वीरेश्वरस्तुतिः - ३
॥ वीरेश्वरस्तुतिः - ३ - वाराणसीनाथार्चनम् ॥
सद्भस्मनाङ्गानि विलेपयामो रुद्राक्षरत्तैश्च विभूषयामः ।
पञ्चाक्षरं पापहरं जपामो वाराणसीनाथ किमाचरामः ॥ १॥
धर्माणि सर्वाणि विवेचयामः कर्माण्यपाराणि विनाशयामः ।
श्रीभावलिङ्गं हृदि भावयामो वाराणसीनाथ किमाचरामः ॥ २॥
कुन्दैरमन्दैः शिवमर्चयामो वृन्दारवृन्दाश्रयमाश्रयामः ।
गौरीसमेतं सततं भजामो वाराणसीनाथ किमाचरामः ॥ ३॥
अहर्निशं सादरमिन्दिरादिवृन्दारनारीकवरीनिरुद्धम् ।
गौरीपदाम्भोजयुगं स्मरामो वाराणसीनाथ किमाचरामः ॥ ४॥
परात्परं यन्महतो महान्तं यदेकमव्यक्तमनन्तरूपम् ।
तद्वपमेतद्धृदि चिन्तयामो वाराणसीनाथ किमाचरामः ॥ ५॥
काशीपुरीवीथिषु सञ्चरामो भवादिनामानि सदा वदामः ।
श्रीभावमूर्तिं बहुधा नमामो वाराणसीनाथ किमाचरामः ॥ ६॥
आराध्यमेकं शिवरूपमेव विश्वं पुराणं तमसः परस्तात् ।
अनन्तकोट्यर्कसमं भजामो वाराणसीनाथ किमाचरामः ॥ ७॥
आनन्दकल्लोलकुलातिलोललीलाविलासालयशैलवालाम् ।
त्वां कालकालं च विलोकयामो वाराणसीनाथ किमाचरामः ॥ ८॥
गङ्गाम्भसा कुम्भसमन्वितेन वातेन शीतेन सुशीतलेन ।
वीरेश्वरं त्वामभिषिञ्चयामो वाराणसीनाथ किमाचरामः ॥ ९॥
जलामलैः कोमलबिल्वपल्लवैः श्रौतेन शुद्धोज्वलभस्मना च ।
वीरेश लिङ्गानि समर्चयामो वाराणसीनाथ किमाचरामः ॥ १०॥
॥ इति शिवरहस्यान्तर्गते वीरेश्वरस्तुतिः - ३ - वाराणसीनाथार्चनं सम्पूर्णम् ॥
बृहस्पतिशतानन्दसंवादे वीरेश्वरस्तुतिवर्णनं
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ४७। ८०-८९ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 47. 80-89 ..
Proofread by Ruma Dewan