वासुदेवकृतं शिवस्तोत्रम्
वासुदेव उवाच ।
युधिष्ठिर महाबाहो महाभाग्यं महात्मनः ।
रुद्राय बहुरूपाय बहुनाम्ने निबोध मे ॥ १॥
वदन्त्यग्निं महादेवं तथा स्थाणुं महेश्वरम् ।
एकाक्षं त्र्यम्बकं चैव विश्वरूपं शिवं तथा ॥ २॥
द्वे तनू तस्य देवस्य वेदज्ञा ब्राह्मणा विदुः ।
घोरामन्यां शिवामन्यां ते तनू बहुधा पुनः ॥ ३॥
उग्रा घोरा तनुर्याऽस्य सोऽग्निर्विद्युत्स भास्करः ।
शिवा सौम्या च या तस्य धर्मस्त्वापोऽथ चन्द्रमाः ॥ ४॥
आत्मनोऽर्धं तु तस्याग्निरुच्यते भरतर्षभ ।
ब्रह्मचर्यं चरत्येष शिवा यास्य तनुस्तथा ॥ ५॥
यास्य घोरतमा मूर्तिर्जगत्संहरते तया ।
ईश्वरत्वान्महत्त्वाच्च महेश्वर इति स्मृतः ॥ ६॥
यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान् ।
मांसशोणितमज्जादो यत्ततो रुद्र उच्यते ॥ ७॥
देवानां सुमहान्यच्च यच्चास्य विषयो महान् ।
यच्च विश्वं महत्पाति महादेवस्ततः स्मृतः ॥ ८॥
समेधयति यन्नित्यं सर्वार्थान्सर्वकर्मभिः ।
शिवमिच्छन्मनुष्याणां तस्मादेष शिवः स्मृतः ॥ ९॥
दहत्यूर्ध्वं स्थितो यच्च प्राणोत्पत्तिः स्थितिश्च यत् ।
स्थिरलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः ॥ १०॥
यदस्य बहुधा रूपं भूतं भव्यं भवत्तथा ।
स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः ॥ ११॥
धूम्रं रूपं च यत्तस्य धूर्जटीत्यत उच्यते ।
विश्वे देवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः ॥ १२॥
सहस्राक्षोऽयुताक्षो वा सर्वतोऽक्षिमयोऽपि वा ।
चक्षुषः प्रभवस्तेजो नास्त्यन्तोऽथास्य चक्षुषाम् ॥ १३॥
सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः ।
तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः ॥ १४॥
नित्येन ब्रह्मचर्येण लिङ्गमस्य यदा स्थितम् ।
महयन्त्यस्य लोकाश्च महेश्वर इति स्मृतः ॥ १५॥
विग्रहं पूजयेद्यो वै लिङ्गं वापि महात्मनः ।
लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते ॥ १६॥
ऋषयश्चापि देवाश्च गन्धर्वाप्सरसस्तथा ।
लिङ्गमेवार्चयन्ति स्म यत्तदूर्ध्वं समास्थितम् ॥ १७॥
पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः ।
सुखं ददाति प्रीतात्मा भक्तानां भक्तवत्सलः ॥ १८॥
एष एव श्मशानेषु देवो वसति नित्यशः ।
यजन्ते तं जनास्तत्र वीरस्थाननिषेविणम् ॥ १९॥
इति महाभारते अनुशासनपर्वणि १४६ अध्यायान्तर्गतं
वासुदेवकृतं शिवस्तोत्रं सम्पूर्णम् ।
महाभारत । अनुपर्व । अध्याय १४६/१-२९॥
mahAbhArata . anuparva . adhyAya 146/1-29..
Proofread by PSA Easwaran