वामदेवकृतोपनिषत्स्तुतिनिरूपणम्
अहं विश्वाधीशो मनुरहमहो सूर्य इति व
अहं विश्वं सर्वं सुग्नमखिलं त्वच्छ्रुतिबलात् ।
उताहोस्विच्छम्भो निखिलमरुतां नायक विभो
भवत्पादाम्भोजोद्भवभजनपुण्याकरमतिः ॥ ३॥
पूर्णं पूर्णमदस्त्वदीयमहसा सम्पूर्णमेतज्जगत
त्वां पूर्णं समुपैति तूर्णमथ वै सम्पूर्णकामोऽधुना ।
पूर्णात्पूर्णमहार्णवप्रतिनिधिं तूर्णं हृदाकाशगं
त्वां (मत्वा) तार्णं जगदेव तस्य हृदये सम्पूर्णमातिष्ठते ॥ ४॥
ईशावास्यमिदं च सर्वमधुना त्वद्भानभातं सता-
मेकं द्वन्द्वविहीनमद्भुतमहो नेहास्ति नाना जगत् ।
आत्मैवेदमिदमुमाह्वयमिदं ब्रह्मेदमालोक्यतां
वेदान्तैर्गुरुबोधवाक्यजनितानन्दैस्त्वमात्मा विभुः ॥ ५॥
लोकद्वारमपावृतं मुनिगणप्राप्यं दुरापं सदा
दुष्टानां तु हिरण्यपात्रपिहितं सत्यस्य तद्वै मुखम् ।
तत्पश्येम भवत्कटाक्षलहरीपाथेयपान्थाः सदा
सम्राडदिचतुर्थलोकगतयः शम्भो त्वदीयार्चनात् ॥ ६॥
एष ब्रह्मैव शक्रः श्रुतिरियमधुना सर्वमेतद्विचित्रं
प्रज्ञानेत्रमितीरयत्यपि विभो ब्रह्मेदमात्मेत्यपि ।
शारीरादिषडूर्मिकृत्यरहितो देवस्त्वमीशानदृक्
दृश्यं भूतभवद्भविष्यमुखरं त्वय्येव विद्योतते ॥ ७॥
स्वामानन्दनिधि त्वदीयसहजानन्दोत्थसच्छीकराः
ब्रह्माद्या मुनयस्तथा यमिगणा जीवन्ति नो मात्रया ।
आकाशादिशरीरमद्वयघनं बुद्धयादिबोधप्रदं
ब्रह्माप्नोति परं त्वदीयकृपया जानासि त्वं त्वामनु ॥ ८॥
भीषैवोदेति भानुः सकलग्रहगणैः सप्तविप्रैश्च यक्षैः
वह्नीन्द्रावपि सूरसूनुरथ वै शम्भो त्वदीयाज्ञया ।
निःश्वासोऽपि भवत्कृतो हि भगवन साम्नामृचां याजुषां
आथर्वाणगणास्तदङ्गमखिलं त्वत्तो विभो निःसृतम् ॥ ९॥
यतो वाचां गुम्भः सह परिकरैरस्तमयते
मनोवाक्शम्भो तज्जडमखिलचापल्यजनकम् ।
अस्थूलोप्यनणुस्तथाप्यविदुषामङ्गुष्ठमात्रोऽन्तरा
नीवारोद्भवशुकसम्मितविभो पीताकृतिर्मासि वै ॥ १०॥
त्वमा काशकोशस्य चैतन्यदाता महाकाशमेतज्जगद्व्याप्य तिष्ठेत् ।
कुतो जातमाकाशमप्राणमित्थं न चानन्दलेशं समाप्नोति कश्चित् ॥ ११॥
त्वमात्मा वियद्वायुवह्निर्जलं क्ष्मा तवौषध्यजालं (ततौषध्यजालं) तदन्नं तु (पू) वर्षः ।
प्रमोदोऽथ मोदस्तथैवास्य पक्षौ त्वमीशान आनन्द आत्मा तुरीयः ॥ १२॥
त्वां सर्वान्तरगं तथापि विवशा मोहादिय वै श्रुति-
श्चात्मन्यावसथा दकल्पनमिदं द्वौ वा सुपर्णेत्यपि ।
एकस्तत्फलमत्ति साक्षिगतिको द्वित्वं कथं त्वद्गतं (साक्षिकतया द्वित्वं कथं भावये)
एकं त्वां तमसा परं सुकृतिनो जानन्ति बोधैर्हृदा ॥ १३॥
अस्तं द्वित्वनिवृत्तभावभवुके स्वात्मन्यखण्डात्मके
नानाकारमबुदबुद्धिजनकं भ्रान्त्या भयं जायते ।
ज्ञाते रज्जुनि सर्पभूत्कृतिभयं त्यक्त्वा जनो मोदते
उद्वत् त्वय्यखिलात्मके शिवतरे ज्ञाते भयं नास्ति हि ॥ १४॥
आधारमानन्दमखण्डबोधं यस्मिन लयं याति पुरत्रयं प्रभो ।
तस्मिन्मनः प्राणगतीन्द्रियाणि भूतानि पश्चापि च त्वां न विद्युः ॥ १५॥
यत्र त्वमात्मा भगवन्श्रुतिश्रुतः तत्केन किं पश्य महो गुणार्थान् ।
नद्यो यथा सरमाणाः समुद्रे तथेन्द्रियार्थस्त्वयि नाशमेति ॥ १६॥
ज्ञाते तथात्मन्यखिलं संविदः श्रुतिर्नवाभ्यासपरा वदत्यथार्थम् ।
वाचा समारम्भणमेव युक्त्या एकेन मृत्पिण्डमयेन सर्वम् ॥ १७॥
भूमात्वेव सुखं त्वदीयकृपया नाल्पे सुखं संसृतौ
नान्यद्यत्र विपश्यति प्रियतरं नान्यद्विजानात्यपि ।
भूम्यन्तर्गतमेव हाटकनिधिं नैवाप्नुवन्ते जना
ऊर्ध्वं सञ्चरतोऽप्यहोऽप्यहरहस्त्वामीश मोहात्सदा ॥ १८॥
आदित्यसोमदहनेषु तथैव वाचि अन्योन्यनाशमुपलक्ष्य जयादिकेषु ।
त्वं ज्योतिषां ज्योतिरनुत्तमोऽसि आत्मासि विश्वमखिलं त्वयि सन्निधत्ते ॥ १९॥
अन्तर्यामितया त्वमेव भगवन्जाड्यं जगत्सर्गजं
वारित्वं पृथिवीन्द्रियाणि च मनः सर्वं नियम्याखिलम् ।
त्वामेतेन विदन्ति बाह्यगतयः सूक्ष्मादिदृश्यं शिवं
तं त्वामन्तिकसंस्थितं मुहुरहो देवापि मुह्यन्ति वै ॥ २०॥
त्वां दृष्ट्वा हृदयाब्जगं मुनिगणाः शोकं तरन्तेऽखिलं
तेषां त्वं तमसो गणं भिद्यन्ति च ग्रन्थयः ।
सर्वाक्षिश्रुतिहस्तपादवदनः सर्वेषु भूताश्रयः
सर्वं विश्वमिदं विचित्रजनकं चावृत्य सन्तिष्ठसे ॥ २१॥
त्वं चक्षुषां चक्षुरसि श्रुतीढ्यः श्रुतेः श्रुतिः प्राणगणस्य प्राणः ।
त्वं वै मनस्यापि (?) मनो महेश सङ्गिष्वसङ्गस्त्वशरीरकोऽसि ॥ २२॥
अपाणिपादो मनसो दवीयः पश्यस्यचक्षुः स शृणोष्यकर्णः ।
त्वं वेत्सि सर्वं न विदन्ति हि त्वां त्वामाहुरग्र्यं पुरुषं पुराणम् ॥ २३॥
मनः परोऽसि प्रकृतेः परोऽसि बुद्धे परोऽसि महतः परोऽसि ।
अव्यक्तव्यक्तात्पुरुषात्परोऽसि काष्ठा गतिर्ब्रह्म पुच्छं स्वमीश ॥ २४॥
अशरीरस्त्वमसि प्रसिद्धकर्मा शरीरिणां नाशगतिक्रियासु ।
तस्मादवस्थारहितं च शम्भुं त्वां यो विजानाति न शोचते पुनः ॥ २५॥
सृष्टानि खानि परमेश विमोहनाय त्वय्येव देव जगतीष्वथ एक एव ।
तस्मात्परं पश्यति विश्वमूर्तेर्नात्मानमिच्छन्ति बहिर्मुखा जनाः ॥ २६॥
विश्वं दृश्यमिदं विभाति सकलं त्वय्येव विद्योतते
जाग्रत्स्वप्नसुषुप्तिषु प्रलयकृत्कोशादिहीनः सदा ।
त्वामात्मानमखण्डमिन्द्रियगणैरप्राप्यमाशा मुखं
नित्यं वाञ्छति ब्रह्म तद्धृदि सदा चानन्दलब्धं सुखम् ॥ २७॥
चतुर्थस्तुरीयः शिवोऽदेत आत्मा महाभूतदेहेष्वसङ्गः पुराणः ।
स सत्येव तन्नामरूपैर्गुणैर्वा शिवः पुरुषः केवलः कोशहीनः ॥ २८॥
अमेद्यो ह्यदाह्यस्तथा छेद्यहीनस्तवाद्यास्ति वाक्पाणिदेहादिबन्धः ।
स्वतन्त्रो विभुर्नित्यशुद्धो विभासस्वमासा जगज्जालमेतद्विमासि ॥ २९॥
यतो वा महाभूतसङ्घानि जातान्यसङ्ख्येयकर्माणि भिन्नानि नित्यम् ।
येनैव जीवन्ति विभान्ति देहेर्विदेहानि नान्यत्र सन्विष्ठतेऽन्ते ॥ ३०॥
तदेतत्त्रिनेत्रं विचित्रं पवित्रमुमाश्लिष्टमात्रार्धचन्द्रार्धचूडम् ।
विजिज्ञास्य तद्ब्रह्म नीरूपरूपं महारूपमेकं जगत्पालनाय ॥ ३१॥
स्वमात्मा त्वं ब्रह्म त्वमसि भगवन्घोरमखिलं
त्वया भेदं जानात्यविकलधिया यस्तु यमिराट् ।
अजानन्यश्चेत्थं त्वमसि च परादात्स तमनु ॥ ३२॥
एके त्वय्यद्वितीये जगदिदमखिलं नेह नानास्ति किञ्चित्
श्रुत्या युक्त्या गुरूक्त्या मननयुतधिया तत्ववाक्यात् तपोक्त्या ।
द्वित्व भीतिमहेश त्वयि भयजननी द्वासुपर्णादिवाक्यैः
मन्दान्सम्बोधयत्सा श्रुतिरियमधुना साक्षिणं त्वां फलादम् ॥ ३३॥
एषोऽन्तरादित्यगतो महेशो हिरण्यरूपः स हिरण्यकेशः ।
हिरण्यरेताश्च तथाम्बिकापतिः ध्यानैकगम्यस्तमसः परस्तात् ॥ ३४॥
एषोऽन्तर्याम्यमृतः पुराणः कविस्तथा प्राणभृत्प्राणहेतुः ।
त्वां ब्रह्ममन्वास उपासते चिरं मुक्त्यै धृतात्मान उतो महेशम् ॥ ३५॥
त्वं षोडशात्मा पुरुषः पुरीशयो न लोकदुःखैस्त्वमसङ्ग एकः ।
न सज्जसे तद्गुणभाववृत्तिषु स्थितोऽसि दूरे च तदन्तिकोऽसि ॥ ३६॥
अपाणिरादो गुणकर्महीनो गुहाहितो निष्कलस्त्वं तुरीयः ।
सत्यं तथाऽऽनन्दमयस्त्वमात्मा ज्ञानं सुखं संविदिति क्रमेण ॥ ३७॥
यदा तमस्त्वं न दिवा निशापि वा न सन्न चासच्छिव एव केवलः ।
त्वमक्षरं तत्सवितुर्वरेण्यं प्रज्ञा त्वदाज्ञावशतो विनिःसृता ॥ ३८॥
कोशातीतमखण्डमेकमरसं गन्धादिहीनं तदा
नश्यद्देहकदम्बकेषु नितरां नाशादिहीनं विभुम् ।
स्वात्मानं प्रियदेहजालरहितं तत्साक्षिणं सर्वदा
दृश्यं दर्शनदिग्भ्रमादिरहितं जानन्नरो मुच्यते ॥
क्वचिञ्जातं विश्वं क्वचिदपि विलीनं सुरगणैः
क्वचित्स्तब्धं दीनं क्वचिदपि च नादैकविवशम् ।
षडूर्मिप्राविद्धं त्वयि तु भगवन्नब्धि विलसत्तरङ्गा
द्योतन्ते न हि तु च भवांस्तद्गतगुणः (भगवान्स्तद्गतगुणः) ॥ ४०॥
स्वात्मानमानन्दमखण्डबोधमीशानमाद्यं जगतस्तस्थुषश्च ।
सर्वेन्द्रियानन्तगुणैर्विहीनं तत्सत्यमानन्दमजं महेश्वरम् ॥ ४१॥
त्वय्येवान्तः प्रविशति जगन्नामरूपैर्विचित्रं
गतोपाधिद्वन्द्वं पवनरहिताब्धिप्रतिनिमे ।
यथा नद्यः सर्वान् शरणगतयः सागरमहो
तथा नाम्ना रूपैः परमपुरुषे त्वय्यखिलदे ॥ ४२॥
यथोर्णनामिः सृजते तन्तुजालं जगद्विचित्रं सृजसि त्वमीश ।
अणोरणुस्त्वं महतो महीयान् अथापि च क्षत्रमथो नदन्ते ॥ ४३॥
वेदाहमेतं पुरुषं महान्तमादित्यवर्ण तमसः परस्तात् ।
ऋतं सत्यममृतं परं ब्रह्म धाम ज्ञानान्नान्यदस्तीह पन्थाः ॥ ४४॥
ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ।
ऊर्ध्वरेतं विरूपाक्षं विश्वरूपं नमाम्यहम् ॥ ४५॥
ये त्वा जगज्जगत्याहितं पदं यदेतद्विदुरमृतास्ते भवन्ति ।
त्वदज्ञानादिह जात्यादिधर्मैः निबन्धते जना दुःखिताः सदा ॥ ४६॥
ऋचो अक्षरे परमे त्वा महेशमलिङ्गमाकाशसधर्मकं विभुम् ।
त्वां यो न वेद किमृचा करिष्यति साम्नाऽथवा यजुषाथर्वणैर्वा ॥ ४७॥
हृदा पश्यन्ति मनसा मनीषिणो जानन्ति त्वां प्रथमं कवीनाम् ।
ब्रह्मैव तद्ब्रह्मण उज्जभार स्वाविद्यया संसरसे च मुच्यसे ॥ ४८॥
शुद्धं बुद्धमबुद्धिबोधजनकं बद्धैकमोक्षप्रदं
सिद्धं साध्यगणाख्यविद्वशरकमात्मैक्ययोधे रतम् ।
ओङ्कारात्मककार्मुकं निजसुखामोदैकमुष्टिं ध्रुवं
तं ब्रह्माखिलकोशकाशमनिशं शम्भुं परं धीमहि ॥ ४९॥
श्रद्दध्यान्न स जातु धीरहृदयो मामन्तको मारये-
दित्युक्त्या गुरुवाक्यबोधजनितानन्दोज्झिताहङ्कृतिः ।
आत्मानं तमसः परं मृगयतां शीर्णेष्वशीर्णं सदा
देहाक्षादिषु भूतभव्यगणनाकालेऽपि दृश्येऽपि च ॥ ५०॥
उद्गीथप्राणनामैर्मधुदहरपर्यङ्कतपनैः तथा वह्नीन्द्राद्यैः श्रुतिशिखरविद्योत्थसुपथा ।
अतः पारम्पर्यक्रममकृतवाक्येर्विधियुतैर्महेशाङ्गाबद्धैर्न भवति हि साक्षात् पराशवः ॥ ५१॥
चतुर्जालं कोशं तव च विहितं मृत्युरहितं शिरोधर्मस्तेऽद्य प्रतिसुरशरीरो विधिहनुः ।
तव ब्रह्म क्षत्रं भवति भगवन्नोदनभिदं यमस्तुपादंशः क इह वेत्ता गुणगणम् ॥ ५२॥
आयुर्दाता त्वमेव श्रुतिशिखरगतापारमाहात्म्यजाल
एकस्त्वत्तोऽभिजातं जगदिदमखिलं स्रष्टुकामो विधिश्च ।
विश्वं चाप्येति चान्ते त्वयि तु भगवन्नायुषेऽहं प्रपद्ये
मृत्योर्भीतः सदा त्वां घृतमधुकृतया धारया तर्पयानि ॥ ५३॥
नान्तःप्रज्ञमिदं तथा च न बहिःप्रञ्ज्ञं न नैवोभयं
न प्रज्ञानघनं विशेषजनकं चानन्दबोधात्मकम् ।
अदृश्यं न ग्राह्यं शिवमभयभावादिरहितं
असारं सारं तज्जनितभवभावादिकरणम् ॥ ५४॥
उत्फुल्लामलरक्तपद्मसमितं कोशासनोत्थप्रभं
ज्योक् पश्येम विचित्रवर्णमधुना सौवर्णमत्यादरात् ।
उद्यन्तं भगवन्तमाशु तमसां नाशैककान्तिं सदा
जीवेम प्रतिवासरं द्रविणदं त्वामाश्रिताः सर्वदा ॥ ५५॥
यतो ब्रह्मविष्णवीशरुद्रेन्द्रपूर्वा जगच्चापि नित्यं विभो सम्प्रसूताः ।
अहो ध्यायितेशानमध्ये हृदन्तर्महापद्मसद्मो भवव्योमगः शम्भुरीशः ॥ ५६॥
तमेवं विजानीयमात्मानमेकं किमन्याभिर्वार्ताभिर्दुस्तर्कजालैः ।
निसर्गो विसर्गो विभो दुःखवार्तां विमुञ्चन्तु मुञ्चन्तु दुःखैकतापम् ॥ ५७॥
ध्येयो महेशः श्रुतिजातकीर्तिः विशिष्टः शिवः शङ्करश्चादिकर्ता ।
समाप्तं शिखायास्तथा वाक्यजालं किमन्यत्र वाक्यादिशङ्कावकाशः ॥ ५८॥
न तत्र सूर्यः प्रतिभाति सोमो वह्निर्न ऋक्षाणि तथा हि विद्युत् ।
त्वद्भासनाद्भाति विचित्रमेतत् त्वं ज्योतिषां ज्योतिरसि प्रसिद्धः ॥ ५९॥
विश्वं हि भूतं भुवनं विचित्रमनेकधा जातमहो दिगीश्वरैः ।
न जायमानं विधिभिर्महेश रुद्रस्त्वमात्मन् भगवन् प्रसीद ॥ ६०॥
ईशानमाहुग्मृतस्य विष्पतिं त्वत्तेजः पादमिदं जगद्गतम् । (विशां पतिस्त्वं तेजसः)
यतो विष्णुर्महिमा सम्बभूव ततो विराट् पुरुषश्च क्रमेण ॥ ६१॥
न कर्मणा न प्रजया धनेन न विद्यया तपसा वाऽपि शम्भो ।
चित्तस्य सङ्कल्पविकल्पजालत्यागेन त्वां संश्रयन्त्येव धीराः ॥ ६२॥
वेदान्तविज्ञानसुनिश्चितार्थाः सन्यासयोगाद्यतयो भक्तिभावाः ।
ते ब्रह्मणो लोकमवाप्य धीराः तस्यान्तकाले प्रविशन्ति च त्वाम् ॥ ६३॥
यस्मिन्निदं सञ्च विचैति सर्वं यस्मिन् देवा अधिविश्वे निषेदुः ।
तदेव भूतं तदु भव्यमाहुः तदक्षरं त्वां श्रुतयो वदन्ति ॥ ६४॥
त्वया वृतं खं च दिवं महीं च त्वयादित्यस्तपति तेजसेद्धः ।
अन्तः समुद्रे कवयो निचिक्युः त्वां दुर्दर्शं गूढमनुप्रविष्टम् ॥ ६५॥
दृष्ट्वाम्बिकोत्सङ्गगतं च बालं शूली भवल्लोलविलोचनान्तैः ।
स वज्रजम्भारिकरं महेश संस्तम्भयद्यो भुवनानि सप्त ॥ ६६॥
दहनपवनशक्रा यक्षरूपं महेशं तृणमपि च तदग्रे दग्धुमादातुमैच्छन् ।
निवृत्तभावा भगवन्तमारात् उमाप्रसादेन विदग्धमोहाः ॥ ६७॥
या चोमा भगवंस्तदेकवसतिर्यस्याः कृपालेशतो
जातं विश्वमिदं विचित्रजनकं या सा स्वयं मोहयेत् ।
यां देवा मुनयोऽप्यमी स्तुतिशतैः स्तुत्वा त्वदीयं शुभं
विज्ञानं समवाप्य मुक्तकरणा मुक्ति प्रयान्त्येव ते ॥ ६८॥
ईशानस्त्वं सर्वविद्यादिनाथस्त्वं वेदादौ स्वर एको महेशः ।
तस्य त्वं वै प्रकृतौ सम्प्रलीनः प्राणो देवः प्रणवस्त्वं महेश ॥ ६९॥
सदैव त्वा सन्तं न विदुग्मराः केवलमहो
त्वमात्मा शक्रस्य प्रतिहतगुणो देव शतधा ।
चरस्येको नाडिष्वमितपरमानन्दमधुरो हृदा
पश्यन्तीशं यमितकरणास्ते हि मनसा ॥ ७०॥
यो वै रुद्र इति श्रुतिः प्रतिपदं वक्ति त्वदीयांशकं
चन्द्रेन्द्रानलभास्करा हरिविधिस्कन्दा गणानां पतिः ।
एवं त्वन्मयमेतदेव जगति तज्जादिशब्दैः स्तुतिः (श्रुतिः)
निर्वक्ति प्रमथाधिनाथ सुतरां त्वां देवदेवं सदा ॥ ७१॥
वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् ।
सर्वाणि रूपाणि सदैव शम्भो कृत्वाधितिष्ठस्यथ पद्मजेन ॥ ७२॥
स्तुतोऽसि सृष्ठिप्रथनाय चाग्रे इन्द्रेण चाशामधिपैश्च सर्वदा ।
ज्ञात्वा परे त्वां भवने वीतशोकाः नान्यः पन्था विद्यतेऽयनाय ॥ ७३॥
त्वन्मन्यवे करजातधनुःशरणां हेतिं तथैव शरधिं नमसां गणैश्च ।
वक्ति श्रुतिः प्रमथनाथ तवोरुभावं सर्वात्मकं बहुमयात् किल वेदवेद्य ॥ ७४॥
हिरण्यादिनामैः भवाद्यैश्च सोमैः शिवायेति च त्वां महेशं नतोऽस्मि ।
इन्द्रं मित्रं वरुणमनलं पङ्कजाज्जातमेकं नानारूपं हरिमिति मखे त्वां ह्वयन्तेऽध्वरेशम् ॥ ७५॥
तेषां तत्तच्छ्रुतिभिः परिपिबसि महासोममीशान तुष्टः ।
सार्धं कामैश्च पुष्णास्यखिलभवहरो ब्राह्मणान् सोमपूतान् ॥ ७६॥
त्वं वेदेषु प्रथितो विप्रवर्यो मनुष्योहं ब्रह्मणश्चाप्तकामः ।
तस्मात्सोमो ब्राह्मणानां हि राजा वेदेषु त्वं प्रथितश्चोपवीती ।
तस्माच्छ्रेयस्त्वत्पदाब्जं महेश ॥ ७७॥
द्वैधीभावैरनेकैः श्रुतशतविहितैः पूर्वपक्षैरनेक-
र्नानादेहैस्त्वयीशे उपवसनपराः कल्पयन्त्यद्वितीयम् ।
देहैर्भूतेन्द्रियोत्थैर्जनिशतविततैः कर्मसङ्कल्पजातैः
सर्वैर्भिन्ननस्त्वमात्मा भवसि श्रुतिगतैर्नेतिनेत्यादिवाक्यैः ॥ ७८॥
शुकिस्त्वं रजतं जगत्त्वयि सदा भातीदमत्यद्भुतं
त्वज्ज्ञाने सनि भेदभानमखिलं त्वय्येव संलींयते ।
यस्मिन् ज्ञाते हि श्रुत्या मननपरिगता वादयुक्त्या गुरूक्त्या
वेदान्तार्थैकसक्त्या त्वमसि भवशतोच्छेदकः साधकानाम् ॥ ७९॥
प्रज्ञानं ब्रह्म एवायमात्मा ब्रह्म पुच्छं प्रतिष्ठे-
त्यहं ब्रह्मास्मीति श्रुतिशिखरगतैस्तत्वमस्यादिवाक्यैः ।
तत्त्वंशब्दार्थभेदव्यपगमनियता ये यतन्ते यतीन्द्रा-
स्तेषां कोटीशतेषु त्वमसि भवशतोच्छेदकस्त्वन्तरात्मा ॥ ८०॥
तव ज्ञानमेकं भवच्छेदहेतुः श्रुतिश्चाह नान्यः पथेत्याह सत्यम् ।
भवद्भक्तिलभ्यं हि तद्ज्ञानमिष्टं न तत् श्रवणेनापि लभ्यं कदाचित् ॥ ८१॥
यद्वन्मद्यपपित्तचित्तमनिशं नाङ्गानि संवेत्त्यहो
तद्वद्देहचतुष्टयं च मनसः सङ्कल्पचित्रोत्थितम् ।
त्वामानन्दघनं महोदधिमिव प्राप्तो यथा शीकरः
नाम्ना रूपेर्विनष्टः स तु विधमनसा तद्ब्रह्म न ब्रह्मवित् ॥ ८२॥
त्वामात्मानमखण्डबोधसहजानन्दैकवृत्तिस्फुर-
च्चिन्तावृत्तकथां च तत्र तनुते कर्पूरमग्निप्रभा ।
दग्ध्वा नाशमुपैति तद्वदधुना चित्तं महाकामदं
सा वृत्तिः परमार्थदान निपुणा तद्ब्रह्म न ब्रह्मवित् ॥ ८३॥
न मुक्तिर्न बन्धोऽद्य ईशान शम्भो न चापारवेदान्तमार्गः कुतो ना ।
न भेदो न चाद्वैतगन्धादिलेशो नचाज्ञानविज्ञानशङ्का कृतो वा ॥ ८४॥
अहं विश्वं सर्वं भुवनमधुना वेदवचसा
गुरूक्त्या त्वद्भक्त्या अभवमखिलानन्दकुहरः ।
अहो सत्यारत्निप्रमितमतिदेहादिषु मुधा
अहं मानापन्नो भवशतजसङ्कल्पशगः ॥ ८५॥
शून्ये वा विपिने महागिरितटे सामानि गायन्नसौ
आहावुहावु इति त्रिरुन्नतपदं तत्वम्पदैर्वर्जितः ।
जातानन्दभरः स एव त्वमसि तद्ब्रह्म न ब्रह्मवित्
लिङ्गान्मे स विनृत्यति प्रतिदिनं कौतूहलैरन्वितः ॥ ८६॥
यदाकाशकोशं जगच्चक्षुयुक्तं विभृढ यदा चर्मवद्वेष्टयन्ति ।
तदा त्वां महेशं ह्यविज्ञाय दुःखैर्विमुक्ता भविष्यन्ति सत्यं त्रिसत्यम् ॥ ८७॥
एवं सदात्मानमसंशयेन यो वेत्ति धीरः श्रुतितर्कयुक्त्या ।
स त्वामनु त्वं तमनुप्रविष्टः तस्यैव शान्तिर्नेतरस्याऽऽह वेदः ॥ ८८॥
भवत्प्रसादलेशतः सुजात वेदवाक्यतः भवन्ति जन्मनिर्वृता न बोधतः परं पदम् ।
न वेदान्तबोधैर्न चापारवाक्यैः गुरूकत्यादिसिद्धान्तराद्धान्तवाक्यैः ॥ ८९॥
श्रुतिश्रावणैः शास्त्रवार्तादिगर्तेः महावर्तजातैः शिरोभ्रान्तिभूतैः ।
अगन्धमस्पर्शमरूपमद्भुतमणोरणुं त्वां महतो महान्तम् ॥ ९०॥
एवं त्वमज्ञातुमशक्तभावाः उमासहायादिगुणैर्भजन्ति ।
अलिङ्गलिङ्गं परमीशितारमात्मानमानन्दमगाधबोधम् ॥ ९१॥
तथापि लिङ्गेषु समर्चयन्ति बिल्वीदलैः कोमलपल्लवैस्त्वाम् ॥ ९२॥
॥ इति शिवरहस्यान्तर्गते वामदेवकृतोपनिषत्स्तुतिनिरूपणम् ॥
- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः २६॥
- .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 26..
Notes:
The composition addressed to Shiva by Rishi Vamadeva, is based on words and concepts from various Upanishads. Rishi Vamadeva is the son of Rishi Gautama. He is the seer of a large part RigVeda Mandala IV, and is also mentioned in the Upanishads.
The shloka numbers have been maintained per the source text.
Proofread by Ruma Dewan