श्रीत्यागेश-महारथोत्सव-वर्णनपर-श्लोक-पञ्चरत्नं
दूरेत्या अपि कूपखानक-नयाद्-धूमानसो रोहणे
सोढ्वा दोषमनेन शीघ्रमुपसम्प्राप्य स्थलं पावनम् ।
नादर्शन्निह ये रथोत्सवमुमानाथस्य लक्ष्मीपुरे
चक्षुष्मत्सु जना न कार्यगणनास्ते तत्फलालाभतः ॥ १॥
पुरा चापो भूत्वा पुरहर-कराब्जोदरमगां
भुजङ्गेन्द्राकृष्टः कुटिल इति मेऽथापि गुणिनः ।
प्रथाऽऽसीदातस्तच्चरण-नलिनं न्यस्य हृदये
श्रुतो धन्यः स्यामित्यजनि कनकाद्रिः शिवरथः ॥ २॥
भूमानन्द-तनोर्महेश भवतो धामात्मकत्वादिव
श्रीमानेष रथः स्वयं भवति ते प्रेमास्पदं प्राणिनाम् ।
भौमानामविशेषतो रुचिभिदां सामान्यतस्तन्वतां
सामाथर्वण-ऋग्यजुर्मयहयः सोमागुहेश प्रभो ॥ ३॥
अध्यास-सिद्ध-यदभेदवशेन देहं
अत्यन्त-हेयमिदमप्यधिक-प्रियं नः ।
वस्तुस्वभाव-रुचिरं यदि तेन किञ्चिद्-
अध्यासितं तदिह कस्य न हि प्रियं स्यात् ॥ ४॥
आकर्षोद्योग-मात्रेऽप्यतिविरल-नृणां द्रावयत्याशुगस्तान्
भूयोभिर्भूरियत्नैर्भुवि मनुजगणैः कम्प्यते नो कथञ्चित् ।
त्यागेश त्वद्-रथोऽयं प्रथयति च ततः पारतन्त्र्यं परेषां
स्वातन्त्र्यं च स्वतस्ते श्रुतिशत-विदितं लौकिकानां गरीयान् ॥ ५॥
इति त्यागराजमखि विरचितं श्रीत्यागेश-महारथोत्सव-वर्णनपर-
श्लोक-पञ्चरत्नं सम्पूर्णम् ।
Author Tyagaraja Makhi (also known as Mannargudi
Raju Shastrigal or Mannargudi Periyava)
Encoded and proofread by Rajani Arjun Shankar