वीरेश्वरस्तुतिः - २
॥ वीरेश्वरस्तुतिः - २ - शिवभक्त्यार्थप्रार्थना ॥
चेतः शङ्करमाश्रयेतरसुरांस्तद्द्वारदौवारिकान्
हारद्वारविचारकातरतरान् सेन्द्रानुपेन्द्रादिकान् ।
दूरे सन्त्यज सन्त्यजान्त्यजमिव स्वपनोऽपि मा संश्रय
श्रेयश्चेत् तव वाञ्छित शिवतरं साम्बं समालम्बय ॥ १॥
चेतश्चिन्तय शङ्करं जप शिवं जिह्वे नमेशं शिरो
नेत्नाम्भोरुह शाङ्गलिङ्गममलं पश्यादैरेः पूजितम् ।
रे रे कर्णपुटाशु शङ्करकथापीयुपधारां पिब
घ्राणाघ्राय लभस्व शं शिवपदाम्भोजच्युतं केसरम् ॥ २॥
रे रे चारुकरातिकोमललसद्विल्वीदलेः शङ्करं
लिङ्गं पूजय लिङ्गमस्तकमुपस्पृश्यादरेणान्वहम् ।
कृत्वा हस्तपुटं शिरस्यपि मुहुर्नाट्योत्सवैः शङ्करं
नत्वा स्वाभिनयैः विनोदय महामृत्युञ्जयं चाव्ययम् ॥ ३॥
रे रे मानस राजहंस तरसा साम्बाङ्घ्रिपङ्केरुहं
सेन्द्रोपेन्द्रविरिञ्चिमानसमहाहंसप्रशंसावहम् ।
तत्त्वं सम्भज सम्भजान्तकमहाव्याधान्न ते तत्र भीः
भव्यं भावि भवोद्भवात् अभयदात् सम्भावितं शोभनम् ॥ ४॥
रे रे चिद्भ्रमर प्रधावसि वृथा संसारघोरोषरा-
पाराम्भोरुहगन्धलोलुप न ते गन्धो न चाम्भोरुहम् ।
संसारोषरमण्डलेषु बहुधा भ्रान्तोऽधुना वा भज
ब्रह्मानन्दमरन्दकन्दमसकृद्गौरीशपादा स्वुजम् ॥ ५॥
रे रे चारुचिरः पुनः पुनरुमाकान्ताङ्गणे लुण्ठनैः
आस्वेदान्नतिभिथ जन्म तव तत् सार्थं कुरुष्वादरात् ।
भूयस्तत्प्रणतिप्रभूतकिणजापारव्यथानाशकं
तत्पादाम्बुजमात्मबन्धनमिति ज्ञातं मया तत्कुरु ॥ ६॥
संसारोरुतरोः कठोरपिठरो घोरः कुठारोऽपरो
हाराराधनमित्यवैमि तदिदं संसारिणां दुर्लभम् ।
येनेदं सकृदप्यनन्तसुकृतैः अत्यादरात् चेत् कृतं
नीरैर्वा स तरत्यपारविविधव्याधिप्रपूणीर्णवम् ॥ ७॥
॥ इति शिवरहस्यान्तर्गते वीरेश्वरस्तुतिः - २ - शिवभक्त्यार्थप्रार्थना सम्पूर्णा ॥
बृहस्पतिशतानन्दसंवादे वीरेश्वरस्तुतिवर्णनं
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ४७। ५४-६०॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 47. 54-60..
Proofread by Ruma Dewan