणम्) ।
भस्माहीन(न्दु)सुभूषणोत्तम सदा कामाङ्गसंहारण
सर्वप्राणहरान्तकप्रहरणामेयाङ्घ्रिपद्मारुण ॥ ३६॥
द्रतिकः (उवाच)
रामासंहननार्धकायविलसत्सोमोज्ज्वलन्मूर्धक
धूतोद्दामशिरः कपर्द सुमहाधूमाङ्कनेत्रोज्ज्वल ।
भूमानन्दघन प्रसीद भगवन् त्वं व्योमकेशः श्रुतेः (श्रुति)
सीमा(व्रातैः) संस्तुतपादपद्म मम हृत्कामप्रदाव प्रभो ॥ ३९॥
सर्पः (उवाच)
शिष्टार्चितं सकलकष्टहरं प्रकृष्ट-
मोक्षप्रदं किलसदा शिपिविष्टलिङ्गम् ।
अष्टाकृतिं च भजतां न हि दुष्टभावो
नष्टाशुभा भुवि भवन्ति सदैव सर्पाः ॥ ४१॥
वामनः (उवाच)
उच्चैर्घोषादिशेषक्षितिधरवरधृक् पोषिताशेषलोक
सृष्टिस्थित्यन्तकार्येष्वतितरमनिशं जागरूक प्रभो माम् ।
वेदात्तर्होत्तमादिशेषघोषितपदाम्भोजप्रभाभावतो
वेषाकारमिदं सदा त्रिभुवनं मन्ये किमन्येन मे ॥ ४३॥
खर्वटः (उवाच)
त्वद्भीषाभीषितास्ते सुरवरनिकराश्चन्द्रसूर्यानिलेन्द्रा-
स्त्वद्मासा भासतेदं जगदिदमखिलं लोकजालैर्महेश ।
(स्त्वद्मासा भाति सर्वं जगदिदमखिलैः लोकजालैर्महेश) ।
विष्णुब्रह्ममरुद्गणादिजनकः सोमोऽसि सर्वान्तरः
कस्त्वां स्तौति महेश सर्वतनुभाक् त्वं निर्गुणोऽस्यव्ययः ॥ ४६॥
वासुकिः (उवाच)
क्षयद्वीर काकोदरापारहार
स्फुत्स्फारकर्पूरगौरावहीर-
प्रभाजाल निर्मूलितालोलपाशा-
त्तकाल त्रिकालाकुलाकारमारव्यथासारसंहार ।
उद्धतदु(भस्मीकृत)त्रैपुराकार गङ्गाधरामेय-
मातङ्ग चर्माम्बर नीलोत्पलाकारकण्ठ स्फुर-
त्सान्द्र गौरीकुचाश्लेषगाढप्रभावाङ्ग सञ्जात
सङ्कण्टकाङ्ग प्रभो पाहि माम् ॥ ४८॥
सर्पाः (ऊचुः)
अस्माकं कुलदैवतं शशिकलाजूटानुकूटोद्यत-
स्फाराकारभूजङ्गहारवलयालङ्कार लिङ्गोत्तमम् ।
घोटीभूतमहागमान्तशिखरं जूटीकृताहीश्वरं
पाटीरद्रवसार चन्दनलसत्कोटीरमीक्षेमहि ॥ ५१॥
॥ इति शिवरहस्यान्तर्गते तक्षकादिनागकृता पाताललिङ्गस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः २९ सर्वनागकृतपाताललिङ्गपूजा । ५-५१॥
- .. shrIshivarahasyam . bhImAkhyaH aShTamAMshaH . adhyAyaH 29 sarvanAgakRRitapAtAlaliऽNgapUjA . 5-51..
Notes:
Nāga-s नागाः; that include Takṣaka तक्षक, Ananta अनन्त, Elāpati एलापति, Kambalāśvatara कम्बलाश्वतर, Kārkoṭaka कार्कोटक, Dhṛtarāṣṭra धृतराष्ट्र, Śaṅkhacūḍa शङ्खचूड, Picaṇḍila पिचण्डिल, Vāraṇa वारण, Dratika द्रतिक, Sarpa सर्प, Vāmana वामन, Kharvaṭa खर्वट, Vāsuki वासुकि, eulogize Śiva शिव via Śivaliṅga-s शिवलिङ्गाः that they had established in the Pātāla loka पाताल लोक with respective names - viz. Takṣakeśam तक्षकेशम्, Ananteśam अनन्तेशम्, Kārkoṭakeśvaram कार्कोटकेश्वरम्, Elāpatīśvaram एलापतीश्वरम्, Kārkoṭakeśvaram कार्कोटकेश्वरम्, Dhṛtarāṣṭreśvaram धृतराष्ट्रेश्वरम्, Gulikeśvaram गुलिकेश्वरम्, Śaṅkhacūḍeśvaram शङ्खचूडेश्वरम्, Picaṇḍīśam पिचण्डीशम् / Picaṇḍileśvaram पिचण्डिलेश्वरम्, Vāraṇeśam वारणेशम्, Drutīśvaram द्रुतीश्वरम्, Sarpeśam सर्पेशम्, Vāmaneśam वामनेशम्, Kharvāṭeśam खर्वाटेशम्, Vāsukīśānam वासुकीशानम्.
Sarpāḥ सर्पाः proclaim Śiva शिव as their Kuladevatā कुलदेवता.
Proofread by Ruma Dewan