वीरेश्वरस्तुतिः - १
॥ वीरेश्वरस्तुतिः - १ - गौरीमनोरमणभजनस्तोत्रम् ॥
मन्मानसं भव भवच्चरणार्चनाय तावत्प्रसूनमिदमस्तु शरीरमस्य ।
धूपाय नित्यमसवोऽप्युपहारयोग्याः चक्षूंषि दीपकलिकाफलतां प्रयान्तु ॥ १॥
यद्यन्मदीयमनघं वसु चन्द्रमौले तत्तत्तवैव पदपूजनयोग्यमस्तु ।
स्वामिन् त्रिनेत्र मम गात्रमिदं पवित्रं लिङ्गार्चनाय भगवन्ननुकूलमस्तु ॥ २॥
धीरैस्सहारसुकुमारकुमारदारैः साकं निराकुलमुमारमणार्चनेन ।
कालं नयामि विमलैः कमलाविलासैः श्रीकालकाल सकलैः सकलैरलं मे ॥ ३॥
जन्मानि सन्तु शतशोऽथ सहस्रशो वा किं तावताऽपि यदि भक्तिरुमासहाये ।
धन्यानि तानि सकलानि तदेति मन्ये धन्यं त्रिलोचनकृपैकविधानभूतम् ॥ ४॥
मत्प्रार्थनीयमिदमेव भवत्पदाब्जभक्तिर्भवत्पादसरोरुहपूजनाय ।
तेनैव मे सकलसिद्धिपरम्परा स्यात् एतावदेव मम देयमपि त्वयापि ॥ ५॥
भक्तिर्भवे प्रतिभवेऽपि विरक्तिरर्थे शक्तिर्गिरीशनगमनेऽनुरक्तिः ।
लिङ्गार्चने रतिरनङ्गहरे प्रवृत्तिः बिल्वार्चने मतिरुमेशकथासु मे स्यात् ॥ ६॥
अद्यावधि प्रलयकालमहावसानपर्यन्तमन्तकरिपुत्रिपुरान्तकाख्या ।
नृत्यं करोतु रसनारुचिराङ्गणे मे श्रीशूलपाणिचरणे करवाणि वाणीम् ॥ ७॥
यागैरलं सकलयोगकुलैरलं मे दानैरलं परिमलैः कमलाविलासैः ।
अन्यैश्च धर्मनिकरैः सुकरैरपारे गौरीमनोरमण ते चरणौ भजामि ॥ ८॥
भाग्यैरलं बहुविधैर्निधिकोटिभिर्वा मातङ्गकोटिभिरलं कमलाविलासैः ।
गोकोटिकोटिभिरलं महिषीकुलैर्वा गौरीमनोरमण ते चरणौ भजामि ॥ ९॥
गर्भेऽर्भकत्वसमयेऽपि विवेकशून्यः त्वत्पादपद्मविमुखः कुमुखः कठोरः ।
तत्तावदीशकृपया न पुनर्ममास्तु गौरीमनोरमण ते चरणौ भजामि ॥ १०॥
पौगण्डमण्डिततनुव्यसनप्रहर्षवर्षाभियोगमभिभोगमपि प्रपद्य ।
भक्त्या स्मृतोऽपि भगवन् न मया जडेन गौरीमनोरमण ते चरणौ भजामि ॥ ११॥
सोन्मादयौवनवनोपहतेन तेन नाराधितोऽसि न मनागपि कीर्तितोऽसि ।
तत्तावदीश्वर पुनर्न ममास्तु मास्तु गौरीमनोरमण ते चरणौ भजामि ॥ १२॥
नारीमनोहरविहारपराभिभूतचित्तेन तावदसकृन्न नमस्कृतोऽसि ।
तन्मास्तु मास्तु हर मास्तु कदापि मास्तु गौरीमनोरमण ते चरणौ भजामि ॥ १३॥
वित्तार्जनाय बहुदेशविनाशदोषव्यापारपूरिततनुर्न तदा कदाऽपि ।
अभ्यर्चितोऽपि हि मया तदपास्यमेव गौरीमनोरमण ते चरणौ भजामि ॥ १४॥
दारोरुहारपरिहारविहारकारकारानुकारकरणेन वयोऽपि नीतम् ।
तेनालमेव हरहारभयापहारं गौरीमनोरमण ते चरणौ भजामि ॥ १५॥
हारप्रवीरपरमादरतो हरारं हारं सहारमनुवारमपि स्मरामि ।
नाद्यापि हारचिरसङ्गतिराविरासीत् गौरीमनोरमण ते चरणौ भजामि ॥ १६॥
मारोपकारकशरप्रवरप्रहारसंहारभीरुदरुणीचरणोपघातैः ।
नीतं दिनं प्रतिदिनं शमनं न मेने गौरीमनोरमण ते चरणौ भजामि ॥ १७॥
संसारसागरविचारविदूरगर्ते वृत्तिर्न वृत्तिरपि हारमनोहरेषु ।
हारोपहारकरणेऽपि न मे प्रवृत्तिः गौरीमनोरमण ते चरणौ भजामि ॥ १८॥
मन्दारकुन्दनवबिल्वदलप्रवालवल्लीदलैरपि न लिङ्गसमर्चनाय ।
यत्नः कृतः क्रतुशतादिकधर्मजालैः गौरीमनोहरण ते चरणौ भजामि ॥ १९॥
अङ्गारसागरशरीरविकारभार संहार मारहर हारविचारहीनः ।
दैनन्दिनप्रलयसंहरणप्रवीण गौरीमनोहरण ते चरणौ भजामि ॥ २०॥
मामेव मामकधिया परिपश्य पश्यका तावतापि तव तात वतातिहानिः ।
त्वं दीनबन्धुरिति किं श्रुतिषु श्रुतोऽपि गौरीमनोहरण ते चरणौ भजामि ॥ २१॥
॥ इति शिवरहस्यान्तर्गते वीरेश्वरस्तुतिः - १ - गौरीमनोरमणभजनस्तोत्रं सम्पूर्णम् ॥
बृहस्पतिशतानन्दसंवादे वीरेश्वरस्तुतिवर्णनं
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ४७। १९-३९॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 47. 19-39..
Proofread by Ruma Dewan