वीरभद्रप्रति महादेवप्रसादनम्
(शिवरहस्यान्तर्गते ईशाख्ये)
वीरभद्र उवाच ।
शम्भो भवाम्बुनिधितारणकर्णधार
विश्वम्भराधरविभूषण कालकाल ।
श्रीव्योमकेश गरलाश महेश शम्भो
पाह्यब्जमित्रनयनैणकलङ्कचूड ॥ ९॥
स्तुत्वा नत्वा महादेवं गणेन्द्रो गणपैःसह ।
शम्भोः पार्श्वगतो भूत्वा व्यतिष्ठत्स कृताञ्जलिः ॥ १०॥
ईश्वर उवाच ।
वत्साद्य परिखिन्नोऽसि गणेशैः सुरजन्यकै ।
नैतच्चित्रं जयस्तेऽद्य मत्कृपावशतोऽभवत् ॥ ११॥
गणेशतामुपगत एभिर्गणवरैः सह ।
हेतिशूलायुधधरैर्भस्मभालाचलोन्नतैः ॥ १२॥
वस मत्तद्विपाकारैः काश्यां नित्यमतन्द्रितैः ।
तत्र पापकृतामन्ते जीवतां विघ्नराशिभिः ॥ १३॥
निघ्नन्गदायुधैः पापान् भस्मरुद्राक्षवर्जितान् ।
यज्ञवापीस्नानहीनान् मणिकर्ण्यार्चनोज्झितान् ॥ १४॥
प्रदोषसोमवारार्चाविहीनाँल्लिङ्गमौलिषु ।
कालाष्टमीव्रताऽश्रद्धान् चतुर्दश्यर्चनोज्झितान् ॥ १५॥
विश्वेशदर्शनेहीनान् स्तोत्रार्चनविवर्जितान् ।
अन्नपूर्णादर्शनार्चाविहीनान् शिक्षयाधुना ॥ १७॥
रुद्रपञ्चाक्षरावृत्ति विहीनान् जहि नित्यशः ।
अशाम्भवान् यातनाभिः संशिक्षय यथारुचि ॥ १८॥
इत्युक्तो वीरभद्रोऽसौ ययौ नत्वा महेश्वरम् ।
अविमुक्तं समासाद्य गणपैस्तत्र शाङ्करैः ॥ १९॥
वीरभद्रेश्वरं लिङ्गं प्रतिष्ठाप्यावसत्तदा ।
शिवाज्ञया तदा भद्रो भद्रदः शाम्भवेषु सः ॥ २०॥
॥ इति शिवरहस्यान्तर्गते वीरभद्रादिकृता शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । ७ महादेवप्रसादनम् । ९-२० ॥
- .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . 7 mahAdevaprasAdanam . 9-20 ..
Notes:
Vīrabhadra वीरभद्र eulogizes Śiva शिव; who had appeared at the devastated Dakṣādhvara दक्षाध्वर, to appease and pacify Him. Blessed, and thereafter as commanded by Śiva शिव; Vīrabhadra वीरभद्र settles in Kāśī काशी after establishing the Vīrabhadreśvara Śivaliṅga वीरभद्रेश्वर शिवलिङ्ग.
Proofread by Ruma Dewan