वैदर्भीप्रोक्ता दर्शनोपरान्त शिवस्तुतिः
(शिवरहस्यान्तर्गते उग्राख्ये)
वैदर्भी उवाच
कृतार्थोऽस्मि महादेव दर्शनादधुना तत्र ।
दर्शनात्तव गौरीश जन्म धन्यमभून्मम ॥ ३६९॥
यदिदं पादकमलं भोगमोक्षप्रदायकम् ।
दिष्ट्या दृष्टं मया शम्भो विष्णुनेत्राम्बुजार्चितम् ॥ ३७०॥
हिरण्यबाहुदृष्टं ते रूपं दृष्टं हिरण्मयम् ।
हिरण्यवर्णो दृष्टोऽद्य तव मङ्गलविग्रहः ॥ ३७१॥
त्वं हिरण्यपतिर्दृष्टस्त्वं दृष्टोह्यम्बिकापतिः ।
दृष्टोऽस्युमापतिः साक्षाद्दृष्टः पशुपतिर्मया ॥ ३७२॥
ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ।
ऊर्ध्वरेतं विरूपाक्षं दृष्ट्वा त्वां मुदिताऽस्म्यहम् ॥ ३७३॥
प्रत्यक्षोऽसि यतस्त्र्यक्ष ततोऽहं मुदिता प्रभो ।
महेश त्वत्प्रसादेन भुक्तमैश्वर्यमुत्कटम् ॥ ३७४॥
मया नज्ञातमाजन्म शारीरं दुःखमण्वपि ।
सुखेनैव स्थितं शम्भो सर्वदा त्वत्प्रसादतः ॥ ३७५॥
कोटिशो रत्नदानानि स्वर्णदानान्यपि प्रिये ।
कृतानि त्वत्प्रसादेन पार्वतीवल्लभान्वहम् ॥ ३७६॥
उमेश भुक्तभोगायै भोगेच्छा नैव मे प्रभो ।
सत्यं सत्यं पुनः सत्यं देहि मुक्तिमतः परम् ॥ ३७७॥
॥ इति शिवरहस्यान्तर्गते वैदर्भीप्रोक्ता दर्शनोपरान्त शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २५। ३६९-३७७॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 25 . 369-377..
Proofread by Ruma Dewan