श्रीवीरभद्रकवचम्
ॐ अस्य श्री वीरभद्रकवचमहामन्त्रस्य पशुपति ऋषिः
अनुष्टुप्छन्दः, श्रीभद्रकालीसमेत वीरभद्रो देवता,
ह्रां बीजं ह्रीं शक्तिः क्लीं किलकं, श्रीभद्रकालीसमेत
वीरभद्रेश्वरप्रसादसिद्ध्यर्थे जपे विनियोगः ॥
ध्यानम् -
रुद्ररौद्रावतारं हुतवहनयनं चोर्ध्वकेशं सुदंष्ट्रं
व्योमाङ्गं भीमरूपं किणिकिणिरमसज्वालमाला वृताङ्गम् ।
भूतप्रेताधिनाथं करकमलयुगे खड्गपात्रे वहन्तं
वन्दे लोकैकवीरं त्रिभुवनविनुतं श्यामलं वीरभद्रम् ॥
अथ कवचम् -
ॐ ललाटं वीरभद्रोऽव्याच्चक्षुषी चोर्ध्वकेशभृत् ।
भ्रूमध्यं भूतनाथोऽव्यान्नासिकां वीरविग्रहः ॥ १॥
कपाली कर्णयुगलं कन्धरं नीलकन्धरः ।
वदनं भद्रकालीशो चुबुकं चन्द्रखण्डभृत् ॥ २॥
करौ पाशकरः पातु बाहू पातु महेश्वरः ।
ऊरुस्थलं चोग्रदंष्ट्राऽऽनन्दात्मा हृदम्बुजम् ॥ ३॥
रुद्रमूर्तिर्नाभिमध्यं कटिं मे पातु शूलभृत् ।
मूर्धानं पञ्चमूर्धाऽव्यान्निटलं निर्मलेन्दुभृत् ॥ ४॥
कपोलयुग्मं कापाली जिह्वां मे जीवनायकः ।
स्तनद्वयं पशुपतिर्लिङ्गं मे लिङ्गरूपधृत् ॥ ५॥
सर्वाङ्गुलीः सर्वनाथो नखान्मे नागभूषणः ।
पार्श्वयुग्मं शक्तिहस्तो सर्वाङ्गं देववल्लभः ॥ ६॥
सर्वकार्येषु मां पायात् भद्रकालीमनोहरः ।
ब्रह्मराक्षसपैशाचवेतालरणभूमिषु ॥ ७॥
सर्वेश्वरः सदा पातु सर्वदेवमदापहः ।
शीतोष्णयोश्चान्धकारे निम्नोन्नतभुविस्थले ॥ ८॥
कण्टकेष्वपि दुर्गेषु पर्वतेऽपि च दुर्गमे ।
शस्त्रास्त्रमुखभल्लूकव्याघ्रचोरभयेषु च ॥ ९॥
राजाद्युपद्रवे चैव पायाच्छरभरूपधृत् ।
य एतद्वीरभद्रस्य कवचं पठते नरः !
शोकजं मृत्युभयं मुक्त्वा सुखं प्राप्नोति निश्चयम् ॥ १०॥
मोक्षार्थी मोक्षमाप्नोति धनार्थी लभते धनं !
विद्यार्थी लभते विद्यां जयार्थी जयमाप्नुयात् !!
देहान्ते शिवसायुज्यमवाप्नोति न संशयम् ।
एतत्कवचमीशानि न देयं यस्य कस्य चित् ॥ ११॥
सुकुलीनाय शान्ताय शिवभक्तिरताय च ।
शिष्याय गुरुभक्ताय दातव्यं परमेश्वरि ॥ १२॥
तव स्नेहान्मया प्रोक्तमेतत्ते कवचं महत् ।
गोपनीयं प्रयत्नेन त्वयैवं कुलसुन्दरि ॥ १३॥
॥ इति श्रीवीरभद्रकवचं सम्पूर्णम् ॥
Note:
Originally, it was mentioned in colophone that
this kavacham is from AkAshabhairavakalpa in
chatvAriMshat paTalaH. However, it is not
readily found in printed AkAshabhairavakalpa.