वैद्यनाथदर्शविग्रहवर्णनम्
इति स्तुतो वैद्यनाथो वृषारूढो महेश्वरः ॥ १७.२॥
आविरासीत्तदा शम्भुः करुणावरुणालयः ।
तदानीं गिरिजा तुष्टा सानन्दाश्रुमुखाम्बुजा ॥ १८॥
- -
प्रादुर्भूतं महादेवं दयासिन्धुं जगत्पतिम् ।
कृष्णश्रीगन्धकण्ठीं च सहितं सुन्दराकृतिम् ॥ १९॥
त्रिणेत्रं शशिचूडालं कोटिमन्मथविग्रहम् ।
दधतं तपनं शूलमभयं डमरुं तथा ॥ २०॥
लसदष्टमहानागभूषणोरस्कमव्ययम् ।
शक्तिभिर्विविधाभिश्च अप्सरोभिश्च वन्दितम् ॥ २१॥
गणाधिपेन स्कन्देन भद्रकाल्यादिभिर्वृतम् ।
शक्तादिभिर्लोकपालैरर्च्यमानपदाम्बुजम् ॥ २२॥
प्रपञ्चैर्वन्दितं कान्तं नीलकण्ठं वृषध्वजम् ।
बीजितं चामराभ्यां च भस्मरुद्राक्षमण्डितम् ॥ २३॥
तरुणं रूपसम्पन्नं वैद्यनाथं महेश्वरम् ।
- -
गौरी वीक्ष्य तदानन्दं प्राप्य तस्य पदाम्बुजम् ॥ २४॥
॥ इति वैद्यनाथस्थलमाहात्म्ये वैद्यनाथदर्शविग्रहवर्णनं सम्पूर्णम् ॥
- ॥ वैद्यनाथस्थलमाहात्म्यम् । षष्ठोऽध्यायः । १७.२-२४॥
- .. vaidyanAthasthalamAhAtmyam . ShaShTho.adhyAyaH . 17.2-24..
Notes:
Śiva शिव mounted on Nandi नन्दी; makes appearance as Vaidyanātha वैद्यनाथ, upon being eulogized by Gauri गौरी.
Encoded and proofread by Ruma Dewan