अश्विनौभिल्लादिककृता वैद्यनाथशिवस्तुतिः
अश्विनौ -
भिषग्वरं देववरं महेशं गङ्गाधरं सोमहुताशनेत्रम् ।
सुपद्ममित्रान्तरवर्तिनं त्वां भजाव शम्भुं सुहिरण्यबाहुम् ॥ ३९॥
दशशतवदनेक्षणोरुपादैः दशशतनयनेन संस्तुताङ्घ्रिम् ।
दशशतरुद्रगणाभिपूज्यलिङ्गं दशशतकिरणाक्षिभानतौ स्वः ॥ ४०॥
भिल्लः -
अहो महादेव सदाशिवेश प्रसीद मय्यद्य महाघपुञ्जे ।
त्वत्पादभक्त्या गणयामि नामरान्द्विजा मनुष्याश्च कियन्महेश्वर ॥ ४७॥
कियन्ति पापानि कृतानि चेत्किमु उत्पाटये युर्भवतोद्य शिष्यम् । (उत्पाटयेयुश्च मदीयशष्पम्)
यदि स्मरारेश्चरणारविन्दं स्मरामि तस्मान्न भयं ममाद्य ॥ ४८॥
मुनयः -
त्वामालोक्य सुनिर्वृता मुनिगणाः प्राप्ताभयाः शङ्करं
विश्वेशं मदनान्तकं सुरवरैर्वेदैश्चतुर्भिः स्तुतम् ।
धात्रा वृत्रहणेन मारजनकेनाराधितस्त्वं सदा
विश्वं त्वं तमसां परः श्रुतिशिरोवेद्यस्त्वमाद्यो भिषक् ॥ ६४॥
या चोमा भगवंस्त्वदङ्कवसतिर्यस्याः कृपालेशतो
जातं विश्वमिदं विचित्रजनकं या सा स्वयं मोहयेत् ।
यां देवा मुनयोऽप्यमी स्तुतिशतैः स्तुत्वा तदीयं शुभं
विज्ञानं समवाप्य मुक्तकरणा मुक्तिं प्रयान्त्येव ते ॥ ६५॥
भिल्लादस्माच्छिवो यत्करधृतधनुषो भीतिरस्माकमुग्रा -
दुग्रस्त्वं शैववर्ये विततयशःसीम्नि विस्तीर्णधाम्नि ।
सुधाधामा मूर्धा त्वयि च तदुभयं भिल्लगण्डूषवारि
नो सह्यं नो महेश भवदभयकृपापात्रभूतान् (?) प्रसीद ॥ ६६॥
शैवाः -
तारानाथसहोदरापतिकृतापाराब्जपूजाङ्घ्रिकं
मारारातिमपारदुःखशमनं घोरादिपापापहम् ।
धीरोदारकुमारशूरजनकं कर्पूरगौरं हरं वारं
वारमनुस्मराम हृदये वीरं कृपासागरम् ॥ ९८॥
भिल्लगणः (भिल्लः) -
निधनपतिमनीशं शासितारं परेशं
गुरुममरवराणां चारणानां च शम्भुम् ।
भुवनजनकमाराद्वेदशीर्षेषु गम्यं
कनकगिरिनिवासं वैद्यमाद्यं नतोऽस्मि ॥ १०२॥
अभेद्यस्त्वच्छेद्यो निखिलभवरोगादिहरणो
महानाद्यो वैद्यस्त्वमसि विबुधाद्याद्य वचसाम् ।
नमोऽन्ताद्यैर्मन्त्रैः प्रकटितयजुर्वेदतिलकैः
भवांस्तव्यः सेव्यो हर हरसि पापं मम विभो ॥ १०३॥
---
ईश्वरः -
इति स्तुत्वा तदा भिल्लः स्वभिल्लैर्भार्यया तदा ।
गणाधीशोऽभवद्देवि विकुण्ठोपरि कल्पिते ॥ १०४॥
विष्णुभोगशताधिक्ये लोके वै स्थापितो मया ।
एतत्तेऽभिहितं गौरि वैद्यनाथस्य वैभवम् ॥ १०५॥
यः श्रृणोति सदा भक्त्या मयि भक्तिं लभेत् स वै ।
लिङ्गमेतत्सकृद्दृष्ट्वा स्नाप्य गङ्गाम्भसा नरः ॥ १०६॥
कृतकृत्यो भवेद्गौरि स साक्षाद्गणपो भवेत् ।
वैद्यनाथमहालिङ्गं सकृद्दृष्ट्वा विमुच्यते ॥ १०७॥
अनन्तैरैपि पापौघैः सद्य एव न संशयः ।
शैवाश्च सततं भक्त्या बिल्वैर्गङ्गाम्भसा शिवे ॥ १०८॥
तल्लिङ्गं पूजयन्त्येव भवबन्धविमुक्तये ।
लिङ्गं मङ्गलदं मनोज्ञममलं श्रीवैद्यनाथाभिधं
दृष्ट्वा सम्पूज्य बिल्वैः सकृदपि च नरः प्राप्नुयान्मुक्तिकान्ताम् ।
त्यक्त्वा पापौघतापं जनिमृतिगदजापारदुःखैर्विहीनो
हीनोऽपि स्यादवश्यं भवशतजनितं भूरिपुण्यं लभेत ॥ १०९॥
॥ इति शिवरहस्यान्तर्गते अश्विनौभिल्लादिककृता वैद्यनाथशिवस्तुतिर्श्लोकानि सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः २०॥
- .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 20..
Notes:
Ashwini Kumara twins, Bhilla et al, eulogize Vaidyanatha Shiva. Bhilla is accorded the status of Shiva Gana.
The shloka numbers are maintained per the source text.
Proofread by Ruma Dewan