उपमन्युकृतं शिवस्तोत्रम्
जय शङ्कर पार्वतीपते मृड शम्भो शशिखण्डमण्डन ।
मदनान्तक भक्तवत्सल प्रियकैलास दयासुधाम्बुधे ॥ १९॥
सदुपायकथास्वपण्डितो हृदये दुःखशरेण खण्डितः ।
शशिखण्डशिखण्डमण्डनं शरणं यामि शरण्यमीश्वरम् ॥ २०॥
महतः परितः प्रसर्पतः तमसो दर्शनभेदिनो भिदे ।
दिननाथ इव स्वतेजसा हृदयव्योम्नि मनागुदेहि नः ॥ २१॥
न वयं तव चर्मचक्षुषा पदवीमप्यमित्रीक्षितुं क्षमाः ।
कृपयाऽभयदेन चक्षुपा सकलेनेश विलोकपाशु माम् ॥ २२॥
त्वदनुस्मृतिरेव पावनी स्तुतियुक्ता नहि वक्तुमीश सा ।
मधुरं हि पयः स्वभावतो ननु कीदृक्सितशर्करान्वितम् ॥ २३॥
सविषोऽप्यमृतायते भवान् शवमुण्डामरणोऽपि पावनः ।
भव एव भवान्तकः सतां समदृष्टिर्विषमेक्षणोऽपि सन् ॥ २४॥
अपि शूलधरो निरामयो दृढवैराग्यरतोऽपि रागवान् ।
अपि भैक्षचरो महेश्वर चरितं चित्रमिदं हि ते प्रभो ॥ २५॥
वितरत्यभिवाञ्छितं नृणां परिपृष्टः किल कल्पपादपः ।
हृदये स्वत एव धीमते नमतेऽभीष्टफलप्रदो भवान् ॥ २६॥
सहसैव भुजङ्गपाशवान्विनिगृह्णाति न यावदन्तकः ।
अभयं कुरु तावदाशु मे गतजीवस्य पुनः किमौपघैः ॥ २७॥
सविषैरिव भीमपन्नगैः विषयैरेभिरलं परीक्षितुम् ।
अमृतैरिव सम्भ्रमेण मामभिपिञ्चाशु दयावलोकनैः ॥ २८॥
मुनयो बहवोऽथ धन्यतां गमिताः स्वाभिमतार्थलाभतः ।
करुणाकर येन तेन मामवसन्नं ननु पश्य चक्षुपा ॥ २९॥
प्रणमाम्यथ यामि चापरं शरणं कं कृपणाभयप्रदम् ।
विरहीव विभो प्रियामयं परिपश्यामि भवन्मयं जगत् ॥ ३०॥
बहवो भवताऽनुकम्पिताः किमितीशान न माऽनुकम्पसे ।
दधता किमु मन्दराचलं परमाणुः कमठेन दुर्धरः ॥ ३१॥
अशुचि यदि मां नु मन्यसे किमिदं मूर्ध्नि कपालदाम ते ।
अथ शाठ्यमसाधुसङ्गमं विषलक्ष्मासि न कि द्विजिह्वभृत् ॥ ३२॥
विलुठाम्यवनौ किमाकुलः किमुगे हन्मि शिरो भिनद्मि वा ।
किमु रोदिमि रारटीमि वा कृपणं मां न यदीक्षसे प्रभो ॥ ३३॥
शिव सर्वग शर्व सर्वतः प्रणतो देव दयां कुरुष्व मे ।
नम ईश्वर नाथ दिक्पते पुनरेवेश नमो नमोस्तु ते ॥ ३४॥
क्व दृशं विदधामि किं करोम्यधितिष्ठामि कथं भयाकुलः ।
कनु तिष्ठसि रक्ष रक्ष मां मयि शम्भो शरणागतोऽस्मि ते ॥ ३५॥
शरणं तरुणेन्दुशेखरः शरणं मे गिरिराजकन्यका ।
शरणं पुनरेव तावुभौ शरणं नान्यदुपैमि दैवतः ॥ ३६॥
परलोकभयात्प्रतिक्षणं मे हृदयं मुह्यति मुग्धचन्द्रमौले ।
सदयं परिगृह्य साधु बन्धो कुरु मां निर्भयमर्भकं त्वदीयम् ॥ ३७॥
हर हर भव भीम भर्ग शम्भो त्रिनयन रुद्र महेश विश्व शम्भो ।
हर हर दुरितं त्रिशूलपाणे शिव शिव शङ्कर किङ्करस्तवाहम् ॥ ३८॥
यथा मृकण्डोस्तनयं यमारे यथैव पाण्डोस्तनयं मखारे ।
यथा शिलादस्य सुतं कृपाब्धे तथैत्र मां पाहि पिनाकपाणे ॥ ३९॥
- -
सूतः - (फलम्)
उपमन्युकृतं स्तोत्रं यः पठेच्शिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥ ४०॥
तत्स्तुत्या मोदितः शम्भुः तं प्राह विनयानतम् ।
देव्याः पश्यन्मुखाम्भोजं गणानां पश्यतां तदा ॥ ४१॥
॥ इति शिवरहस्यान्तर्गते शिवाख्ये उपमन्युकृतं शिवस्तोत्रं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः १२ । १९-४१॥
- .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 12 . 19-41..
Notes: Upamanyu उपमन्यु eulogizes Śiva शिव who appears to him, after due penance.
Proofread by Ruma Dewan