तुम्बुरुप्रोक्ता शिवस्तुतिः
(शिवरहस्यान्तर्गते भीमाख्ये)
तुम्बुरुः (उवाच)
शर्व गर्वपरिपूरितकाम-
स्तोमबाणविनिवारक शम्भो ।
त्वत्पदाब्जकलनेन न कालः
कामकाय दमनाव्ययमूर्ते ॥ ४४॥
श्रीमत् त्रियम्बक सदाशिव वेदवेद्य
वैद्योत्तम प्रथमनाथ सुरासुरेड्य ।
श्रीविश्वनाथ मम नाथ समुद्धराशु
दुर्वारपापदवदग्धमिमं कृपालो ॥ ४५॥
स्वर्णवर्णकृतनेत्रकर्णजा-
पारहार गगनान्तरसंस्थ ।
ऊर्णनाभिरिव त्वद्गतमेत-
ज्जागतं विसृजसेऽत्सि च तूर्णम् ॥ ४६॥
शम्भुकर्णभरित स्तुतिजाते
भद्रकर्णकृतशङ्खनिनादैः ।
नन्दिवाद्यभरतानुगताप्लै-
र्नृत्तरङ्गमपि ते हृदयान्तः ॥ ४७॥
- -
इत्थं तत्स्तुतिजातेन वीतपापोऽभवत्क्षणात् । ४८.१
॥ इति शिवरहस्यान्तर्गते तुम्बुरुप्रोक्ता शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः २ चित्ररथशापनिवृत्तिः । ४४-४८.१॥
- .. shrIshivarahasyam . bhImAkhyaH aShTamAMshaH . adhyAyaH 2 chitrarathashApanivRRittiH . 44-48.1..
Proofread by Ruma Dewan