वातूलनाथसूत्राणि
अथ श्रीवातूलनाथसूत्राणि ।
महासाहसवृत्त्य स्वरूपलाभः ॥ १॥
तल्लाभाद्युगपद्वृत्तिप्रवृत्तिः ॥ २॥
variation तल्लाभाच्छुरिता युगपद्वृत्तिप्रवृत्तिः ॥ २॥
उभयपट्टोद्ध्वट्टनान्महाशून्यताप्रवेशः ॥ ३॥
युग्मग्रासान्निरवकाशसंविन्निष्ठा ॥ ४॥
सिद्धयोगिनीसङ्घट्टान्महामेलापोदयः ॥ ५॥
त्रिकञ्चुकपरित्यागान्निराख्यपदावस्थितिः ॥ ६॥
वाक्चतुष्टयोदयविरामप्रथासु स्वरः प्रथते ॥ ७॥
रसत्रितयास्वादनेनानिच्छोच्छलितं विगतबन्धं परं ब्रह्म ॥ ८॥
देवीचतुष्टयोल्लासेन सदैव स्वविश्रान्त्यवस्थितिः ॥ ९॥
द्वादशवाहोदयेन महामरीचिविकासः ॥ १०॥
चर्यापञ्चकोदये निस्तरङ्गसमावेशः ॥ ११॥
महाबोधसमावेशात्पुण्यपापासम्बन्धः ॥ १२॥
अकथनकथाबलेन महाविस्मयमुद्रा प्राप्त्या खस्वरता ॥ १३॥
इति श्रीवातूलनाथसूत्राणि ।
॥ इति शिवम् ॥
Encoded by Haresh BakShi
Proofread by Haresh BakShi, Ruma Dewan