वीरेश्वरस्तुतिः - २

वीरेश्वरस्तुतिः - २

॥ वीरेश्वरस्तुतिः - २ - शिवभक्त्यार्थप्रार्थना ॥ चेतः शङ्करमाश्रयेतरसुरांस्तद्द्वारदौवारिकान् हारद्वारविचारकातरतरान् सेन्द्रानुपेन्द्रादिकान् । दूरे सन्त्यज सन्त्यजान्त्यजमिव स्वपनोऽपि मा संश्रय श्रेयश्चेत् तव वाञ्छित शिवतरं साम्बं समालम्बय ॥ १॥ चेतश्चिन्तय शङ्करं जप शिवं जिह्वे नमेशं शिरो नेत्नाम्भोरुह शाङ्गलिङ्गममलं पश्यादैरेः पूजितम् । रे रे कर्णपुटाशु शङ्करकथापीयुपधारां पिब घ्राणाघ्राय लभस्व शं शिवपदाम्भोजच्युतं केसरम् ॥ २॥ रे रे चारुकरातिकोमललसद्विल्वीदलेः शङ्करं लिङ्गं पूजय लिङ्गमस्तकमुपस्पृश्यादरेणान्वहम् । कृत्वा हस्तपुटं शिरस्यपि मुहुर्नाट्योत्सवैः शङ्करं नत्वा स्वाभिनयैः विनोदय महामृत्युञ्जयं चाव्ययम् ॥ ३॥ रे रे मानस राजहंस तरसा साम्बाङ्घ्रिपङ्केरुहं सेन्द्रोपेन्द्रविरिञ्चिमानसमहाहंसप्रशंसावहम् । तत्त्वं सम्भज सम्भजान्तकमहाव्याधान्न ते तत्र भीः भव्यं भावि भवोद्भवात् अभयदात् सम्भावितं शोभनम् ॥ ४॥ रे रे चिद्भ्रमर प्रधावसि वृथा संसारघोरोषरा- पाराम्भोरुहगन्धलोलुप न ते गन्धो न चाम्भोरुहम् । संसारोषरमण्डलेषु बहुधा भ्रान्तोऽधुना वा भज ब्रह्मानन्दमरन्दकन्दमसकृद्गौरीशपादा स्वुजम् ॥ ५॥ रे रे चारुचिरः पुनः पुनरुमाकान्ताङ्गणे लुण्ठनैः आस्वेदान्नतिभिथ जन्म तव तत् सार्थं कुरुष्वादरात् । भूयस्तत्प्रणतिप्रभूतकिणजापारव्यथानाशकं तत्पादाम्बुजमात्मबन्धनमिति ज्ञातं मया तत्कुरु ॥ ६॥ संसारोरुतरोः कठोरपिठरो घोरः कुठारोऽपरो हाराराधनमित्यवैमि तदिदं संसारिणां दुर्लभम् । येनेदं सकृदप्यनन्तसुकृतैः अत्यादरात् चेत् कृतं नीरैर्वा स तरत्यपारविविधव्याधिप्रपूणीर्णवम् ॥ ७॥ ॥ इति शिवरहस्यान्तर्गते वीरेश्वरस्तुतिः - २ - शिवभक्त्यार्थप्रार्थना सम्पूर्णा ॥ बृहस्पतिशतानन्दसंवादे वीरेश्वरस्तुतिवर्णनं - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ४७। ५४-६०॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 47. 54-60.. Proofread by Ruma Dewan
% Text title            : Vireshvara Stuti - 2
% File name             : vIreshvarastutiH2.itx
% itxtitle              : vIreshvarastutiH 2 shivabhaktyArthaprArthanA (bRihaspatishatAnandasaMvAde shivarahasyAntargatA)
% engtitle              : vIreshvarastutiH 2
% Category              : shiva, stuti, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 47| 54-60||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org