वीरभद्राष्टोत्तरशतनामावलिः
ॐ । अघोरभद्राय नमः । अतिक्रूराय । रुद्रकोपसमुद्भवाय ।
सर्पराजनिवीताय । ज्वलन्नेत्राय । प्रमीताभरणाय ।
त्रिशूलायुधधारणाय । शत्रुप्रतापनिधनाय । शशिशेखराय ।
हरिकेशाय । जटाधारिणे । दक्षयज्ञविनाशनाय । ऊर्जस्वलाय ।
नीलशिखिने । नटाकाराय । निजज्वालोज्ज्वलाय । धन्विने । ज्येष्ठाय ।
मखघ्नाय । अरिदर्पघ्नाय नमः ॥ २०
ॐ आत्मयोनये नमः । कालभक्ष्याय । गम्भीराय ।
कलङ्करहिताय । जल्पिने । शरभाय । कालकण्ठाय । भूतरूपधृते ।
परोक्षवरदाय । कलिसंहारकृते । अति(आदि)भीमाय । गणपतये ।
भोगाय । योग्याय । खड्गधारिणे । खेटधारिणे । विजयिने ।
जयप्रदाय । भीमरूपाय । नीलकण्ठाय नमः । ४०
ॐ निरामयाय नमः । भुजङ्गभूषणाय । गहनाय ।
दामभूषणाय । प्राणदाय । टङ्कहस्ताय । शरचापधराय । मृगासनाय ।
महावश्याय । महासत्याय । महाक्षमाय । शालाय । मोहाय ।
जृम्भहारिणे । दिविवासिने । रुद्ररूपाय । सारज्ञाय ।
दुःस्वप्ननाशनाय । वज्रदंष्ट्राय । वक्रदन्ताय नमः । ६०
ॐ सुकान्ताय नमः । जयन्धराय । कलानिधये । सौम्याय ।
भूतभावनाय । धनदात्रे । (अ)सुरकुलनाशनाय । मारघ्ने ।
कैलासवासिने । क्षेमक्षेत्राय । बिन्दूत्तमाय । हरदत्तकपालाय ।
बृहल्लोचनाय । भस्मधृते । पार्वतीप्रियपुत्राय । वीराय । विषहराय ।
ईशानपुत्राय । भस्मोद्धूलिने । कारणमूर्तिमते नमः । ८०
ॐ महते भूताय नमः । महाडम्भाय । रुद्राय । उन्मत्ताय ।
त्रेताचाराय । हुङ्काराय । अचिन्त्याय । परब्रह्मणे । किङ्किणीधृते ।
धातुकाय । वीणापञ्चमनिस्वनाय । नीलवेणये । श्यामनिभाय ।
चण्डाय । मार्ताण्डाय । कुञ्चिताङ्घ्रये । कृत(घृत)मुखाय । कुतुकाय ।
अट्टहासाय । बृहत्सेनावृताय नमः । १००
ॐ रक्तवर्णधराय नमः । किरीटिने । उग्राय । सिंहहन्त्रे ।
अङ्गदधृते । अनाथाय । शत्रुमथनाय । श्री वीरभद्रेश्वराय नमः । १०८
इति वीरभद्राष्टोत्तरशतनामावलिः समाप्ता ।
Proofread by Aruna Narayanan