गौतमकृता त्र्यम्बकेश्वरशिवप्रार्थना

गौतमकृता त्र्यम्बकेश्वरशिवप्रार्थना

Tryambakeshvara Shiva Prarthana by Gautama and Godavaryutpatti and Ahalya Pavana Kathanam गौतमकृता त्र्यम्बकेश्वरशिवप्रार्थना तथा गोदावर्युत्पत्त्येवमहल्यापावनकथनम् गौतमः - त्वद्भक्तिपावितस्याद्य स्नातुमम्भो महेश्वर । प्रदेहि पावनं पुण्यं लोकानामघनुत्तये ॥ ५२॥ भगीरथार्थं देवेश पूता गङ्गा (दत्ता गङ्गत) त्वया धृता सागराश्च तदम्भोभिः प्लावितास्ते दिवङ्गताः ॥ ५३॥ मत्पावनार्थं विश्वेश देहि पुण्यां नदीं शिवाम् । लोकानामपि देवेश पापतापविनाशिनीम् ॥ ५४॥ --- ईश्वरः - शिवे गौतमवाक्येन तत्स्तुत्या चापि हर्षितः । निसृष्टा मज्जटामूलान्मम पर्वतरूपिणः ॥ ५५॥ सा पपात महीपृष्ठे तरङ्गावलिभासुरा । मत्स्यकर्कटनक्राद्यैः प्लावयन्ती तटद्वयम् ॥ ५६॥ त्रियम्बकोत्तमाङ्गेन निर्जगामाथ सागरम् । तत्र ब्रह्मादयो देवा गन्धर्वोरगकिन्नराः ॥ ५७॥ विद्याधरप्सरोमुख्या नारदाद्या मुनीश्वराः । वैहायसेन मार्गेण समाजग्मुस्तदाम्बिके ॥ ५८॥ दृष्ट्वा तदाश्चर्यकरं गोदावर्युद्भवं तदा । त्रियम्बको महालिङ्गजटाजूटतरङ्गिताम् ॥ ५९॥ गोदावरीं तदा सर्वे दृष्ट्वा नत्वा महेश्वरम् । स्नात्वा तस्यां गौतमेन सिहसंस्थे बृहस्पतौ ॥ ६०॥ समुद्धूल्य तदाङ्गानि त्रिपुण्ड्रावलिभासुरा । त्रियम्बकेश्वरं देवाः सम्पूज्याथ प्रणम्य च ॥ ६१॥ बिल्वपत्रैः समभ्यर्च्य रुद्रसूक्तस्तदा सुराः । जहुः स्वपापजं तापं वृद्धगङ्गाजलाप्लवात् ॥ ६२॥ शिवलिङ्गोत्तमाङ्गोत्थपूतनद्युद्भवैर्जलैः । स्नात्वा स गौतमो विप्रस्तदाऽभून्मुक्तकिल्बिषः ॥ ६३॥ शिलारूपापि तस्पत्नी अहल्या शापिता शिवे । गोदावरीतरङ्गोत्थशीकरैर्धूतकिल्बिषा ॥ ६४॥ मासुरं स्वं तदा रूपं प्रापाश्चर्यकरं शिवे । पत्न्या समन्वितो देवि गौतमं मां तदाऽस्तुवत् ॥ ६५॥ --- गौतमः - त्रियम्बकं त्वा सुभगं सुगन्धिं पुष्टिवर्धनम् । यजामि सततं देवि मृत्युभीतोऽहमीश्वर ॥ ६६॥ महेश्वर महादेव चन्द्रचूड महेश्वर । नमस्ते पार्वतीकान्त प्रपन्नं पाहि मां सदा ॥ ६७॥ विश्वाधिक महेशान वृषभध्वज शङ्कर । नमस्ते रुद्र देवेश बाहुभ्यां ते नमो नमः ॥ ६८॥ धन्वने ते नमस्तुभ्यं जगतां पतये नमः । पत्तीनां पतये तुभ्यमन्नानां पतये नमः ॥ ६९॥ बभ्लुशाय नमस्तुभ्यं नमस्ते कृत्तिवाससे । नम उग्राय भीमाय नमः सोमाय शम्भवे ॥ ७०॥ नमस्ते सहमानाय अषाळ्हाय नमो नमः । नमः शिवाय शान्ताय नमः शिवतराय च ॥ ७१॥ गिरीशाय नमस्तुभ्यं त्र्यम्बकाय नमो नमः ॥ ७२॥ द्रापिन्हिरण्मय शरीर हिरण्यबाहो त्वामन्धसां पतिरिति प्रवदन्ति वेदाः । दारिद्र्यं मम दुष्कृतं च भगवन् सद्यो विनश्याधुना सम्पूर्ण धनधान्यगोगणशतैस्तूर्णं गृहं मे कुरु ॥ ७३॥ यो मां न नन्दस्वभिमानगर्वान्निभिन्दत्यनिन्द्यं तव पादसेविनम् । योऽस्मानहो द्वेष्टि च यं च द्विष्मः तं रुद्र जम्भे विदधामि शम्भो ॥ ७४॥ वाजादिप्रथितं महाफलगणं त्वत्पादुकाराधकं प्राप्यं देव दयानिधे चमकजापारार्थसंसूचितम् । भक्तिः शाम्भवपुङ्गवैस्तव सदा सग्धिः सपीतिश्च मे अक्षुच्चैवास्तु महेश तेऽद्य कृपया नैवेद्यसम्भोजने ॥ ७५॥ --- ईश्वरः - इत्थं स्तुत्वा गौतमोऽपि मां प्रणम्याम्बिके तदा । प्राह मां देव पूतोऽस्मि धन्योऽस्मीति मुहुर्मुहुः ॥ तल्लिङ्गमौलिसङ्गैकपूतया वृद्धगङ्गया ॥ ७६॥ दर्शनादखिलपापनाशकं स्पर्शनादखिलकामदं शुभम् । प्राशनाच्च निजबोधदायकं चन्द्रचूडचरणोदकं भजे ॥ ७७॥ इति स्तुत्वा प्रहृष्टात्मा त्र्यम्बके शिखरे मुनिः । तत्रोवास महादेव्य हल्यया च समन्वितः ॥ ७८॥ सूतः - इत्थं त्र्यम्बकभूधरोरुशिखरात् तुङ्गैस्तरङ्गैर्युता गङ्गा वृद्धतमा शिवाद्य शिरसो भूता जगत्पावनी । सा सर्वान्सुरसत्तमानथ मुदा शैवं मुनिं गौतमं पुष्णन्तीत्यघसङ्घभञ्जनकरी गङ्गेव गोदावरी ॥ ७९॥ ॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे गौतमकृता त्र्यम्बकेश्वरशिवप्रार्थना तथा गोदावर्युत्पत्त्येवमहल्यापावनकथनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः २१॥ - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 21.. Notes: Rishi Gautam worships Tryambakeshwara Shiva at Tryambaka Giri. Shiva releases Godavari (aka Vriddh Ganga) from His dreadlocks. Ahalya is relieved of her curse. The shloka numbers are maintained per the source text. Proofread by Ruma Dewan
% Text title            : Tryambakeshvara Shiva Prarthana by Gautama and Godavaryutpatti and Ahalya Pavana Kathanam
% File name             : tryambakeshvarashivaprArthanAtathAgodAvaryutpattyevaMahalyApAvanakathanamgautamakRRitA.itx
% itxtitle              : tryambakeshvarashivaprArthanA tathA godAvaryutpatti evaM ahalyA pAvanakathanaM gautamakRitA (shivarahasyAntargatA)
% engtitle              : tryambakeshvarashivaprArthanA tathA godAvaryutpatti evaM ahalyA pAvanakathanaM gautamakRitA
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 21||
% Indexextra            : (Scan)
% Latest update         : June 18, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org